________________ उवासगपडिमा 1135 - अभिधानराजेन्द्रः - भाग 2 उवासगपडिमा शिराः (सिंहलित्ति) शिखा तां वाशब्दो विकल्पार्थः धारयति विभर्ति कश्चित्कोऽपीति गाथार्थः। जंणिहियमत्थजायं, पुट्ठो णियएहि णवर सा तत्था जइ जाणइ तो साहे, अह ण वि तो वेइण वि जाणे // 33 // यत्पिहितं यन्निक्षिप्तं भूम्यादावर्थजातं द्रव्यप्रकारः तदर्शीति शेषः / पृष्टः प्रश्नितो निजकैः स्वकीयैः पुत्रादिभिनवरं केवलंस श्रावक इति शेषस्तत्र दशमप्रतिमायां प्रश्ने वा यदि जानाति स्मरति (तो त्ति) तदा साधयति कथयत्यकथने वृत्तिच्छेदप्राप्तेः / अथ यदि न नैव जानातीति वर्तते (तो त्ति) तदा ब्रूते वक्ति किं तदित्याह नापि नैव जाने स्मरामीति नान्यत् किमपि तस्य गृहकृत्यं कर्तु कल्पत इति भाव इति गाथार्थः। जतिपञ्जुवासणपरो, सुहमपयत्येस णिचतेल्लिच्छो। पुटवोदियगुणजुत्तो, दस मासा कालमासेण // 34 // यतिपर्युपासनापरः साधुसेवापरायणः सूक्ष्मपदार्थेषु निपुणमति-- समधिगम्य भावेषु जीवादिषु तेष्वेव लिप्सा लब्धुमिच्छावस्य स तल्लिप्सः स नित्यं नितान्तं तल्लिप्सो नित्यतल्लिप्सः / तथा पूर्वोदितगुणयुक्तो दर्शनादिप्रतिमानवकान्वितः कियन्तं कालं तावदित्याह / दश मासान् यावत् कालमानेन कालप्रमाणापेक्षयेत्यर्थः। कालमासेनेति क्वचित् दृश्यते तत्र प्राकृतभाषापेक्षया मासशब्दस्य कालधान्यसुवर्णादिषु वृत्तिदर्शनाच्छषव्यवच्छेदार्थमुच्यते कालमासेनेति गाथार्थः / उक्ता दशमी / पंचा० 10 विव० उपा०। आ० चू०॥ अथैकादशी प्रतिमामाह। अहावरा एकारसमा उवासपडिमा सव्वधम्म जाव उहिट्ठभत्ते से परिणति भवति से णं खुरमुंडए वा लुत्तसिरए वा गहितायारभंडगनेवत्था जे इमे समणाणं निग्गंवाण धम्मे तं सम्म कारणं फासेमाणे पालेमाणे पुरतो जुगमायाए पहमाणे दळूण तसे पाणे उद्दलु पायं रीऐजो वि तिरिच्छं वा पातं कडु रीएला सति परक्कमे संजतामेव परक्कमे जाणो उजुयं गच्छेज्जा केवलं से णायाए पेम्मबंधणे अवोच्छिन्ने भवति एवं से कप्पति नायवीथिं ति तए तत्थ से पुवागमणेणं पच्छाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे कप्पति से चाउलोदणे एडिगाहिए णो से कप्पति मिलिंगसूवे पडिगाहित्तए तत्थ णं से पुवागमणेणं पुवाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पति से मिलिंगसूवे पडिगाहित्तए नो से कप्पति चाउलोदणे कडि तत्थ से पुष्वगमणे दो वि पुवाउत्ताई कप्पति से दो वि पडिगाहित्तए तत्थ से पच्छागमणेणं दो वि पच्छाउत्ताई णो से कप्पति दो वि पडिगाहित्तए जे से तत्थ पुवागमणेणं पुथ्वउत्ते से से कप्पति पडिगाहित्तएजे से तत्थपुवागमणेणं पच्छाउत्तेसे से णो कप्पति पडि गाहित्तए तस्स णं गंधातिकुलं पिंडवातपडियाए अणुपविट्ठस्स कप्पति एवं व दित्तए समणोवासगस्स पडिमापडिवनस्स भिक्खं दलयह तं वैतारूवेणं विहारेणं विहरमाणं केइ पासेत्ता वदेजा केइ आउसो तुम वत्तव्वेसिया समणोवासए पडिवजित्तए अहमंसीति वत्तट्वं सिया से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एमाहं वा दुयाहं वा तियाहं वा