________________ उवहाण 1080- अभिधानराजेन्द्रः - भाग 2 उवहाणसुय धानं न दृश्यते तथापि श्रीपरमगुरूणामनुशिष्टिरस्ति यतोऽग्रे मालाधापनसमये तेषां समुद्देशानुज्ञयोर्विधीयमानत्वादुद्देशोऽपि कर्तव्य इति तत्सप्तक्षमाश्रमणानि देयानीति (28 प्रश्न०) तथा छक्किकोपधानवहनानन्तरं षण्मासमध्ये मालापरिधापनं शुद्ध्यति किं वा षण्मासानन्तरमिति प्रश्नः अत्रोत्तरं तद्वहनानन्तरं षण्मासमध्य एव मालापरिधापनं शुद्ध्यतीत्येकान्तो ज्ञातो नास्ति परं त्वरितं परिधाप्यते तदा वरमिति (110 प्रश्न०)तथाछक्कियाख्योपधाने उचरितपञ्चमीतपसांषष्ठदिने पञ्चमीसमेतितदा पञ्चभ्युपवासं कृत्वा सप्तमदिन आचाम्लं करोति किं वा षष्ठं करोतीति प्रश्नः / अत्रोत्तरम् सप्तमदिने उपवासस्यावश्यककरणीयत्वेन षष्ठं करोतिशक्त्यभावे तदनुसारेणैवोपधानप्रवेशं करोति (134 प्रश्न०) तथोपधानोत्तरणदिनस्य प्राक् दिने योगोत्तरणदिनवत्तप एव कृतं विलोक्यते किं वा एकाशनकपारणकेऽप्युत्तरितुं कल्पते न वेति प्रश्नः। अत्रोत्तरमाह एकाशनादिपारणकेऽप्युत्तारयितुं कल्पते न तु योगादिवत्तपोनियम इति (164 प्रश्न०) तथा पण्डितकनकविजयगणिकृतप्रश्नस्तदुत्तरंच यथा वृद्धविध्युपधानवाहकस्य कृतचतुर्विधाहारोपवासस्य संध्याप्रत्याख्यानवेलायां संध्याप्रत्याख्यानं गुरुसमक्षं कर्त्तव्यं न वेति प्रश्नः / अत्रोत्तरम् प्रातः कृतचतुर्विधाहारोपवासस्य संध्यायामुपधानक्रियाकरणवेलायां पश्चात्प्रत्याख्यानं कृतं विलोक्यते उपधानमन्तरातुसंध्यायां तत्स्मरणं विलोक्यते परं पुनः प्रत्याख्यानकरणविशेषो ज्ञातो नास्तीति (376 प्र०) तथाऽष्टपूर्वार्धरेक उपवास इत्यादिगणनया गणितं तपस्तृतीयपञ्चमोपधानमध्य आयाति न वेति प्रश्नः / अत्रोत्तरम् पञ्चमङ्गलमहाश्रुतस्कन्धः 1 प्रतिक्रणश्रुतस्कन्धः 2 शक्रस्तवाध्ययन 3 चैत्यस्तवाध्ययनं 4 नामस्तवाध्ययनं 5 श्रुतस्तवसिद्धस्तवाध्ययनं चेति 6 षडुपधानानि तत्र चतुर्थषष्ठे विना चत्वार्युपधानानि मूलविधिनापरविधिना वोह्यमानानि सन्ति तत्रापरविधावष्टभिः पुरिमाधुरेक उपवास इत्यादिगणना भवति तत्तु मूलविधौ प्रयोजनाभावाचतुर्थषष्ठयोर्मूलविधिनैवो ह्यमानत्वात्तद्गणना / ऽप्रयोजनास्तीति (176 प्रश्न०) तथैकादशोत्तराध्ययनचतुर्दशसहस्त्र्यां 131 पत्रे “जोगवं उवहाणवं" इति द्वयमपि शिष्यस्योक्तमस्ति तत्कथं शिष्यस्य श्राद्धस्य च कार्यत इति प्रश्नः। अत्रोत्तरम्योगमनोवचनकायसम्बन्धिन उपधानंतपोविशेष एतद्वयमपि मुनीना मिवोक्तमस्ति श्राद्धनामुपधानोद्वाहनं तु महानिशीथा-क्षरप्रामा ण्यादेवेति (186 प्रश्न०) अथपण्डित काहर्षिगणिकृतप्रश्नास्तदुतराणि चयथा उपधानवाहिश्राद्धश्राद्धीनां कल्पदिनपञ्चकमध्ये उत्तरितुंकल्पते न वेति प्रश्नः / अत्रोत्तरम् महत्कारणं विना उत्तरितुंन कल्पते यदि च तथाविधकारणे उत्तरति तदारम्भवजनं करोतीति (206 प्रश्न०) तथोपधानाऽवाहिनां पञ्चमङ्गलमहाश्रुतस्कन्धपाठेऽविनायामनन्तसंसारावाप्तिः फलं तदाश्रित्य किमादिश्यते इति प्रश्नः / अत्रोत्तरम् उपधानावहनेऽनन्तसंसारिता महानिशीये उक्ता परं तत्सूत्रमुत्सर्गतया श्रितं तेनयोनास्तिकस्सन्नुपपधानंवोढुनिरपेक्षस्तस्य सेति ज्ञेयम् (337 प्रश्न०) तथा अष्टाविंशतिदिनोपधाने पञ्चत्रिंशदिनोपधाने चमूलविधिना वहमाने कति दिनानि भवन्ति तथा तदुपधानद्वयात्कतिदिनेषु