________________ उवासगपडिमा 1126 - अभिधानराजेन्द्रः - भाग 2 उवासगपडिमा वमाणा विहरंति से जघा रक्खेसिया पव्वतायग्गजाते मूलच्छिन्ने अग्गे गरुए जातो निचं जतो दुर्ग जतो विसमंततो पवडंति एवामेव तहप्पगारे पुरिसजाते गम्भातो गम्भं जम्मातो जम्ममारातो मारं दुक्खातो दुक्खं दाहिणगामिएनेरइए कण्हपक्खिते आगमे साणदुल्लभवोधिते याविभवति से तं अकिरियावादीयावि भवति तं जहा आहियवादी आहियपत्ते आहियदिट्ठी साम्मावादी निहवादी संति परलोगवादी अस्थि इह लोगे अत्थि परलोगे अस्थि माता अस्थि पिया अस्थि अरहंता अस्थि चक्कवट्टी अस्थिबलदेवा अस्थिवासुदेवा अस्थि सुक्कड-दुक्कडाणं फलवित्तिविसेसेसु चिण्णा कम्मा सुचिण्णफला भवंति दुचिण्णा कम्मा दुचिण्णफला भवंति। सफले कल्लाणे यावए पचायंति जीवा अस्थि नेरइया देवा सिद्धी से एवं वादी एवं पन्ने एवं दिट्ठीच्छदरागमतिनिविढे आविभवति से भवति महेच्छे जाव उत्तरगामिए नेरइएसु पक्खिवत्तआगमेसाणं सुलभा वोधिया वि भवति से तं किरियावादसव्वधम्मरुची यावि भवति। तस्स बहुई सीलव्वयगुणवे रमणपचक्खाणपोसहोवासाई सम्म पद्धवितपुथ्वाइं भवति पढमा उपासगपडिमा। (अकिरियवाइत्ति) ननु प्रतिमाधिकारे तु पूर्वं दर्शनप्रतिमास्ति दर्शनं च सम्यक्त्वं तदेव पूर्व वक्तुमुचितं किमर्थं तर्हि पूर्व मिथ्यात्वप्ररूपणमनुपयोगित्वात् / उच्यते मिथ्यादर्शनं खलु सम्यग्दर्शनप्रतिपक्षभूतं तदपि ज्ञातुमुचितंजावन्न तद्विपक्षतया ज्ञातं तावत्सम्यक्त्वे दाढ्यं भवति पूर्व सर्वजीवानां मिथ्यात्वमेव पश्चात्केषांचित्सम्यक्त्वमतः पूर्वं मिथ्यादर्शनमेवोचितं वक्तुमिति। तद् द्विविधं तद्यथा आभिग्राहिकमनाभिग्राहिक माभिग्राहिको नामकुदर्शनग्रहोयथा नास्ति जीवोऽनित्यो वा जीवः नास्ति वा परलोकइत्यादिरूपः अनाभिग्राहिकमसंज्ञिनामपि केषांचित् तथाविधज्ञानविकलानां यतो भव्या अपि केचनाक्रियावादिनोऽभव्याश्चापि भव्योऽक्रियावादी नियमात् कृष्णपाक्षिक एतल्लक्षणमेवमाहुः 'जेसिमवड्डो पुग्गल परियट्टो चेव होइ संसारो। ते सुक्कपक्खिया खलु इयरे पुण कन्हपक्खिया / / 1 / / इति / क्रियावादी च निममाद्भव्य एव शुक्लपाक्षिकश्च / यतः "अंतो पुग्गलपरियट्टस्स णियमा / सिज्झिहित्ति" सम्यग्दृष्टिमिथ्यादृष्टिा भवेत् अतो युक्तमादौतदुद्देशकरणमिति। तत्र क्रिया अस्तीत्येवंरूपा तां वक्तुं शालमस्येति क्रियावादी तद्विपरीतस्त्वक्रियावादी यतः ये त्वक्रियावादिनस्ते अस्तीति क्रियाविशिष्टमात्मानं नेच्छन्त्येव एवंविधो भवति वापिशब्दावनुक्तार्थसंग्राहकौ द्रष्टव्यौ। सपुनः कथंभूतो भवतीति दर्शयति (णाहियावादित्ति) नास्तिकवादादयो नास्त्यात्मा एवं वदनशीलो नास्तिकवादी एवं (नाहियपण्णेत्ति) नास्तिकप्रज्ञः प्रज्ञा हेयोपादेयरूपा तां नास्तीत्येवं वदनशीलो नास्तिकप्रज्ञः / प्रतिज्ञा वा निश्चयरूपोऽभ्युपगम एवं (नाहियदिट्ठित्ति) दृष्टिदर्शनं स्वमतमिति भावः (नो सम्मावादित्ति) न सम्यग्वादी मिथ्यादृष्टिरित्यर्थः ये यथावस्थितं भणन्ति ते सम्यग्वादिनः तद्विपरीतास्तु मिथ्यावादिनः (णो णित्ति यावदिति) नित्यो मोक्षो यत्र गतानां पुनरागमनादिनास्ति नित्यतयावस्थितिर्यत्रास्ति तनिषेधवादी।। अथवा नियतमनुष्ठान (णंसत्ति) परलोकाः स्वर्गनरकादयः तद्वादी स पुनरित्थं नास्ति वदति यथा नास्तीह लोकः इहेति अयं