उक्कोसेणं एकारसमासे विहरेजा एक्कारस उवासगपडिमा।। अहावरेत्यादि व्यक्त लुञ्चितशिरस्को लुञ्चितशिरोजो वा शिरसि जाताः शिरोजाः (गहियाइत्ति) गृहीतानि आचारपालनार्थं भाण्डकानि उपकरणानि पात्ररजोहरणमुखवस्त्रिकादीनि नेपथ्यं साधुवेषस्तथाप्रकारवस्त्रादिप्रावरणं ततो द्वन्द्वः तथा (जारिसेत्ति) यादृशः श्रमणानां निर्ग्रन्थानां बाह्याभ्यन्तरग्रन्थरहितानां धर्मः क्षान्त्यादिकः प्रज्ञप्तः तादृशमिति अध्याहार्य तं धर्म सम्यग यथा भवति कायेन न तु मनोरथमात्रेण स्पर्शयन् पालयन् यथाचारं (पुरउत्ति) पुरतोऽग्रतो युग्मात्रया शरीरप्रमाणया शकटौ द्विसंस्थितया दृष्टयेति वाक्यशेषः प्रेक्षमाणः प्रकर्षण पश्यन् भूभागं तत्र (दहणत्ति) दृष्ट्वा त्रस्यन्तीति त्रसा द्वीन्द्रियादयस्तान् / प्राणान् धरन्तीति प्राणा जीवाः पतङ्गादयः तान् (उदति) पादमुद्धत्यान्नतलेन पादपातप्रदेशं वातिक्रम्य गच्छेतं एवं संहत्य शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्य उत्क्षिप्तवान् भागपार्णिकया गच्छेत् तथा तिरश्चीनं वा पादं कृत्वा गच्छेत्। अयं चान्यमार्गाभावे विधिः / सति त्वन्यस्मिन गमनमार्गतेनैव पराक्रमेत गच्छेत् ऋजुनेत्येवं सर्व साध्वनुगमेन सर्व तेन त्यक्तं केवलं (णायाए त्ति) ज्ञातीयं स्वजातिविषयं मातृपितृभ्रातृप्रभृतिविषयं प्रेमबन्धनमव्यच्छिन्नमत्रोटितं भवति एवमित्यादि एवमनन्तरवक्ष्यमाणप्रकारेण (से) तस्य प्रतिमधरस्य कल्पते युज्यते आहारग्रहकाले (नायवीथित्ति) ज्ञातयः स्वगोत्रजास्तेषां वीथी गृहपङ्क्तिस्तत्र प्राप्तः "एत्थण मित्यत्रान्तरे तस्य (पुष्वागमणेणंति) प्राकृतत्वात्पदव्यत्ययः आगमनात्पूर्वकालमथवा पूर्व प्रतिमाधर आगतः पश्चादायका राखं प्रवृत्ताः इति पूर्वागमनेन हेतुना पूर्वायुक्तस्तन्दुलोदनः कल्पते उपलक्षणं चैतत् सर्वोदनानाम् / (पच्छाउत्ते भिलंगसूवे त्ति) पश्चादायुक्तो भिलिङ्गसुपोन कल्पतेतत्र पूर्वायुक्तः प्रतिमाधरागमने पूर्वमेव स्वार्थं गृहस्थैः पक्तुमारब्धः प्रतिमाधरे वा गते यः पक्तुमारब्धः स पश्चादायुक्तः स च न कल्पते उद्गमादिदोषसंभवात् पूर्वायुक्तस्तु कल्पते तदभावात्। भिलिङ्गसूपो मसूरादिदालिः शेषं कण्ठ्यम्। तस्स णमिति'' वाक्यालंकारे गृहपतिकुलं पिण्डपातप्रतिज्ञया अनुप्रविष्टस्य न कल्पते युज्यते एवं वक्तुं किंतदित्याह 'समणोवासगस्सेत्यादि' श्रमणोपासकस्य प्रतिमाप्रतिपन्नस्य भिक्षा ददध्वं न पुनर्यथा साधवो गत्वा धर्मलाभमिति वदन्ति तथा स वदति एनां च प्रतिमा प्रतिपन्नस्य भिक्षां ददध्वमित्यपि न वदति अतो वस्तुतःप्रतिमा विना न भिक्षामार्गणमुचितं सूत्ररीत्येति 'तं चेत्यादि' तं च श्रमणोपासकं प्रतिपन्नमेतद्रूपेण विहारेण विचरन्तं दृष्ट्वा कश्चिन्निर्दिश्य वदेत् केयं त्वद्वृत्तिः किमाचारप्रतिपन्न आयुष्मन्नित्यामन्त्रणवञ्चनं त्वमिति भवान् वक्तव्यः स्यात् तदास वदति 'समणोवासए इत्यादि' व्यक्तम्। निर्वचनवाक्यमत्रापि पञ्चमप्रतिमाधिकारोक्तानि पदानि "समं कारण फासत्ति" इत्यादीनि द्रष्टव्यानि शेष