________________ उसम 1176 - अभिधानराजेन्द्रः - भाग 2 . उसभ तित्थगरचिइगाए जाव अणगारचिइगाए अ अगणिकायं वि उव्वंति॥ तएणमित्यादि स्पष्टम् क्षीरोदकसंहरणानन्तरं स शक्रः किंकरोतीति दर्शयति (तएणमित्यादि) ततः शक्र स्तीर्थकरशरीरकं क्षीरोदकेन स्नपयति स्नपयित्वा गोशीर्षवरचन्दनेनानुलिम्पति अनुलिप्य हंसलक्षणो हंसविशदत्वात् शाटको वस्त्रमात्रं स च पृथुलः पट्ट इत्यभिधीयते / तं हंसनामकंपटशाटकं निवासयति परिधापयतीत्यर्थः / परिधाप्य च सर्वालङ्कारविभूषितं करोति (तएणमित्यादि) ततस्ते भवनपत्यादयो देवा गणधराणामनगाराणं च शरीराणि तथैव चक्रुः अहतान्यखण्डितानि दिव्यानि वर्याणि देवदूष्ययुगलानि निवासयन्ति शेषं व्यक्तम् (तएणमित्यादि) ततः शक्रो भवनपत्यादीनेवमवादीत् क्षिप्रमेय भो देवानुप्रिया ! ईहामृगादिभक्तिचित्रास्तिस्रःशिविका विकुर्वत विकुर्व इति सौत्रो धातुस्तस्माद्रूपसिद्धिः शेषं स्पष्टम्। (तएणमित्यादि) ततः शक्रो भगवच्छरीरं शिविकायामारोहयति महा च चितिकास्थाने नीत्वा चितिकायां स्थापयति शेषं स्पष्टम् (तएणमित्यादि) स्पष्टम् (तएणमित्यादि) ततः स शक्रोऽग्निकुमारान् शब्दोपयति आमन्त्रयति शब्दापयित्वा एवमवादीत् भो अग्निकुमारा ! देवास्तीर्थकरचितिकायां गणधरचितिकायामनगारचितिकायां चापिकायं विकुर्वत विकुर्वित्वा एतामाज्ञप्तिकामाज्ञां प्रत्यर्पयत। शेष व्यक्तम् (त एणं अग्गिकुमारा देवा इत्यादि) व्याख्यातप्रायमेव (त एणं से सक्के इत्यादि) एतत् सूत्रद्वयमपि व्यक्तम् उज्ज्वालयत दीप-यत तीर्थकरशरीरकं यावदनगारशरीरकाणि च ध्यामयत स्ववर्णत्याजनेन वर्णान्तरमापादयत अग्निसंस्कृतानि कुरुतेति। (तएण-मित्यादि) ततः स शक्रो भवनपत्यादिदेवानेवमवादीत् भोदेवानुप्रियाः ! तीर्थकरचितिकायां यावदनगारचितिकायां च अगुरुं तुरुक्कं सिङ्गकंघृतं मधु च एतानिद्रव्याणि कुम्भाग्रशोऽनेककुम्भपरिमाणानि भाराग्रशोऽनेकविंशतितुलापरिमाणानि। अथवा पुरुषोत्क्षेप-णीयो भारः सोऽग्रं परिमाणं येषां ते भाराग्रास्ते बहुशो भाराग्रशः संहरतेति प्राग्वत् / अथ मांसादिषुध्यामितेषु अस्थिष्ववशिष्टेषु शक्रः किं चक्रे इत्याह "तएणमित्यादि" स्पष्टं नवरं क्षीरोदकेन क्षीरसमुद्रानीतजलेन निर्वापयत विध्मापयतेत्यर्थः / अथास्थिवक्तव्यतामाह" तएण मित्यदि "ततश्चितिकानिर्वापणादनुभगवतस्तीर्थकरस्यो