प्रत्यक्षः सोऽपि नास्ति यद् दृश्यते तत् भ्रान्तमन्यथा प्रतिभासते तथाभूतसमुदायेन जीवादिकमस्ति तच वस्तुतया प्रतिभास इति भ्रान्तिः। नास्तिपरलोकः कोऽर्थः परो नाम सुखदुःखोत्कृष्टभावसंयुक्तः सोऽपि नास्ति (णस्थि माता णत्थि पिता) इति कण्ठ्यं तन्निषेधमेवं ते कुर्वन्ति योऽयं मातृपितृव्यपदेशः स जनकत्वे कृतो जनकत्वाच्च यूकाकृमिगण्डोलकास्तथाश्रित्य स स्यान्न चैवं तस्मान्न वास्तवो मातृपितृव्यवहार इति (णस्थि अरहंतत्ति) अर्हन्तस्तीर्थकराः शेषपदत्रयं व्यक्तं (नरयत्ति) नरान् उपलक्षणत्वात्तिरश्चोऽपि तथाविधपापकारिणः कायन्ति आह्वयन्तीति नरकाः सीमन्तकादयः (णेरयियत्ति) निर्गत अय-मिष्टफलं कर्म येभ्यस्तेषु भवा नैरयिकाः "णत्थि सुक्कडे त्यादि'' नास्ति सुकृतदुष्कृतयोः फलवृत्तिविशेषः सुकृतं तपःप्रभृति दुष्कृतंजीवहिंसादि "नो सुचिण्णेत्यादि' न सुचीपर्णानि सुष्ठाचरितानि कर्माणि सुचीर्णफलानि इष्टफलसाधकानि भवन्ति एवमितरदपि नवरं व्यत्ययः अफले इत्यादि अयमात्मा अफलः फलवर्जितः क्वे त्याह कल्याणपापकवस्तुनि (णो पञ्चायतित्ति) न प्रत्यायान्ति जीवा गत्यन्तरसंभारेणेत्यर्थः (णत्थि णिरयादि) अत्रादिशब्दोपा-दानात् नारकास्तैरश्वा नरा देवाश्चत्वारो ग्राह्याः (णस्थि सिद्धित्ति) नास्ति न विद्यते सिद्धिर्नाम ईषत्प्राग्भारा मुक्तिलेति यावत् सेति स एवंवादी अनन्तरोक्तप्रकारवादी कथकः 'पण्णे दिट्ठीति' पूर्ववत् एवं (छंदरागे त्ति) छन्दः स्वाभिप्रायः रागो नाम स्नेहरागादिकसूत्राभिनिविष्टप्रत्यर्पितदृष्टिर्भवति (सेयत्ति) सो भवति अनन्तरवक्ष्यमाणस्वरूपो यथा "महिच्छे" इत्यादि महती राज्यविभवपरिवा-रादिसर्वातिशायिनीच्छान्तःकरणप्रवृत्तिर्यस्य स महेच्छः। तथा महानारम्भो वहनोष्ट्रमण्डलिकानां गन्त्रीप्रवाहकृषिषण्डपोषणादिको यस्य स महारम्भः यश्चैवंभूतः स महापरिग्रहः धनधान्यद्विपदचतुष्पदवास्तुक्षेत्रादिपरिग्रहवान् क्वचिदप्यनिवृत्तः अत एव धर्मेण चरतीति धार्मिकः न धार्मिकोऽधार्मिकः / तत्र सामान्यतोऽप्यधार्मिकः स्यादत आह (धम्माणुएत्ति) धर्म श्रुतचारित्ररूपमनुगच्छतीति धर्मानुगः / यद्वा धर्मे उक्तलक्षणेऽनुमोदनं यस्य सोधर्मानुज्ञस्तद्विपरीतस्तु अधर्मानुज्ञः। तथा (अधम्मसेवीत्ति) अधर्ममेव सेवितुं शीलमस्येत्यधर्मसेवी / तथा (अहम्मिटेत्ति) धर्मः श्रुतरूप एवेष्टो वल्लभः पूजितो यस्य स धर्मिष्टः / अथवा धर्मिणामिष्टः / अथवा धम्मिष्ठः अतिशयेन धर्मी धमिष्ठः तन्निषेधादधर्मिष्टः अधमिठो वा यद्वा अमिष्ठो निस्विंशकर्मकारित्वादधर्मबहुलः अत एव (अहम्मक्खाईति) न धर्ममाख्यातीत्येवं शीलोऽधख्यिायी / अथवा न धर्माख्यायी अथवा अधर्मात् आख्यातिर्यस्य स अधख्यिातिः / तथा अधर्मरागी अधर्मे एव रागो यस्य सोऽधर्मरागी। तथा (अहम्मपलोइत्ति) न धर्ममुपादेयतया प्रलोकयति यः सोऽधर्मप्रलोकी (अहम्मजीवित्ति) अधर्मेण जीवति प्राणान् धारयतीति अधर्मजीवी / तथा (अहम्मपलज्जणेत्ति) न धर्म प्ररज्यति आसजति यः सोऽधर्मप्ररञ्जनः। यद्वा अधर्मप्रापणीयेषु धर्मसु प्रकर्षण राज्यत इत्यधर्मरक्तः रलयोरैक्यमिति रस्य स्थाने लकारोऽत्र कृत इति / "कृचिदधम्मपज्जणे" इति पाठः तत्राधर्म प्रकर्षेण जनयति उत्पादयति लोकानुपयातीति अधर्मप्रजनः / तथा अधर्मशीलेति अधर्मशीलो ऽधर्मस्वभावः / तथाऽधर्मात्मकः समु