________________ उसम 1180- अभिधानराजेन्द्रः - भाग 2 उसभकूड नादिकंपूर्वमपि ममान्तव्रणमिव वाधते तदनु इदं जिनसक्थ्यादिपूजन क्षते क्षार इव सुतरां वाधते मैवं वादीः नामस्थापनाद्रव्यजिनानां भावजिनस्येव वन्दनीयत्वात् , तदाभगवच्छरीरस्य च द्रव्यजिनरूपत्वात सक्थ्यादीनां च तदवयवत्वाद्भावजिनादभेदेन वन्दनीयत्वमेव अन्यथा गर्भतयोत्पन्नमात्रस्य भगवतः "समणे भगवं महावीरे" इत्याद्यभिलापेन सूत्रकृतां सूत्ररचना शक्राणां शक्रस्तवप्रयोगादिकं च नौचितीमवेदिति। अत एव जिनसक्थ्याद्याशातनाभीरवो हि देवास्तत्र कामसेवनादौ न प्रवर्तन्ते इति। जं०२वक्ष०।। (31) अर्थक्ष्वाकूणां द्वितीयां चितिका वर्णयति॥ थूभसयभाउआणं, चउवीसं चेव जिणहरे कासी। सव्वजिणाणं पडिमा, वन्नपमाणेहिं निअगेहिं / / स्तूपशतं भ्रातृणां भरतः कारितवानिति तथा चतुर्विंशतिश्चैव जिनगृहे जिनायतने (कासित्ति) कृतवान् का इत्याह / सर्वजिनानां प्रतिमा वर्णप्रमाणैर्निजैरात्मीयैरिति गाथार्थः / आ० म०प्र० / श्रीऋषभदेवेन साक्रं यैर्दशसहस्रमुनिभिर्भक्तं प्रत्याख्यातं ते कियता कालेन सिद्धास्सन्तीति प्रश्न ऋषभदेवेन साकं दशसहसमुनयोऽ-भिजिन्नक्षत्रे सिद्धास्सन्तीत्येतदक्षराणि वसुदेवहिण्ड्यादौ वर्तन्ते इति बोध्यम्। श्वेन० 4 उल्ला० 31 प्र० / परिवेष्टनपट्टे , प्रव० 216 द्वा० / जी०।" वइरसंघयणे " लोहादिमयपट्टबद्धकाष्ठसम्पुटोपमसामर्थ्यान्वितत्वाद्वजर्षभः।। भ०१श०१ उ० / उत्त०। वृषभे, जी० 3 प्रति० / रा। जं० / औ० / अनु० / ज्ञा० / ओषधि-भेदे, कर्णच्छिद्रे, कुम्भीरपुच्छे, मेदि०। पर्वतभेदे च धरणि / वराहपुच्छे, हेम० / " नाभिमूलात् यदा वर्ण, उत्थितः कुरुते ध्वनिम् / वृषभस्येव निर्वाति, हेलया ऋषभः स्मृतः " इति सङ्गीतशास्त्रोक्ते स्वरभेदे, राजकर्तव्ये, वाच० / कात्यायनगोत्रायाः शिलानाम्न्याः कन्यकायाः पितरि, तत्कथा ब्रह्मदत्तहिण्ड्यांदर्शिता तत एवाऽवधार्या / उत्त०१ अ०। ऋषभकूटाधिपदेवे च / स्था०८ ठा०। उसम(ह)कंठ पुं०(ऋषभकण्ठ) पुं०६ त० / वृषभस्य कण्ठे, वृषभकण्ठप्रमाणे रत्नविशेषे, रा०।" उसभकंठाण अट्ठसयं"। जी०३ प्रति०। उषभकूड न०(ऋषभकूट) जम्बूद्वीपे उत्तरार्द्धभरते वर्षे स्यनामख्याते पर्वते। कहि णं भंते ! जंबुद्दीवे दीवे उत्तरभरहे वासे उसभकूडे णाम पव्वए पण्णत्ते गोअमा! गंगाकुंडस्स पच्चच्छिमेणं सिंधुकुंडस्य पुरच्छिमेणं चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंवे एत्थणं जंबुद्दीवे दीवे उत्तरड्डे भरहे वासे उसद्दकूडे णामं पव्वएपण्णत्ते अट्ठजोअणाई उड्डं उच्चत्तेणं दो जोअणाई उव्वेहेणं मूले अट्ठजोअणाई विक्खंभेणं मज्झेछ जोअणाई विक्खंभेणं उपरिं च चत्तारि जोअणाई विक्खंभेणं मूले साइरेगाइं पणवीसं जोअणाई परिक्खेवेणं मज्झे साइरेगाइं अट्ठारसजोअणाई परिक्खेवेणं उवरिं साइरेगाई दुवालसजोअणाई परिक्खेवेणं (पाठान्तरं) मूले वारसजोअणाई विक्खंभेणं मज्झे अट्ठजोअणाइं विक्खंभेणं उप्पिं चत्तारिजोअणाई विक्खंभेणं मूले साइ रेगाइं सत्ततीसंजाअणाइंपरिक्खेवेणं मज्झे साइरेगाइं पणवीसं जोअणाई परिक्खेवेण्णं उप्पिं साइरेगाई वारसजोअणाई परिक्खेवेणं मूले विच्छिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वजंबूणयामए अत्थेसण्हे जाव पडिरूवे सेणं एगाए पउमवरवेइआए तहेव जाव भवणं कोसं आयामेणं अद्ध-कोसं विक्खंभेणं देसूणं कोसं उड्डे उच्चत्तेणं अट्ठो तहेव उप्पलाणि पउमाणि जाव उसमे अ एत्थ देवे महड्डिए जाव दाहिणेणं रायहाणी तहेव मंदरस्स पव्वयस्स जहा विजयस्स अविसे सियं। भदन्त ! