________________ उवासगपडिमा 1127- अभिधानराजेन्द्रः- भाग 2 उवासगपडिमा दाचारो यत्किचनानुष्ठानं यस्य भवति स अधर्मशीलसमुदाचारोन धर्मात्किमपि भवति तस्यैवाभावादित्येवम् / तथा (अधम्मेण चेवत्ति) अधर्मेण चारित्रश्रुतविरुद्धरूपेण वृत्तिं जीविका कल्पयन् कुर्वाणो विहरत्यास्ते / यद्वा अधर्मेण सावद्यानुष्ठानेन दहनाङ्कननिर्लाञ्छनादिकेन कर्मणा वृत्तिर्वर्तनं कल्पयन् कुर्वाणो विहरतीति कालमतिवाहयति / यद्वा अधर्मेणैव वृत्तिं सर्वजन्तूनां यापनां कल्पयन् इति / पापानुष्ठानमेव लेशतो दर्शयितुमाह "हणेत्यादि" स्वत एव हननादिकाः क्रियाः कुर्वाणोऽपरेषामप्येवमात्मकमुपदेशं ददाति / तत्र हननं दण्डादिभिस्तत्कारयति तथा छिन्धिकर्णादिकं भिन्धि शूलादिना विकर्त्तकः प्राणिनामजिनाय नेता अत एव लोहितपाणिरियित्वा हस्तयोरप्यप्रक्षालनात् अत एव पापः पापकर्मकारित्वात् / चण्डस्तीवकोपावेशात् / रौद्रो निस्विंशकर्मकारित्वात् / क्षुद्रः क्षुद्रकर्मकारित्वात् / साहसिकः सहसा अविभृष्यैव पापकर्मणि प्रवृत्तत्वात् / स्वत एव परलोकभयाभावात् असमीक्षितकारी अनालोचितपापकारीति भावः / तथा उक्तं च वञ्चनं प्रतारणं तद्यथा अभयकुमारः प्रद्योतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः मायावञ्चनबुद्धिः प्रायो वणिजामिव / निकृ तिस्तु वकवृत्त्या कुकुटादिकरणेन दम्भप्रधानवणिकाश्रोत्रियसाध्वाकारेण परवञ्चनार्थं मङ्गलकर्तकानामिवावस्थानं देशभाषानेपथ्यादिविपर्ययकरणम्। कूटमनेकेषां मृगादीनां ग्रहणाय नानाविधयोगकरणम् / अथवा कूटं कार्षापणं तुलाप्रस्थादेः परवञ्चनार्थं न्यूनाधिककरणं कपटं यथाऽऽषाढभूतिना नटेन वा परवेषपरावृत्त्याचार्योपाध्यायसंधाटकात्मार्थ चत्वारो मोदका अवाप्ताः। एतैरुद्वञ्चनादिभिः सहातिशयेन संप्रयोगो योगः तेन बहुलं यदि वा सातिशयेन द्रव्येण कस्तूरिकादीनामपरस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगः तेन बहुलोऽतिप्रभूतः। उक्तंच सूत्रकृताङ्गचूर्णिकृता"सो होइसाइजोगो, दव्यं जत्थादि अन्नदव्वेसु। दोसगुणवयणेसु य, अत्थविसंवायणं कुणइ // 1 // इति संप्रयोगबहुलः / अपरे तु व्याख्यानयन्ति उक्तं च न नाम उक्तो वा निकृतिर्वचनप्रच्छादनकर्मसातिर-विजृम्भ, एतत्संप्रयोगबहुलः शेषं तथैव / एते चोत्कञ्चनादयो मायापर्यायाः यथेन्द्रशब्दस्य शक्रपुरन्दरादयः। पुनः किंभूताः (दुस्सीलेत्ति) दुष्ट शीलं स्वभावो यस्य स दुःशीलः दुष्परिचयश्चिरमुपचरितोऽपि क्षिप्रं विसंवदति / दुःखानुनेयो दारुणस्वभाव इत्यर्थः। तथा (दुव्वए) दुष्टानि वृत्तानि यस्य स तथा यथा मांसभक्षणव्रतकालसमाप्तौ प्रभूततरसत्वोपघातेन मांसप्रधानमन्यदपि नक्तभोजनादिकं तस्य दुष्टव्रतमिति। तथाऽन्यस्मिन् जन्मान्तरेऽहं मधुमद्यमांसादिकमभ्यवहरिष्यामीत्येवमज्ञानान्धो जन्मान्तरवि-धिद्वारेण स निदानमेव च तं गृह्णाति / तथा दुःखेन प्रत्यानन्द्यत इति दुष्प्रत्यानन्द्यः इदमुक्तं भवति तैरानन्दितेनापरेण केनिचत् प्रत्युपकारहेतुना गध्मिातो दुःखेन प्रत्यानन्द्यते / यदि वा सत्यु-पकारे प्रत्युपकारभीरु वानन्दति प्रत्युत शठतया उपकारे दोषमेवोत्पादयति। तथा चोक्तं "प्रतिकर्तुमशक्तिष्ठा नराः पूर्वोपकारि-णाम्। दोषमुत्पाद्य गच्छन्ति मनामिव वारसा इति"। तथा निश्शीलो ब्रह्मचर्यपरिणामाभावात् / निर्घातो हिंसादिविरत्य-भावात् / निर्धातो हिंसादिविरत्यभावात्। निर्गुणो हितकारित्वा-दिगुणाभावात्। निर्मर्यादिः परिस्त्रीपरदारादिमर्यादाविलोपित्वात्। तथा अविद्यमान पौरुष्यादिप्रत्याख्यानसत्पदिनोपवासश्चेत्यर्थः। यत