न्यूनेषूत्तार्यते इति प्रश्नः / अत्रोत्तरम् मूलविधिना तवये वहमाने दिनन्यूनाधिक्यं ज्ञात नास्ति तथा तदुपधाने न्यूनदिनेषु महत्कारणे सपूण्ण तपसि जाते उत्तारवन्ता दृश्यन्त परं दिनसंख्या ज्ञाता नास्तीति (४४१प्रश्न०) तथा कोऽप्युपधानचतुष्कमुद्बाह्य मालां परिदधाति तस्य समुद्देशानुज्ञावस्थायामवशिष्टोपधानयो म गृह्यते नवेति प्रश्नः / अत्रोत्तरम् षण्णामप्युपधानानां समुद्देशानुज्ञयोमिगृह्यते द्वयोरुद्देशस्य च पुरतोऽपि भवने न दोष इति वृद्धसंप्रदायः (418 प्रश्न०) तथोपधानतपसि पूर्णे जाते शेषप्रवेदनेषु दिनवृद्धिर्भवति नवेति प्रश्नः। अत्रोत्तरम् उपधानशेषप्रवेदनेषु दिनवृद्धिर्भवति (426 प्रश्न०) तथोपधाने पालीपरावर्तनं शुद्ध्यति न वेति प्रश्नः / अत्रोत्तरम् तथाविधप्रकारेण तत्प्रख्यानं शुद्ध्यति (श्येन०३उल्ला०४२८प्रश्न०) तथोपधानवाचनाऽन्तर्गृहीतुं विस्मृता सा सायं क्रियाकरणानन्तरं गृह्यतेऽथवा द्वितीयदिने यदि द्वितीयदिनेतदास वासरः कस्यां वाचनायां गण्यते इति प्रश्नः / अत्रोत्तरं प्रातरुपधानवाचना लातुं विस्मृता सा संध्यायां क्रियाकरणादर्वाग् गृह्यते तथाऽपि यदि स्मृता तदा द्वितीयेऽहि प्रवेदनादगि गृह्यते स वासरस्त्वग्रेतनवाचनामध्ये गण्यत इति। श्येन० 4 उल्ला० 126 प्रश्न उवहाणपडिमा स्त्री० (उपधानप्रतिमा) उपधानं तपस्तद्विषया प्रतिमा। प्रतिमाभेदे, स्था०२ ठा० तपोविषयेऽभिग्रहे, औ०।उवहाणवं पुं० (उपधानवत्) उपधानं तपस्तद्विद्यते यस्याऽसौ उपधानवान् / तपोनिष्टप्तदेहे, उपधीयते उपष्टभ्यते श्रुतमनेनेति उपधानम् / श्रुतविषयोपचारवति, सूत्र०१ श्रु०७ अ० / स्था० / उपधानमङ्गोपागादीनां सिद्धान्तानां पाठनाराधनार्थमाचाम्लोप-वासनिर्विकृत्यादिलक्षणं तपोविशेषः स विद्यते यस्स स उपधानवान् / सिद्धान्ताराधनतपोयुक्ते, “वसे गुरुकुले णिचं, जोगवं उवहाणवं। पियंकारे पियंवाई, स सिक्खं लद्भुमरहई" उत्त०११अ01 सूत्र०॥ उवहाणवीरिय पुं० (उपधानवीर्य्य) उपधानंतपस्तत्यथाशक्त्या वीर्यं यस्य स भवत्युपधानवीर्यः / सूत्र०१ श्रु०११ अ० / तपस्यनिगूहितबलवीर्ये , “धम्मट्ठीउवहाणवीरिए" सूत्र०१ श्रु०२ अ० २उ०। उवहाणसुयन० (उपधानश्रुत) महावीरासेवितस्योपधानस्य तपसः प्रतिपादकं श्रुतं ग्रन्थः उपधानश्रुतम् / अष्टभे नवमे वा आचाराङ्गस्य ब्रह्मचर्याध्ययने, स्था०६ ठा०प्रश्नाआव० स० अथोपधानश्रुतस्य प्रतिपाद्यं महावीरस्वामिकृतं तप उपदर्श्यते। अहासुयं वदिस्सामि जहा से समणे भगवं उट्ठाय संखाए तेसिं हेमंते अहुणा पव्वइए रीइच्छा णो चेविमेण वत्थेण पिहिस्सामि तंसि हेमंते से पारए आवकहाए एवं खु आणुधम्मियं तस्स ||1|| (अहासुयं वदिस्सामीत्यादि) आर्यः सुधर्मस्वामी जम्बूस्वामिने पृष्टत्वात् कथयति यथाश्रुतं यथासूत्रंवा वदिप्यामि तद्यथा असौ श्रमणो भगवान् वीरवर्द्धमानस्वाम्युत्थायोद्यतविहारं प्रतिपद्य सर्वालंकारं परित्यज्य पञ्चमुष्टिकं लोचं विधायैकेन देवदूष्येणेन्द्रक्षिप्तेन युक्तः कृतसामायिकप्रतिज्ञः आविर्भूतमनःपर्यायज्ञानाष्टप्रकारकर्मक्षयार्थ तोर्थप्रवर्तनाथ वोत्थाय संख्याय ज्ञात्वा तस्मिन् हेमन्ते मार्गशीर्षदशम्यां प्राचीनगामिन्यां छायायां प्रव्रज्या ग्रहणसमनन्तरमेवरीयतेस्म विजहार। तथा च किल कुण्डग्रामान्मुहूर्ते शेषे दिवसे कूरिग्राममाप। तत्रच