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाम्ना पर्वतः प्रज्ञप्तः भगवानाह गौतम ! गङ्गाकुण्डस्य यत्र हिमवतो गङ्गा निपतति तद्गगाकुण्डं तस्य पश्चिमायां यत्र तु सिन्धुर्निपपति सिन्धुकुण्डं तस्य पूर्वस्यां क्षुल्लहिमवतो वर्षधरस्य दाक्षिणात्यनितम्बे सामीप्यकसप्तम्या नितम्बासन्ने इत्यर्थः / अत्र प्रदेशे जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटोनाम्नापर्वतः प्रज्ञप्तः अष्टयोजनान्यूोच्चत्वेन द्वेयोजने उद्वेधेन भूमिप्रवेशेन उचत्वचतुर्थांशस्य भू-म्यवगाढत्वात् अष्टानां चतुर्थाश द्वयोरेव लाभात् / मूलमध्यान्तेषु क्रमादष्ट षट् चत्वारि योजनानि विष्कम्भेन विस्तारेण उपलक्षणत्वादायामेनापि समवृत्तस्यायामविष्कम्भयोस्तुल्यत्वादिति / तथा मूलमध्यान्तेषु पञ्चविंशतिरष्टादश द्वादश च योजनानि सातिरेकाणि परिक्षेपेण परिधिना / अयास्य पाठान्तरं वाचनाभेदस्तद्गतं परिमाणान्तरमाह। मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टयोजनानि तूपरि चत्वारि योजनानि विष्कम्भेन अत्रापि विष्कम्भायामातः साधिकत्रिगुणं मूलमध्यान्तपरिधिमानं सूत्रोक्तं सूबोधम्। अत्रापरः एकस्य वस्तुनो विष्कम्भादिपरिमाणे द्वैरूप्यासंभवेन प्रस्तुतग्रन्थस्यासातिशय स्थविरप्रणीतत्वेन कथं नान्यतरनिर्णयः यदेकस्यापि ऋषभकूटपर्वतस्य मूलादावष्टादियोजनविस्तृतत्वादि पुनस्तत्रैवास्य द्वादशादियोजनविसृतत्वादीति सत्यं जिनभट्टारकाणा सर्वेषां क्षायिकज्ञानवतामेकमेव मतं मूलतः पश्वात्तु कालान्तरेण विस्मृत्यादिनाऽयं वाचनाभेदः / / यदुक्तं श्रीमलयगिरिसूरिभिज्योंतिष्करण्डवृत्तौ" इह स्कन्दिलाचार्यप्रवृत्तौ दुःषमानुभावतो दुर्भिक्षप्रवृत्या साधूनां पठनगुणादिकं सर्वमप्यनेशत्। ततो दुर्भिक्षाति-क्रमे सुभिक्षप्रवृत्तौ द्वयोः सङ्घमेलापकोऽभवत् तद्यथा एको वल्लभ्यामेको मथुरायां तत्र च सूत्रार्थसंघटने परस्परं वाचनाभेदो जातः विस्मृतयोहि सूत्रार्थयोः स्मृत्वा स्मृत्वा संघटने भवत्यवश्यं वाचनाभेद इत्यादि ततोऽत्रापि दुष्करोऽन्यतरनिर्णयः द्वयोः पक्षयोरुपस्थितयोरनतिशायिज्ञानिभिरनभिनिविष्टमतिभिः प्रवचनाशातनाभीरुभिः पुण्यपुरुषैरिति न काचिदनुपपत्तिः / किं च सैद्धान्तिकशिरोमणिपूज्यश्रीजिनभद्रगणिक्षमाश्रमणप्रणीतक्षेत्रसमाससूत्रे उत्तरमतमेवं दर्शितं यथा" सव्वे वि उसहकूडा, उस्विट्ठा अट्ठ जोअणे हुंति / वारस अट्ठ य चउरो, मूले मज्झुवरि विच्छिण्णा॥१॥ मूले विछिपणे इत्यादिशेषवर्णकः प्राग्वत् / अथास्य पद्मवरवेदिकाद्याह / (से णं एगाए इत्यादि) स ऋषभकूटादिरेकया पावरवेदिकया तथैवेति। यथा सिद्धायतनकूटवर्णकः प्रागुक्तस्तथाऽत्रापि वक्तव्य इत्यर्थः कियत्पर्यन्त इत्याह / यावद्भगवत ऋषभाख्यदेवस्थानं स चाय" एगेण य वणसंडेणं सबओ समंता संप