SearchBrowseAboutContactDonate
Page Preview
Page 1099
Loading...
Download File
Download File
Page Text
________________ उवहि 1061 - अभिधानराजेन्द्रः - भाग 2 उवहि आलम्बनं द्विधा द्रव्यतो गर्तादौ निमज्जतो रजवादिभावतः संसारगर्तायां निपततां ज्ञानादि इहपुनर्यत्र क्षेत्रे काले षा दुर्लभं वसंनदादिकमालम्बनं गृह्यतेतत्र विशुद्धे प्रशस्ते सति द्विगुणो वाचतुर्गुणो वा औपग्रहिकश्चोपधिः सर्वोऽपि महाजनस्य गच्छस्योपग्रहकरो भविष्यतीति कृत्वा गणचिन्तकस्य परिग्रहे भवतीति / गतं प्रमाणद्वारमा (6) आर्यिकाणामुपधिप्रमाणम्। पत्तं पत्तावंधो, पायट्ठवणं च पायकेसरिया। पडिलाई रयत्ताणं, गुच्छओ पायनिजोगो॥ तिण्णेव य पच्छाया, रयहरणं चेव होइ मुहपोत्ती। तत्तो पमत्तए खलु चोहस मेकमट्ठए होति।। उग्गहणंतगपट्टो, अद्धोरुअवलणिआय बोधव्वा। अभिंतरबाहिणिय-सणीय तह कंवुए चेव / / ओक्कच्छिय चेगकच्छिय, संघाडीचेव खंधकरणीय। ओहोवधिम्मि एते, अजाणं पण्णवीसंतु॥ पात्रकादित्रयोदशेऽपि करणानि साधूनामिव द्रष्टव्यानि / चतुर्दश तु चोलपट्टकस्थाने तासां कमठकं भवति / तच्चाष्टकमयमेकैकं संयतीनां निजदेहप्रमाणेन विज्ञेयम्।तथा अवग्रहानन्तकं १५पट्टम् १६अझै रुकं 17 बलनिका च 18 बोधव्या। अभ्यन्तरनिवसनी 19 बहिर्निवसनी 20 तथा कम्बुकश्चैव 21 औपकक्षिकी 22 चैककक्षिकी 23 संघाटी 24 स्कन्धकरणी 25 एवमेतान्योघोपधौ आर्यिकाणां पञ्चविंशतिरुपकरणानि भवन्ति / अथैतान्येव विवृणोति। उग्गहाणंतओ नोव्व, गुज्झदेसरक्खणट्ठाए। सोयप्पमाणो तणुको, घणमसिणो देहमासज्ज। इहावग्रह इति योनिद्वारस्य सामायिकी संज्ञा तस्यानन्तकं वस्त्रमवग्रहानन्तकं पुंस्त्वं प्राकृतत्वात् तच नौनिभं मध्यभागे विशालं पर्यन्तभागयोस्तु स्तनुकं गुह्यदेशरक्षार्थं क्रियते / तच गणनयैकं अन्तर्बीजपातसंरक्षणार्थं च धनं घनवस्त्रेण पुरुषसमानकर्कशस्पर्शपरिहरणार्थचमसूण मसणवस्त्रेण क्रियते प्रमाणे न च देहं स्त्रीशरीरमासाद्य तद्विधीयते देहो हि कस्याश्चित्तनुः कस्याश्चित्त स्थूलः। ततस्तदनुसारेण विधेयमित्यर्थः। पट्टो वि होइ एको, देहपमाणेण सो उ भइयव्यो। छंदंतोग्गहणतं, कडिबद्धो मल्लकच्छो वा।। पट्टोऽपि गणनयैको भवतिसच पर्यन्तभागवर्तिवाटकबन्धबद्धः पृथत्वेन चतुरङ्गुलप्रमाणः समतिरिक्तो वा दीर्घेण तु स्त्रीकटीप्रमाणः स च देहप्रमाणेन भक्तव्यः पृथुलकटीभागाया दीर्घः संकीर्णकटीभागायास्तु ह्रस्व इत्यर्थः / स चावग्रहानन्तकमुभयान्तयोराच्छादयन् कटीबद्धः सन् मल्लकक्षावज्ज्ञायते। अडोरुगो उदो वि, गिहिउंछादए कडीभागं। जाणुप्पमाणवलणी, असिल्लिया लंखियाएव।। अोरुकोऽपि तौ द्वावपि अवग्रहानन्तपट्टावुपरिष्टाद् गृहीत्वा सर्वकटीभागमाच्छादयति। सचमल्लचलनाकृतिः केवलमुपरिऊरुद्वये चकशाबद्धःचलनिकाऽप्येवमेवा नवरमधोजानुप्रमाणा अस्यूतलंखिका परिधिर्भवति वंशाग्रनर्तकी मलनकशा मन्तव्या। अंतोनिवसणी पुण, लीणतरा जाव अड्डजंघातो। बाहिरखुलगपमाणा, कडी