परितनंदक्षिणं सक्थि दाढामित्यर्थः / शक्रो गृह्णाति ऊर्द्ध लोकवासित्वात् दक्षिणश्रेणिपतित्वाच्च / बलिःदाक्षिणात्यासुरेभ्यः सकाशाद् वी इति विशिष्टं रोचनं दीपनं दीप्तिरिति यावत् येषामस्तीति वैरोचनाः स्वार्थेऽण उदीच्याः सुराः दाक्षिणात्येभ्यः उत्तराणामधिकपुण्यप्रकृतिकत्वात् तेषामिन्द्र एवं वैरोचनराजोऽपिअधस्तनंवाम सक्थिगृह्णाति अर्धालोकवासित्वादुत्तरश्रेण्यधिपत्वाच अवशेषा भवनपतयो वत्करणात् व्यन्तरा ज्योतिष्काश्च ग्राह्या वैमानिका देवा यथाऽर्ह यथा महर्द्धिकम् / अवशेषाणि अङ्गानि भुजाधस्थीनि उपाङ्गानि अङ्गसमीपवर्तीनि अडल्याद्यस्थीनिगृह्णातीति योगः / अयं भावः सनत्कुमाराद्यष्टाविंशतिरिन्द्रा अवशिष्टानष्टाविंशतिदन्तान् अन्येऽवशिष्टा इन्द्रा अङ्गोपाङ्गास्थीनीति। नव देवानां तद्ग्रहणे क आशय इत्याह / के चिञ्जिनभक्तया जिने निर्वृते जिनसक्थि जिनवदाराध्यमिति के चिजीतमिति पुरातनै रिदमाचीर्णमित्यस्माभिरपीदं कर्त्तव्यमिति केऽपि धर्मः पुण्यमिति कृत्वा / अत्र | ग्रन्थान्तरप्रसिद्धोऽयमपि हेतुः"पूअंति अपइदिअहं, अह कोइ पराभवं | जइ करेज्जा / तो परकालिअता उ, सलिलेण करेंति निअ-वखं " / / १॥सौधर्मेन्द्रेशानेन्द्रयोः परस्परंसवैरयोस्तच्छटादानेन वैरोपशमोऽपि इत्यादिको ज्ञेयस्तद्यया व्याख्यातो विशेषार्थप्रतिपत्तिरतो विद्याधरनराश्चिताभस्मशेषामिव गृह्णन्ति सर्वोपद्रवविद्रावणमिति कृत्वा आस्तां त्रिजगदाराध्यानां तीर्थकृतां योगभृच्चक्रवर्त्तिनामपि देवाः सक्थिग्रहणं कुर्वन्तीति / अथ तत्र विद्याधरादिभिरहं पूर्विकया भस्मनि गृहीते अखातायामेव गर्तायां जातायां मा भृत्तत्रपामरजनकृताशातनाप्रसङ्गः सातत्येन तीर्थप्रवृत्तिश्च भूयादिति स्तूपविधिमाह (तएणमित्यादि) सर्वं स्पष्टं नवरं सर्वात्मना रत्नमयानन्तर्बहिरपि रत्नखचितान् (महत्ति) महतोऽतिविस्तीर्णान् आलप्रत्ययः स्वार्थिकः प्राकृतप्रभवः त्रीन् चैत्यस्तूपान् चैत्याश्चित्तालादकाः स्तूपाश्चैत्यस्तूपास्तान् कुरुत / चितात्रयक्षितिष्वित्यर्थः आज्ञाकरणसूत्रे ततस्ते बहवो भवनपत्यादयो देवा स्तथैव कुर्वन्ति / ननु यथाज्ञाकरणसूत्रे यावत् करणेन सूत्रकृतो लाघवसूचा तथा पूर्वसूत्रेऽपिकथनलाघवचिन्ता कृता उच्यते विचित्रत्वात् सूत्रप्रवृत्तेरिति (तएणमित्यादि)ततस्तेबहवो भवनपत्यादयो