________________ उवासगदसा 1123 - अभिधानराजेन्द्रः - भाग 2 उवासगपडिमा अतो विशेषत आह। उवासगदसासु णं उवासयाणं रिद्धिविसेसा परिसावित्थरधम्मसवणाणि बोहिलाभो अभिगमणे सम्मत्तविसुद्धया थिरतं मूलगुणउत्तरगुणाइयारा ठिइविसेसा बहुविसेसा पडिमाभिगहम्गहण उवसग्गाहिसंहणणणिरुवसग्गा तवायचित्ता सीलव्वयगुणवेरमणपचक्खाणपोसहोववासा अपच्छिममारणतिया य संलेहणाझोसणाहिं अप्पाणं जह य भावइत्ता बहूणि भत्ताणि अणसणाएछेअइत्ता उववण्णा कप्पवरविमाणुत्तमेसु जहा अणुभवंति सुरवरविमाणवरोडरीएसु सोक्खाइं अणोवमाई कमेण भुत्तूण उत्तमाइं तओ आउक्खए चुआ समाणा जह जिणमयम्मि वोहिं लभ्रूण य संजमुत्तमतमरयोधविप्पमुक्काति जह अक्खयसव्वदुक्खमोक्खं एते अन्ने य एवमाइ उवासयदसासु णं परित्ता वायणा संखेज्जा अणुओगदारा जाव संखेज्जाओ संगहणीओ से णं अंगट्ठयाए सत्तमे अंगे एगे सुयक्खंधे दस अज्झयणा दस उद्देसणकाला दस समु-देसणकाला संखेजाइ पयसयसहस्साइं पयग्गेणं पण्णत्तो संखेज्जाइं अक्खराइं जाव एवं चरणकरणपरूवणा आघविजंति सेत्तं उवासगदसाओ।७।। उवासगेत्यादि तत्र ऋद्धिविशेषा अनेककोटीसंख्याद्रव्यादिसम्पद्विशेषाः तथा परिषदः परिवारविशेषाः यथा मातापितृपुत्रादिकाः अभ्यन्तरपरिषत् दासीदासमित्रादिका बाह्यपरिषदिति विस्तरधर्मश्रवणानि महावीरसन्निधौ ततो बोधिलाभोऽभिगमः सम्यक्त्वस्य विशुद्धता स्थिरत्वं सम्यक्त्वशुद्धिरवे मूलगुणोत्तर-गुणा अणुव्रतादयः अतिचारस्तेषामेव वधबन्धादितः खण्डनानि स्थितिविशेषाश्चोपासकपर्यायस्य कालमान भेदाः बहुविशेषाः प्रतिमाः प्रभूतभेदाः सम्यग्दर्शनादिप्रतिमाः अभिग्रहग्रहणानि तेषामेव च पालनानि उपसर्गाधिसंहनानि निरुपसर्गञ्चोपसर्गाभावश्चेत्यर्थः। तपांसि च चित्राणि शीलव्रतादयोऽनन्तरोक्तरूपा अपश्चिमाः पश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थः / मरणरूपे अन्ते भवा मारणान्तिक्यः आत्मशरीरस्य जीवस्य च संलेखनाः तपसा रोगादिजयेन च कृशीकरणानि आत्मनः संलेखनाः ततः पदत्रयस्य कर्मधारय स्तासा (ज्झोसणंति) जोषणाः सेवनाः करणानीत्यर्थः ताभिरपश्चिममारणान्तिकात्मसंलेखनाजोषणाभिरात्मानं यथा च भावयित्वा बहूनि भक्तानि अनशनतया च निर्भोजनतया छेदयित्वा व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते। केषु कल्पवरेषु यानि विमानोत्तमानि तेषु यथाऽनुभवन्ति सुरवरविमानानि वरपुण्डरी-काणि यानितेषु कानि सौख्यान्यनुपमानि क्रमेण भुक्त्वोत्तमानि ततः आयुष्कक्षयेण च्युताः सन्तो यथा जिनमते बोधिं लब्धा इति विशेषः / यथा च संयमोत्तमम्प्रधानं संयम तमोरजओघविप्रमुक्ता अज्ञानकर्मप्रवाह विमुक्ता उपयन्ति / यथा अक्षयमपुनरावृत्तिकं सर्वदुःखमोक्षं कर्मक्षयमित्यर्थस्तथोपासकदशास्वाख्यायन्त इति प्रक्रमः। एते चान्ये चेत्यादि प्राग्वन्नवरं"संखेजाई पयसहस्साई पयग्गेणंति" किलैकादशलक्षाणि द्विपञ्चाशच सहस्राणि पदान मिति॥७॥ सम० यावच्छब्देन 'संखेज्जा वेढासंखिज्जा सिलोगा संखिज्जाओ निज्जुत्तीओ संखिज्जाओ संगहणीओ संखिज्जाओ पडिवत्तीओ" नंग उवासगपडिमा स्त्री०(उपासकप्रतिमा) उपासकाः श्रावकास्तेषां प्रतिमाः प्रतिज्ञा अभिग्रहविशेषाः उपासकप्रतिमाः। उत्त०२ अ० स० श्रावकोत्थिताभिग्रह विशेषरूपेषु सुदर्शनादिषु, उपा० 10 // धाग० तथैकादशप्रतिमायां श्राद्धः सामायिको "जाव नियम वा जाव पडिम वा' कथमुच्चरते / तथा पञ्चम्यादिप्रतिमास्वष्टम्यादितिथिषु रात्री कायोत्सर्गकरणवदेकादश्यां प्रतिमायां कायोत्सर्ग करोतिन वेति प्रश्रः / उत्तरम् एकादशप्रतिमायां श्रावके ण सामायिके "जाव पडिमं पज्जुवासेमित्ति'' पाठो भणनीयस्तथा कायोत्सर्गोऽपि करणीयः। शेन०२ उ०३७ प्र० श्रावकधर्माधिकारात्तदुचितभावस्तद्विशेषमुपासकप्रतिमा-लक्षणमभिधित्सुमङ्गलाद्यभिधानायाह / नमिऊण महावीरं, भवहियट्ठाय लेसओ किं पि। वोच्छं समणोवासग-पडिमाणं सुत्तमग्गेण / / 1 / / नत्वा प्रणम्यमहावीरं वर्द्धमानजिनं भव्यानां शुभजीवानां हितं पथ्यं स एवार्थः पदार्थः प्रयोजनं वा भव्य हितार्थस्तस्मै भव्यहितार्थाय भव्योपकारायेत्यनेन च परोपकारस्य मुमुक्षूणामादेयतां दर्शयतिालेशतः संक्षेपेणाल्पग्रन्थतयेत्यर्थः। अल्पग्रन्थेनापिक्वचित्समस्तमभिधेयमुच्यत इत्यत आह / किमपि स्तोकमभिधेयजातं न समस्तमपीत्यर्थः वक्ष्ये भणिष्यामि। श्रमणोपासकप्रतिमानां श्रावकाभिग्रह विशेषाणां संबन्धिनां पुनर्भिक्षुप्रतिमानां श्रावकधर्माधिकारात्कथमित्याह सूत्रमार्गेण दशाश्रुतस्कन्धाभिधानागमपथेनानेन श्रुतविशेषावलम्बनत्वात्प्रकरणस्यास्य प्रामाण्यमावेदितमिति गाथार्थः पंचा० १०वि०१। अथ कियत्यः किमादिकाश्च ता इत्याशङ्कायामाह। एक्कारस उवासगपडिमा उ पण्णत्ता तं जहा दंसणसावाए कयध्वयकम्मे सामाइअकडे पोसहोववासनिरए दिया बंभयारी रत्तिपरिमाण कडे दिआ विराओ वि बंभयारी असिणाईवि अडभोई मोलिकडे सचित्तपरिम्नाए आरंभपरिन्नाए पेसपरिन्नाए उद्दिट्ठभत्तपरिन्नाए समणभूए आविभवइ समणाउसो।। तत्र दर्शनं सम्यक्त्वं तत्प्रतिपन्नः श्रावको दर्शनश्रावकः इह प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमाप्रतिमावतोरभेदोपचारात्प्रतिमा वतो निर्देश: कृतः एवमुत्तरपदेष्वपि / अयमत्र श्रावको दर्शनश्रावकः इह च प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमाभावार्थः सम्यग्दर्शनस्य शङ्कादिशल्यरहितस्याणुव्रतादिगुणविकल्पस्यायमभ्युपगमः सा प्रतिमा प्रथमेति / तथा कृतमनुष्ठितं व्रतादीनां कर्म तचाणुव्रतं ज्ञानवाञ्छाप्रतिपत्तिलक्षणं येन प्रतिपन्नदर्शनेन स कृतव्रतकर्मा प्रतिपन्नाणुव्रतादिरिति भावः इतीयं द्वितीया / तथा सामायिकं सावधयोगपरिवर्जननिरवद्ययोगोपसेवनस्वभावं कृतं विहितं देशतो येन स सामायिककृतः आहिताग्न्यादिदर्शनातक्तान्तस्योत्तरपदत्वं तदेवं प्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसंख्यं सामायिककरणं मासत्रयं यावदिति तृतीया प्रतिमेति / तथा पोषं पुष्टिं कुशलधर्माणं धत्ते यदाहरत्यागादिक मनुष्ठानं तत्पौषधं तेनोपैवसनमवस्थानमहोरात्रं. यावदिति पौषधोपवास इति / अथवा पौषधं पर्वदिनमष्टभ्यादि तत्रावास उक्तार्थः पौषधोपवास इति / इयं व्युत्पत्तिरेव प्रवृत्तिस्तस्य शब्दस्य