________________ उसम 1146 - अभिधानराजेन्द्रः - भाग 2 उसभ चक्रे च चक्रवर्तित्वा-भिषेकोऽस्याखिलेनूपैः। अपालयच्चिरं राज्य-मेकच्छत्रम्महीतले।।५।। अन्यदा समवासार्षी-द्वज्रसेनजिनेश्वरः। व्याख्यामधरितद्राक्षां, श्रुत्वा चक्रयादयोऽबुधन्॥६०।। पुत्रं निवेश्य राज्ये स्वे, वज्रनाभः ससारथिः। चतुर्भिर्धातृभिः सार्द्ध , प्रवव्राजान्तिके प्रभोः // 61 // प्राप्तकालं वज्रसेन-स्तीर्थकृन्निति ययौ। वज्रनाभो द्वादशाङ्गी, परे चैकादशाङ्गिनः॥६२॥ बाहुः साधुपञ्चशत्या, भक्तपानान्यपूरयत्। सुबाहुः सर्वसाधूना-मङ्गविश्रामणांव्यधात्॥६३| साधू पीठमहापीठौ, रहः स्वाध्यायकारिणौ। बाहुं सुबाहुमाचाया, लोकः सर्वश्च शंसति॥६४|| धन्यावेतौ महासत्वौ, वैयावृत्यं सुदुष्करम्। कुरुतः कुरुते कोऽन्यः, कष्टमाङ्गि कमीदृशम् // 65 / / इतरौ कुरुतोऽप्रीति-मावां स्वाध्यायिनावपि। न कोऽपिश्लाघते यद्वा, वल्लभकर्म चर्म च॥६६|| राजर्षिर्वज्रनाभोऽथ, विंशत्या स्थानकैस्तदा। तीर्थकरनामगोत्रं, कर्माबध्नान्महामनाः ॥६७||आ००|| २तीर्थकरत्वहेतुसंग्रहार्थं गाथाचतुष्टयमाह। साहु तिगि च्छऊणं, सामन्नं देवलोगरमणं च। पुंडरिगिणिए उचुआ, तओ सुआ वइरसेणस्स। पढमित्थ वइरनाहो, बाहुसुबाहू अ पढमहपीढो। तेसिं पिआ तित्थयरो, निक्खंता ते वि तत्थेव॥ पढमो चउदसपुव्वी, सेसा इकाररंग वीचउरो। विइओ वयावचं किइकम्म तईयओकासी।। भोगफलं बाहुबलं, पससणा जिट्ठइअरउचिअत्तं / पढमो तित्थयरतं, वीसहिं ठाणेहिं कासीअ॥ आसामक्षरगमनिका साधुं चिकित्सयित्वा श्रामण्यं देवलोके गमनञ्च पोण्डरीकिण्याञ्च च्युतः सुता वैरसेनस्य जाता इति वाक्यशेषः / प्रथमोऽत्र वइरनाभो बाहुसुबाहू च पीठमहापीठौ तेषां पिता तीर्थकरो निष्क्रान्तास्तेऽपि तत्रैव पितुःसकाश इत्यर्थः। प्रथमश्चतुर्दशपूर्वी शेषा एकादशाङ्गविदश्चत्वारः तेषां चतुर्णा बाहुप्रभृतीनांमध्ये द्वितीयो वैयावृत्त्यं कृतिकर्म तृतीयोऽकार्षीत् भोगफलं बाहुबलप्रशंसनाज्ज्येष्ठया इतरयोचितत्वं प्रथमस्तीर्थकरत्वं विंशतिभिः स्यानैरकार्षीत् / भावार्थस्तूक्त एव क्रियाध्याहारोऽपिस्वबुझ्या कार्य इह विस्तभयान्नोक्त इति गाथाचतुष्टयार्थः। आव०१अ० (तीर्थकज्जन्मनिबन्धनकारणानि तित्थयरशब्दे) एतैः स्थानैर्वज्रनाभ-स्तीर्थकृत्कर्मबद्धवान्। साधुभक्तादिदानेन, बाहुश्चक्रभृतः श्रियम्।।१।। बाह्वोर्बलं सुबाहुश्च, साधुविश्रामणाद्व्यधात्। इतरौ तु तेन माया- कर्मणा स्त्रीत्वमर्जतः // 2 // ततः पूर्णायुषः कालं, कृत्वा पञ्चापि साधवः। षष्ठश्च सुयशाःसर्वे ,सर्वार्थसिद्धिमैयरुः // 3 // जम्बूद्वीपाभिधे द्वीपे, भरतार्द्ध च दक्षिणे। गङ्गासिन्धुसरिन्मध्य-खण्डे कल्पद्रुमण्डिते॥४॥ इहावसर्पिणीकाले, सुषमादुःषमारके। कुलकृत्सप्तमो-नाभि-मरुदो वा प्रियो ऽभवत्।।