देवा-स्तेषु स्तूपेषु यथोचितं तीर्थकरस्य परिनिर्वाणमहिमां कुर्वन्ति कृत्वा च यत्रैवाकाशखण्डे नन्दीश्वरवरो द्वीपस्तत्रैवोपागच्छन्ति तत स शक्रः पौरस्त्याञ्जनकपर्वते अष्टाहिकामष्टानामह्नां दिवसानां समाहारोऽष्टाहं तदस्ति यस्यां महिमायां सा अष्टाहिका तां महामहिमां करोति / ततः शक्रस्य चत्वारो लोकपालाः सोमयमवरुणवैश्रमणनामानस्तत्पार्श्ववर्तिषु चतुर्ष दधिमुखकपर्वतेषु अष्टाहिकां महामहिमां कुर्वन्ति त चात्र नन्दीश्वरवरादिशब्दाना कोऽन्वर्थ इत्युच्यते नन्द्यापळतपुष्करिणीप्रमुखपदार्थसमुद्भूता समृद्ध्या ईश्वरः स्फीतिमान्नन्दीश्वरस्य एवामनुष्यद्वीपापेक्षया बहुतरसिद्धायतनादिसमुद्भावेनवरो नन्दीश्वरवरः / तथा अञ्जनरत्नमयत्वादञ्जनास्ततः स्वार्थे कप्रत्ययः / यदा कृष्णवर्णत्वेनाञ्जनतुल्या इत्यञ्जनकाः उपमाने कप्रत्ययः / तथा दधिवदुज्ज्वलवर्ण मुखं शिखरं रजतमयत्वाद् येषां ते तथा बहुव्रीहौ कप्रत्ययः / अयेशानेन्द्रस्य नन्दीश्वरावतारवक्तव्यमाह (ईसाणेत्ति) ईशानो देवेन्द्र उत्तराहे अञ्जनके अष्टाहिकां तस्य लोकपाला उत्तराहाञ्जनकस्योपरिवारकेषु चतुषु दधिमुखकेषु अष्टाहिकां चमरश्व दाक्षिणात्याञ्जनके तस्य लोकपाला दधिमुखकपर्वतेषु बलीन्द्रः पाश्चात्याञ्जनके तस्य लोकपाला दधिमुखकेषु ततस्ते बहवो भवनपत्यादयो देवा अष्टाहिकाः महामहिमामहोत्सवभूताः कुर्वन्तीति। बहुवचनं चात्राष्टाहिकानां सौधर्मेन्द्रादिभिः पृथक् पृथक् क्रियमाणत्वात् (करित्ता इत्यादि) अथाष्टाहिका महामहिमाः कृत्वा यत्रैव लोकदेशे स्वानि स्वानि स्वसंबन्धीनि विमानानि यत्रैव स्वानि स्वानि भवनानि वासप्रासादाःयत्रैव स्वाः स्वाः सभाः सुधर्माः यत्रैव स्वकाः स्वकाः स्वस्वसंबन्धिनो माणवकनामानश्चैत्यस्तभाश्चैत्यशब्दार्थः प्राग्वत् तत्रैवोपागच्छन्ति उपागत्य च वज्रमयेषु गोलसमुद्गकेषु भाजनविशेषेषु जिनसक्थीनिप्रक्षिपन्तीति / सक्थिपदमुपलक्षणपरं तेन दशनाद्यपि यथार्ह प्रक्षिपन्तीति / अथ ज्ञाताधर्मकथाङ्गोक्तमल्लिनाथनिवेश्यतन्मध्यवर्तिजिनसक्थीन्यपूजन् वृषभजिनसक्थि च तत्र प्राक्षिपन्निति ज्ञेयं प्रक्षिप्य च अग्र्यैः प्रत्यग्रैवरैर्माल्यैश्च गन्धैश्वार्चयन्ति अर्चयित्वा च विपुलान् भोगोचितान् भोगान् भुजाना विहरन्त्यासत इति / अत्राह परः ननु चारित्रादिगुणविकलस्य भगवच्छरीरस्य पूज