________________ उसभ 1161 - अभिधानराजेन्द्रः - भाग 2 उसभ स्वद्यात यूयं स्वगृहाणि। यदि वा भगवन्तमेवमुपसर्पत स चानुकम्पया अभिलपितफलदो भविष्यति तावपि च पित्रो: प्राणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ भगवत्समीपमागत्य च प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रेषूदकमानीय सर्वतो जलप्रवर्षण कृत्वा आजातोच्छायप्रमाणसुगन्धि कुसुमप्रकरं च कृत्वा अवनतोत्तमाङ्ग क्षितिनिहितजानुकरतलौ प्रतिदिवसं त्रिन्सध्यं राज्यसंविभागप्रदानेन भगवन्तं विज्ञाप्य पुनस्तदुभयपाधे खङ्गव्यग्रहस्तौ तस्थतः / तथा चाह। नमिविनमीणं जयणा, नागिंदो वेजज्दाणवेयड्ने। उत्तरदाहिणसेढी. सट्ठिपन्नासनगराई।। नमिविनम्योर्याचनानागेन्द्रोभगवद्वन्दनायागतस्तेन विद्यादान मनुष्ठितं वैताढये पर्वते उत्तरदक्षिणश्रेण्योर्यथाक्रमं पष्टिपञ्चाशन्नगराणि निवेशितानि / भावार्थ: कथानकादवसेयः। तचेदम्। एवं भयवं कयसा-माइओ जाव नागरायस्स। भयवं अदीणमनसो, संवच्छरमणसिओ विहरमाणो॥ कन्नाहिं निमंतिज्जाइ, वत्थाभरणासणेहिं च / / भगवानपि अदीनमना निष्प्रकम्पचित्त: संवत्सरं वर्ष न अशितोऽनशितो विहरन् भिक्षाप्रदानानभिज्ञेन लोके नाभ्यर्हितत्वात् कन्याभिर्निमन्त्र्यते वस्त्राणि पट्टदेवाङ्गादीनि आभरणानि कटककेयूरादीनि आसनानि सिंहासनानि तैश्च निमन्त्र्यते वर्तमाननिर्देशप्रयोजनं प्राग्वत्। (17) अथैवं विहरता भगवता कियत्कालेन भिक्षा लब्धेत्यत आह। संवच्छरेण भिक्खा, लद्धा उसमेण लोगनाहेण / सेसेहिं वीयदिवसे लद्धाओ पढममिक्खाओ। संवत्सरेण भिक्षा ऋषभेण लोकनाथेन प्रथमतीर्थकृता लब्धा शेषैरजितजिनादिभिर्द्वितीयदिवसे प्रथमभिक्षा लब्धा। संप्रति यद्यस्य पारणकमासीत्तदभिधित्सुराह॥ उसभस्स उपारणए, इक्खुरसो आसि लोगनाहस्स। सेसाणं परमनं, अमियरसरसोवम आसी॥ ऋषभस्य लोकनाथस्य पारणके इक्षुरस आसीत् शेषाणाम जितस्वाम्यादीनां परमान्नं पायसममृतरसेन रसस्योपमा यत्र तदमृतरसरसोपममासीत्। तीर्थकृतां प्रथमपारणके यद्त्त तदभिधित्सुराह। घुट्ठच अहो दाणं, दिव्याणि य आहयाणि तूराणि। देवाय संनिवइया, वसुहारा चेव बुट्ठाय। देवैराकाशस्थितैर्युष्ट यथा अहो दानमिति / अहो शब्दो विस्मये अहो दानमहोदानमस्यायमर्थः / एवं हि दीयते एवं दत्तं भवतीति। तथा दिव्यानि तूराणि त्रिदशैराहतानि देवाश्च तदैव सन्निपतिता वसुधारानिपातार्थमाकाशे जृम्भका देवाः समागतास्ततो वसुधारा वृष्टा द्रव्यवृष्टिरभूदित्यर्थः / एवं सामान्येन पारणककालभाव्युक्तमिदानीं यत्र यथा च यचादितीर्थकरस्य पारणकमासीत्तदभिधित्सुराह। गयपुरसेजंसिक्खु-रसदाण वसुहारपीढगुरुपूया। तक्खसिलायलगमणं, बाहुबलिनिवेयणं चेद अस्या भावार्थ: कथानकादवसेयस्तचेदम् (आ० म०प्र०) आकरस्सर्ववस्तूनां, देशोऽस्ति कुरुनामक। समुद्र इव रत्नानां, गुणानामिव सज्जनः / / 1 / / पुरं गजपुरं तत्र, क्षरगजमदोर्मिभिः / तदैव नर्मदा जज्ञे, नूनं या दृश्यतेऽधुना // 2 // तत्र बाहुबले: पुत्रः, सोम्यस्सोमप्रभो नृपः / चित्रं पद्माहितानन्दः, सूरस्तीव्रप्रतापवान् // 3 // श्रेयांसस्तनयस्तस्य, यौवराज्यपदास्पदम्। क्रीडत्यद्यापि विश्वश्री-क्रोडान्तर्यद्यश: शिशुः॥ 