५।। पूर्वलक्षेषु चतुरा-शीतौ शेषेषुसत्स्विह। स नवाशीतिपक्षेषू-तराषाढायुते विधौ / / 6 / / आषाढे मासि कृष्णेऽपि चतुर्थेऽह्नि सुनिर्मले। जीवो युगादिदेवस्य, च्युत्वा सर्वार्थसिद्धितः / / 7 / / देव्याः श्रीमरुदेवायाः, सरोवर इवोदरे। ज्ञानत्रयपवित्रात्माऽवततार मरालवत् / / 8 / / त्रैलोक्येऽपि तदैवासी-दङ्गिनां भवसङ्गिनाम्। उद्योतः कोऽप्यनिर्वाच्यः, सुखञ्च क्षणमद्भुतम्॥६॥ स्वप्नेष्वत्युत्तमाः स्वप्ना, वर्णराशौ स्वरा इव / निद्राणया तदा देव्या, दृश्यते स्म चतुर्दश॥१०॥ वृषभः १कुज्जरः २सिंहः३ पद्मवासाऽभिषेचनम् 4 / पुष्पदाम 5 शशी 6 सूर्यः७ पूर्णकुम्भः 8 सितध्वजः // 11 // पद्माकरः 10 पयोराशि 11 विमानं कल्पवासिनाम्। 12 रत्नोच्चयं 13 शिखी चेति 14 प्रविशन्तो मुखाम्बुजे।१२। तानाख्याति स्म सा नाभे-निद्राछेदे प्रमोदभात्। अत्युत्तम सुतप्रातिं, तस्याः सोऽपि न्यवेद-यत्॥१३॥ तदैवयुगपत्सर्वेऽप्यागत्य चलितासनाः। स्वप्नपाठकवद्देव्याः, शक्रा स्वप्नार्थमभ्यधुः / / 16 / / देवि त्वदङ्गजस्यैते, महास्वप्नाश्चतुर्दश। चतुर्दशयुजुमिते, लोके स्माहुरधीशताम्॥१५॥ चतुर्दशानांपूर्वाणा-मयमेव जगत्प्रभुः। उपदेक्ष्यति हेमान-मातृकां वीजसन्निभाम् // 16 // चतुर्दश पूर्वधरा, शिष्याश्चैतस्य भाविनः। तथा चतुर्दशचतु-ईशकानेष वक्ष्यति॥१७॥ एवं स्वप्नार्थमावेद्य, सर्वेऽपि त्रिदशाधिपाः। स्थानं निजनिजं जम्मु--र्विसृष्टा इव सेवकाः / / 18 / / तमिन्द्राख्यातमाकण्ये, स्वप्नार्थ देव्यमोदत। नाभिरप्यभजत्प्रीति, कस्येष्टाख्या मुदे न वा ॥१६|आ०क०। अमुमेवार्थमुपसहरन्नाह। उववाओ सबढे, सय्वेसिं पढमओ चुओ उसभो। रिक्खेणासाढाहिं, असाढ हुले चउत्थीए। गमनिका / उपपातः सर्वार्थ सर्वेषां संजातस्ततश्चायुष्कपरिक्षये सति प्रथमश्च्युतो ऋषभ ऋषभेण नक्षत्रेण आषाढाभिः आषाढबहुले चतुर्थ्यामिति गाथार्थः / इदानीं तद्वक्तव्यताभिधित्सयैनां द्वारगाथामाह नियुक्तिकारः। जम्मणे नामबुड्डीअ, जाइस्सरणे इ अ। वीवाह अ अवचे अभिसेए रजसंगहे। गमनिका (जम्मण इति) जन्मविषयो विधिर्वक्तव्यः वक्ष्यति च "चित्तबहुलट्ठमीए" इत्यादि इत्यादि (नाम इति) नामविषयो विधिर्वक्तव्यः / वक्ष्यति च "देसूणगं च इत्यादि" (बुड्डीयत्ति) वृद्धिश्व भगवतो वाच्या वक्ष्यति च "अह सो वड्डइ भगवं इत्यादि" (जाइसरणेइयत्ति) जातिस्मरणे च विधिर्वक्तव्यः / वक्ष्यति च "जाइस्सरोयमित्यादि" (वीवाहेयत्ति) विवाहे च विधिर्वक्तव्यः / वक्ष्यति च 'भोगसमुत्थमित्यादि' (अवच्चेत्ति) अपत्येषु क्रमो वाच्यः वक्ष्यति च "तोभरहवंभिसुन्दरी इत्यादि" (अभिसे गित्ति) राज्याभिषे के विधिर्वाच्यः / वक्ष्यति च "आभोएउं सक्को उवागओ इत्यादि' (रज्जसंगहेत्ति) राज्यसंगृहे विधिर्वाच्यः वक्ष्यति च "आसाहत्थीगावो इत्यादि" अयं समुदायार्थः / अवयवार्थन्तुप्रतिद्वारं यथावसरं वक्ष्यामः /