एवमतः साधुपापकर्मकारित्वात्। तथा यावत्प्राणधारणेन सर्वस्मात्प्राणातिपातादप्रतिविरतो | लोकनिन्दनीयादपि ब्राह्मणघातादेरविरत इति सर्वग्रहणम् / एवं पूर्वोक्तप्रकारेण यावत् करणात् "सव्वातो मुसावायातो अपडिविरया इत्यादि" पदकदम्बकपरिग्रहः। तत्र सर्वस्मादपि कूटसाक्ष्यादेरप्रतिविरत इति। तथा सर्वस्मात् स्त्रीवालादेः परद्रव्यादपहरणादविरतः। तथा सर्वस्मात्परस्त्रीगमनादेमैथुनादविरतः एवं सर्वस्मात्परिग्रहाद्योनिपोषकादप्यविरतः। एवं सर्वेभ्यः क्रोधमानमायालोभेभ्योऽप्यविरतस्तथा प्रेमद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादारतिरतिमायामृषामिथ्यादर्शनशल्यादिभ्योऽसदनुष्ठानेभ्यो यावद्भ्यः प्रतिविरतो भवतीतितत्र प्रेमानभिव्यक्तमायालोभस्वभावमभिष्वङ्गमात्रं प्रेम। द्वेषोऽनभिव्यक्तक्रोधमानस्वरूपाप्रीतिमात्रं द्वेषः, कलहोराटिः अभ्याख्यानमसद्दोषारोपणम्, / पैशून्यं प्रच्छन्नमसदोषाविष्करणम्,। परपरिवादो विप्रकीर्ण परेषां गुणदोषवचनम्। अरतिरती अरतिर्मोहनीयोदयाचित्तोद्वेगः तत्पुना रतिर्विषयेषु मोहनीयोदयाचित्ताभिरतिः अरतिरती माया तृतीयकषायद्वितीयाश्रवयोः संयोगः अनेन च सर्वसंयोगा उपलक्षिताः। अथवा वेषान्तरकरणेन वायत्परवञ्चनं तन्माया। मषेति मिथ्यादर्शनं शल्यमिव विविधव्यथानिबन्धनत्वान्मिथ्यादर्शनशल्यमिति / तथा सर्वस्मात् स्नानोद्वर्तनाभ्यञ्जनवर्णककषायद्रव्यसंयुक्ततया विलेपनशब्दस्पर्शरसरूपगन्धमाल्यालङ्कारात् कामाङ्गात् मोहजनितादप्रतिविरतो यावजीवमिति / अत्र स्नानादयः शब्दाः प्रसिद्धाः नवरं वर्णकग्रहणेन वर्णविशेषापादकलोध्रादिकं परिगृह्यते। ननुपूर्वं तावत् अभ्यङ्गः पश्चात् उन्मईनं युज्यते पश्चाच स्नानं ततः कथमादौ स्नानोपन्यासः उच्यते यद्यपि अनुक्रम एवमेव परं कोऽपिकदाचिदभ्यङ्गमन्तराऽपि स्नानं कुर्वन् पृष्टिसंवाहनादि कारयति तेन न व्यत्ययो दोषावह इति / गन्धाः कोष्टपुटादयः माल्यानि ग्रथितदामानि अलङ्काराः केयूरादयः तथा सर्वतः शकटरथादेर्यानविशेषादिप्रविस्तरविधिपरिकररूपात् परिग्रहादप्रतिविरत इति / इह च शकटरथादिकमेव यानं शकटरथयानं युग्यपुरुषोत्क्षिप्तमाकाशयानं (गिल्लित्ति) पुरुषद्वयोत्क्षिप्ता गिल्लिका (थिल्लित्ति) वेगसरादिद्वयविनिर्मितो यानविशेषस्तथा (सीयत्ति) शिविका विलाटानां यत् अदुपभ्राणं रूढं तदन्यविषयेषु पिल्लिरित्युच्यते यद्वा तथा शिविका नाम कूटाकाराच्छादितो जम्पानविशेषः / तथा (संदभा-णियत्ति) शिविका विशेष एव पुरुषायामप्रमाणो जम्पानानि पर्यादीनि आसनानि गद्दिकादीनि यानानि वाहनानि च पूर्वोक्तान्तः पातीन्येव वेदितव्यानि / अथवा यानानि नौकादीनि वाहनानि वेसरादीनि भोजनमोहनादिरूपं प्रविस्तरो नाम गृहोपस्कार इति तथा अश्वहस्त्यादिपदानि व्यक्तानि नवरंदास आमरणं क्रयक्रीतः। कर्मकरो लोकहितादिकर्मकरः / पौरुषं पदातिसमूहः। तेभ्योऽप्यप्रतिविरतो यावज्जीवायेति। एतदेवमन्यस्मादपि वस्त्रादेः परिग्रहादुपकरणभूतादविरतस्तथा सर्वतः क्रयविक्र याभ्यां करणभूताभ्यां यो मासकार्धमासकरूपकार्षापणादिभिः पण्यविनिमयात्मकः संव्यवहारस्तस्मादप्यविरतो यावजीवायेति / तथा सर्वस्मात्सर्वतः हिरण्यसुवर्णधनधान्यमणिमौक्तिकशनशिलाप्रवालेभ्योऽन्यप्रतिविरतो यावजीवायेति। तत्र हिरण्यं रूप्यमघटितस्वर्ण मित्येक सुवर्ण घटित धनं गणिमादिचतुर्धा तद्यथा "गणिमं जाई फलपूगफलाइ धरिमं तु कुंकुमगुडाई। मजं वोप्पडलोणाइ रयणवच्छाइ परिच्छिनं / / 1 / / धान्यं चतुर्विशतिधा यवशाल्यादि मणयो वैडूर्य चिन्तामणिप्रभूत