य दोरेण पडिबद्धा / / अन्तर्निवसनी पुनरुपरि कटीभागादारभ्याधोऽर्द्धजज्ञा यावद्भवति सा च परिधानकाले लीनतरा परिधीयते मा भूदनावृता जनोपहास्येति बहिर्निवसनी पुनरुपरि कटीभागादारभ्याधः खुलकप्रमाणा चरणगुल्फ यावदित्यर्थः कट्यां च दवरकेन प्रतिबद्धइदमधः शरीरस्य षड्विधमुपकरणमुक्तम्। अथार्द्धकायोपयोगिकञ्चुकादिकं व्याख्याति / दतिअणुकुथिते उरोरुहे, कंचुओ असिव्वितओ। एमेव य उक्कच्छी, सा णवरं दाहिणे पासे // दैयमाश्रित्य स्वहस्तेनार्द्धतृतीयहस्तप्रमाणः पृथुत्वेनतुहस्तमानोऽसेवित उभयतः कसाबद्धः कञ्चुकः सा चोरोरुहौ छादयति किम्भूतौ च भक्ते चितौ श्लथौ गाढपरिधाने हि विविक्तविभागौ भवेताम् कक्षायाः समीपमुपकक्षं तत्र भवा औपकक्षिकी अध्यात्मादित्वादिक-क्प्रत्ययः एवमेव च कञ्चुकवत्तस्या अपि स्वरूपं वक्तव्यं नवरं दक्षिणपार्वे समचतुरस्रा हस्तेन सार्द्धहस्तप्रमाणा उरो भागं पृष्ठं च प्रच्छादयन्ती वामस्कन्धे वामपार्वे च वीठक बद्धा परिधीयते। उवगच्छिया उ पन्जे, कंचुकमुक्किट्टियं च छादेति। संघाडीओ चउरो, तत्थ दुहत्था उवसधीए॥ दुन्नितिहत्थायामा, भिक्खट्ठाएगउच्चारे। ओसरणे चउत्थाम, निसन्नपच्छाइणी मसिणो॥ औपकक्षिकी विपरीता चैककक्षिकीनामकः पदः कञ्चुकभीपकक्षिकी च छादयन् वामपार्वे परिधीयते तथा उपरिपरिभोग्या संघाटिकाश्चतस्रो भवन्ति / एका द्विहस्ता द्वे त्रिहस्ते एका च चतुर्हस्ता दैर्येण चतस्रोऽपि साऽपि सार्द्धहस्तत्रयप्रमाणा चतुर्हस्ता वा मन्तव्या तत्र हि द्विहस्ता द्विहस्तविस्तृता संघाटिका वसत्यां परिधीयते न तां विहाय प्रकटदेहया कदाऽपि भवितव्यमिति भावः / ये च द्वित्रिहस्तायामे त्रिहस्तविस्तृते तयोर्मध्ये एका भिक्षार्थं गच्छन्त्या प्रावियते एका उच्चारभूमिं व्रजन्त्या तथा समवसरणे व्याख्यानश्रवणादौ गच्छन्ती चतुर्हस्तां प्रावृणोति च प्राक्तनसंघाटीभ्यो वृहन्नरप्रमाणा अनिषण्णप्रच्छादनार्थ क्रियते यतो न तत्र संयतीभिरुपवेष्टव्यं किंत्वर्ट्स स्थित्वा ताभिरनुयोगश्रवणादि विधेयं ततस्त्था स्कन्धादारभ्य पादौ यावद्वपुः प्रच्छाद्य तिष्ठन्ति एताश्च पूर्वप्रावृतवेषप्रच्छादगार्थ प्रवचनवर्णप्रभावनार्थं च महणा क्रियन्ते चतस्रोऽपिच गणनाप्रमाणेनैकमेव रूपंगण्यते युगपत्परिभोगाभावात्। खंधकरणी चउहत्था, वित्थरा वायबिहुतरक्खहा। खुज्जकरणी उकीरति, रूववतीणं कुडुहहेउं / / स्कन्धकरणी चतुर्हस्तविस्तरा समचतुरस्रा प्रावरणस्य वातविधुतरक्षणार्थ चतुष्पला स्कन्धे कृत्वा प्राव्रियते रूपवतीनां च संयतीनां कुरूपहेतोः कुब्जकरयपि क्रियते पृष्टदेशे संबर्हितायौपकक्षिकी त्वैककक्षिकीनिबद्धा तया विरूपतापादनीयं कुरूपं विधीयत इति भावः / उपसंहरन्नाह। संघातिमेतरो वा, सव्वो वेसो समासओ उवधी। पासगबद्धमसुसिरो, जं वाइण्णंतगंणेयं // सर्वो ऽप्येषोऽनन्तर उपधिः समासतो द्विधा सङघातिमः इतरश्च
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy