________________ उसभ 1165- अभिधानराजेन्द्रः - भाग 2 उसभ समान्यांशग्रहणाद्दर्शनेन विशेषांशग्रहणाभावाद्वयोरपि सर्वार्थविषयत्वं विरुध्यति उच्यते ज्ञानक्षणे हि केवलिनांज्ञाने यावद्विशेषान् गृह्णति सति सामान्य प्रतिभातमेवाशेषराशिरूपत्वात्सामान्यस्यादर्शनक्षणे चदर्शने सामान्यं गृह्णति सतियावद् विशेषा: प्रतिभाता एव विशेषानालिङ्गितस्य सामान्यस्याभावात् अत एव निर्विशेषं विशेषारणामग्रहो दर्शनमित्युक्तमनन्तरोक्तग्रन्थे एकार्थः / ज्ञानप्रधानभावेन विशेषा गौणभावेन सामान्या दर्शनं प्रधानभावेन सामान्यं गौणभावेन इति विशेषः / समुत्पन्नसम्यकक्षायिकत्वेनावरणदेश स्याप्यभावात् / उत्पन्नकेवलस्य यद्भगवत: स्वरूपं तत् प्रकट्यति (जिणे जाए इत्यादि) जिनो रागादिजेता / केवलं श्रुलज्ञानाद्यसहायकं ज्ञानमस्थास्तीति केवली अत एव सर्वतो विशेषांशपुरस्कारेण ज्ञाता सर्वज्ञाता सर्वदर्शी सामान्यांशपुरस्कारेण / नन्वर्हतां केवलज्ञानकेवलदर्शनावरणयोः क्षीणमोहान्तसमय एव क्षीणत्वेन युगपदुत्तिकत्वे उपयोगस्वभावात् क्रमप्रवृत्तौ च सिद्धायां सव्वन्नू सव्वदरिसि इति सूत्रं यथा ज्ञानप्राथम्यसूचकमुपन्यस्तम् तथा "सव्वदरीसी सव्वन्नू इत्येवं दर्शनप्राथम्यसूचकं किं न तुल्यन्यायत्वात् नैवं "सव्वाउ लद्धीओ, सागरोवउत्तस्स उववजंति णो अणागारोवउत्तस्स" इत्यागमादुत्पत्तिक्रमेण सर्वदा जिनानां प्रथमे समये ज्ञानं ततो द्वितीये दर्शनं भवतीति ज्ञापनार्थत्वा दित्थमुपन्यासस्येति छद्मस्थानांप्रथमे समये दर्शनं द्वितीयो ज्ञानमिति प्रसङ्गादोध्यम् उक्तविशेषशाद्वयमेव विशिनष्टि सनैरयिकतिर्यग्नरामरस्य लोकस्य पञ्चास्तिकायात्मकक्षेत्रखण्डस्य उपलक्षणादलोकस्यापि नभ: प्रदेशमात्रात्मक्षेत्रविशेषस्य पर्यायन् क्रमभाविस्वरूपविशेषान जानाति केवलज्ञानेन पश्यति केवलदर्शनेन पर्यायानित्युक्ते द्वयमपि ग्राह्यम् / न हि पर्यायद्रव्यवियुता भवेयुर्द्रव्यं वा पर्यायवियुत तेनाधेयमाधारमाक्षिपतीति अन्यथा आधेयत्वस्यैवानुपपत्तेः यथाकाशस्य न हि आकाश: क्वाप्यवतिष्ठते तस्याधारमात्ररूपस्यैव सिद्धान्ते भणनात् / अथवा सामान्य उक्तपर्यायाणां ज्ञान व्यक्यानिरूपयन्नाह / तद्यथा आगतिं यत: स्थानादागच्छन्ति विवक्षित स्थानंजीवाः गतिंयत्र मृत्वोत्पद्यन्ते स्थिति कायस्थितिभवस्थितिरूपां च्यवनं देवलोकाद्देवानाम् मनुष्यतिर्यक्ष्ववतरणम् / उपपातं देवनारकजन्मस्थानं भुक्तमशनादि कृति चौर्यादि प्रतिसेवितं मैथुनादि अवि: कर्म प्रकटकार्य कर्म प्रच्छन्नकृतं तं तं (कालंति) प्राकृतत्वात् सप्तम्यर्थे द्वितीया तस्मिन् 2 काले वीप्सायां द्विवचनं मनोवच: कायान् योगान करणत्रयव्यापारान् एवमादीन् जीवानामपि सर्वभावान् जीवधर्मानित्यर्थ: / अजी-वानामपि सर्वभावान् मोक्षमार्गस्य रत्नवयस्य विशुद्धतरकान् प्रकर्षकोटीप्रप्तान् कर्मक्षयहतून् भावान् ज्ञानाचारादीन् जानन् पश्यन् विहरतीति गम्यम् / कथं च जानन् पश्यन् विचरतीत्याह एषोऽनन्तरवक्ष्यमाणो धर्मः खलुरवधारणे मोक्षमार्गः सिद्धिसाधकत्वेन समदेशकस्यान्येषां च श्रोतृणां हितं कल्याणं पश्यभोजनवदित्यर्थः / सुखमनुकूलवेद्यं पिपासो: शीतजलजलपानवत् नि: श्रेयसं मोक्षस्तत्कर: उक्तानां हितादीनां कारक इति / सर्वदुःखविमोक्षण इति व्यक्त परमसुखमात्यन्तिकसुखं समापयतीति व्युत्पत्तिवशात्परमसुखसमानत: "समीपे:समान": इति प्राकृतसूत्रेण समानादेशऽनटि प्रत्यये रूपसिद्धिः / नि: श्रेयसेत्यत्र पकारलोप: प्राकृतत्वात् भविष्यतीति / / / जं०२ वक्ष० आव०॥ आ० म०प्र०। (21) अथ उत्पन्नकेवलज्ञानो भनवान् यथा धर्म प्रादुश्चकार तथाह। ततंणं से भगवं समणाणं णिग्गंथाणं णिग्गंधीणयपंचमहव्वयाई छच जीवणिकाए धम्म देसमाणे विहरति तं जहा पुढविकाए भावणागमेणं पंचमहव्वयाइं सभावणागाई भाणिअव्वाई।। तत: स भगवान् श्रमणानां निर्गन्थानां निर्ग्रन्थीनां च पञ्चमहाव्रतानि सर्वप्राणातिपातविरमणादीनि सभावनाकानि ईर्यासमित्यादिस्वभावेनोपेतानि षट् च जीवनिकायान पृथिव्यादित्र सान्तान् इत्येवंरूपं धर्ममुपदिशन् विरहतीति संबन्धः। तच्च धर्मेप्रक्रन्तव्ये षड्जीवनिकायकथनमुपक्रान्तं तज्जीवपरिज्ञानमन्तरेण व्रत पालनासंभव इति ज्ञापनार्थम् / नन्वनियम: प्रथमव्रते संभवेत् मृषावादविरमणादीनां तु भाषाविभागदिज्ञानाधीनत्वात् न संभवेदित्युच्यते शेषव्रतानामपि प्राणातिपातविरमणव्रतस्य रक्षकत्वेन नियुक्तत्वात् महावृक्षस्य वृक्षवत् तथा हि मृषाभाषामभाषमाणो ह्यभ्याख्यानादि विरतो न कुलवध्यादीन् अदतमनाददानोधनस्वामिनं सचित्तजलफलादिकं च मैथुनविरतो नवल क्षपञ्चेन्द्रियादीन् परिग्रहविरत: शुक्तिकस्तूरीमृगादींश्च नातिपातयेदिति। अथैतदेव किंचिद्वयक्त्या विवृणोति तद्यथा पृथिवीकायिकान् जीवान् उपदिशन् वहरतीति संबन्ध: / लाघवार्थकत्वेन सूत्रप्रवृत्तेर्देशग्रहणात्पूर्णोऽप्यालापको वाच्यः स चाय "आउक्काइए ते उकाइए वाउकाइए वाणस्सइकाइए तसकाइए त्ति" व्यक्तम् तथा पञ्चमहाव्रतानि सभावनाकानि भावनागमेन श्रीआचाराङ्ग द्वितीय श्रुतस्कन्धगतभावनाख्याध्ययनगतपाठेन भणितव्यानि अत्रच सूत्रे यदुद्देश प्रथम "पंचमहव्ययाई" इत्याधुक्तं निर्देश तु व्यत्ययेन "तं जहा पुढविकाइए'' इत्यादि तत्कथमिति नाशङ्कनीयम्। यत: पश्चादुद्दिष्टानामपि षड्जीवनिकायानां प्रस्तरतो बाङ्गे स्वल्पवक्तव्यतया प्रथम प्ररूपणाया युक्त्युपपन्नत्वात् सूचीकटाहन्यायोऽत्रानुसरणीयो विचित्रा सूत्राणांकृतिराचार्यस्येति न्यायेनवा स्वत एवेति ज्ञेयम्। ननुगृहिधर्मसंविनपाक्षिकधर्मावपि भगवता देशनीयौ मोक्षाङ्गत्वात् यदुक्तम् / "सावज्जजोगपरिवज्जणाउ सव्वत्तमो जईधम्मो / वीओ सावगधरमो तइओ संविग्गपवखपहो। 1 // " इति तत्कथमत्र तौ नोक्तौ उच्यते सर्वसावधवर्जकत्वेन देशनायां यतिधर्मस्य प्रथमं देशनीयत्वादत्यासन्नमोक्षपथत्वात् श्रमणसंघस्य प्रथम व्यवस्थापनीयत्वश्च प्राधान्यख्यापनार्थ प्रथममुपन्यासस्ततो व्याख्यातो विशेषार्थप्रतिपत्तिरिति न्यायादेतत्पुच्छभूतौ तावपि धर्मों भगवता प्ररूपिताविति ज्ञेयम् / भगवत्प्ररूपणामन्तरेणाऽन्ये पां तत्तद्ग्रन्थेषु तयोः प्ररूपणानुपपत्तेरित्यलं प्रसङ्गे नेति। जं०२ वक्षा उसभेणं अरहा कोसलिएणं इमीसे उस्सप्पिणीए नवहिं सागरोवमकोडाकोडीहिं वीइक्कताहिं तित्थे पव्वत्तिए / स्था० १०ठा०॥ उज्जाणपुरिमताले, पुरीविणीयाइ तत्थ नाणवरं / चवकुप्पयायभरहे, निवेयणं चेव दोण्हं पि॥ तथा तस्मिन्नेवाहनि भरतनृपतेरायुधशालायां चक्रात्पादश्व बभूव (भरहे निवेयणं चेव दोण्हपित्ति) भरताय निवेदनं च द्वयोरपि ज्ञानरत्नचरत्नयोः / तनियुक्तपुरुषैः कृतमित्यध्याहार इति