4 // स स्वप्ने मन्दरं शैलं, श्यामवर्ण निरक्षत। तदैवामृतकुम्भेना-भ्यषिञ्चत् शुशुभेऽधिकम्॥५॥ राज्ञा दृष्टो भट: स्वप्ने, युध्यमान: सहारिभिः / श्रेयांसकृतसाहाय्यो, भगवान् सांऽपि तद्बलम्॥ 6 // श्रेष्ठी सुबुद्धिरद्राक्षी-त्स्वप्ने सूर्यमरश्मिकम्। श्रेयांसोऽशौन्यधाद्रश्मी-स्ततस्स द्विगुणं वभौ।।७।। राजस्थानेऽय मिलिताः, सर्वे स्वप्रान्यवेदयन्। असंभात्या: परं स्वप्र-फलमायाति तन्मतौ॥ 8 // श्रेयांसस्य महालाभो, भावीत्युक्त्वा महीपतिः / आस्थानीत: समुत्तस्थौ, श्रेयांसोऽपि ययौ गृहम्।।६।। तत्र वातायनासीन:, प्रभुमायान्तमैक्षत। सोऽथ दध्यौ मयेदृक्ष, नेपथ्य क्वाप्यदृश्यत॥ 10 // पितामहस्य मे यादृक, जातिस्मृतिरथाभावत्। प्राग्भवश्रुतमज्ञासीद, दृष्ट सस्मार चाखिलम्॥ 11 // तत्रेक्षुरसकुम्भं को-ऽप्यानयत्प्राभृतेऽस्य च। तमेव कुम्भमादायो-पस्थित: स प्रभुं प्रति // 12 // प्रभुणाऽपि शुध्यतीति, पाणिपात्रं प्रसारितम्। रस: सर्वोऽपि निक्षिप्त:,प्रभुरच्छिद्रपाणिकः / / 13 // नछद्यते विन्दुरपि, शिखाब्धिरिव वर्द्धते। स्वामी युगानिमस्तेन, वर्षान्तपारणं व्यधात्॥ 14 // प्रादुर्भूतानि दिव्य नि, वसुधाराऽपतगृहे। चेलोप्क्षेप: कृतो देव-देवदुन्दुभयो हताः॥ 15 // पञ्चवर्णा पुष्पवृष्टि-वृष्टिर्गन्धोदकस्य च। अहो दानमहो दान-मुदघोष्यम्बरे सुरैः॥ 16 // तद्देवागमनं वीक्ष्य, श्रेयांसगृहमाययुः। लोका: सर्वेऽपि राजानोऽन्ये च ते च तपस्विनः / / 17 / / श्रेयांसोऽचीकथदथ, भिक्षेदृग् दीयते जना:!। सुगतिर्लभ्यतेऽमुत्र, दत्ते चैषां सुचेतसास्॥१८॥ सर्वेऽपितमथ प्रोचुतिमेतत्कथं त्वया। यथा भगवतो भिक्षा, दीयतेऽन्नजलादिका / / 16 / / श्रेयांस: स्माह विज्ञातं, जातिस्मरणतो मया। अष्टौ भवान् भगवता, सहाहं भ्रान्तवान् यतः // 20 // पृष्टस्तैः कथयामास, प्राग्वदेव भवाष्टकम् / आ० क०॥ (१८)ऋषभ्सवामिनः श्रेयांसेन भवाष्टककथनम्॥ अट्ठभवग्गहणाणि वसुदेवहिंडीए तहा विट्ठाणा सुत्तत्थं संखेवतो भण्णइ सेजंसो भणइ। इओ य छट्ठमवे उत्तरकुरुए अहं मिहुणा इस्थिया भयवं मिहुणपुरिसो आसिाततो वयं तम्मि देवलोकभूए दसविहकप्परुक्खप्पभावसंपज्जमाणभोगोवभोगा कइयाइ। उत्तरकुरुद्वतीरदेसे असोगपायवच्छायाए वेरुलियमणिसिलायले णवणीयसरिसफासे सुहनिसण्णा अत्थामो / देवो य तम्मि हरए मजिउं उप्पइतो गगणदेसेण / ततो तेण नियगप्पभाए पभासियातो दसदिसातो ततो सो मिहुणपुरिसोतं तारिसं पस्समाणो किं विचिंतेऊण मोहं उवगतो कहमवि लद्धसण्णो भणइ हा सयंपभे ! कत्थासिं देहि मे पडिवयणं