________________ उवसमणा 1070- अभिधानराजेन्द्रः - भाग 2 उवसमणा स्वामिनः सर्वतिर्यञ्च एकद्वित्रिचतुः पञ्चेन्द्रियभेदभिन्नाः सर्वे नारकाः सर्वे देवाः सर्वे मनुष्यास्तेच मनुष्यास्तावद्यावदपूर्वकरणान्तसमय इति एषा चैव देशोपशमना सर्वेषामपि कर्मणामवगन्तव्या न मोहनीयस्यैव केवलस्य। स्वामिविषयमेकं च विशेषमाह। खवगो उवसमगो वा, पढमकसायाण दंसणतिगस्स। देसोवसमगो सुसुअपुटवकरणंतगो जाव।। स देशोपशमनास्वामी देशोपशमकः प्रथमकषायाणां दर्शनत्रिकस्य च क्षपक उपशमको वा तावदवसेयो यावत्स्वस्वापूर्वकरणान्तगः एतदुक्तं भवति। प्रथमकषायाणां विसंयोजनाचतुर्गतिका अपिउपशमका मनुष्याः प्रतिपन्नसर्वविरतेये दर्शनत्रिकस्य क्षपका मनुष्या अविरतसर्वविरता उपशमकाः सर्वविरतास्तावद्देशोपशमनाकारिणो यावत्स्वस्वापूर्वकरणचरमसमयो न परत इति। संप्रति साधादि-प्ररूपणार्थमाह। साइयमाइचउद्धा, देसुवसमणा अणाइमंतीणं। मूलुत्तरपगईणं, साइ अधुवोत्तरपगइयो वा / / अनादिमत्योऽनादिसत्ताकास्तासां देशोपशमना चतुर्द्धा चतुःप्रकारा तद्यथा सादिरनादिधुवा ऽधुवा च / तत्र मूलोत्तरप्रकृतीनामष्टानामपि अपूर्वकरणगुणस्थानकात्परतः सा देशोपशमना न प्रवर्ततेततः प्रतिपाते च भूयोऽपि प्रवर्तते इति सादिस्तत्स्थानमप्राप्तस्य पुनरनादिधुवा अभव्यानां त्वध्रुवा भाविता मूलोत्तरप्रकृतीनां साद्यादिरूपतया चतुर्विधा देशोपशमना / संप्रत्युत्तरप्रकृतीनामनादिसत्कानां सा भाव्यते तत्र वैक्रियसप्तकाहारकसप्तकमनुष्यद्विकदेवद्विकनारकद्विकसम्यक्तवसम्यग्मिथ्यात्वोचैर्गोत्ररूपोद्वलनयोर्गात्रयोविंशतितीर्थकराश्चतुष्टयवर्जाः शेषास्त्रिंशदुत्तरर्शतसंख्याः प्रकृतयोऽनादिसत्ताकास्तासां मध्ये मिथ्यात्वानन्तानुबन्धिनां स्वस्वापूर्वकरणात्परतो देशोपशमना नोपजायते शेषकर्मणां त्वपूर्वकरणगुणस्थानकात् परतः स्थानात् च्यवमानस्य भूयोऽपि जायते इति सादिस्तत्स्थानमप्राप्तस्य पुनरनादिधुवाऽध्रुवा अभव्यभव्यापेक्षया यास्त्वध्रुवा अध्रुवसत्ताकाः प्रकृतयोऽनन्तरोक्ता अष्टविंशतिसंख्याकास्ता देशोपशमनामधिकृत्य साद्यधुवास्तासां देशोपशमना सादिरध्रुवा चेत्यर्थः / साद्यधुवता अधुवसत्तावदेव समवसेया। संप्रति प्रकृतिस्थानानां साद्यादिप्ररूपणार्थमाह। गोयाउयाणं दोण्हं, चउत्थछट्ठाण होइ सत्तण्हं। साइयमाइ चउद्धा, सेसाणं एगठाणस्स।। इह गोत्रस्य देशोपशमनामधिकृत्य द्वे प्रकृतिस्थाने तद्यथा द्वे एका च तत्रानुद्ववलितोच्चैर्गोत्रस्य द्वे उदलितोचैर्गोत्रस्यैका तथा आयुषोऽपि द्वे प्रकृतिस्थाने तद्यथा द्वे प्रकृती एका च। तत्र अबद्धपरभवायुष्कस्य एका बद्धपरभवायुषो द्वेएतेषां च चतुर्णामपिस्थानानां देशोपशमना सादिरध्रुवा च स्थानानामपि स्वयं साद्यधुवत्वात् तथा “चउत्थछट्ठाण होइ सतण्हमिति" तत्र यथासंख्येन पदयोजना तत्र चतुर्थं मोहनीयं तस्य देशोपशमनायोग्यानि षट् प्रकृतिस्थानानि तद्यथा एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिश्च शेषाणि पुनरनिवृत्तिवादरसंपराये प्राप्यन्ते इति देशोपशमनायोग्यानि भवन्ति। तत्राष्टाविंशतिस्थानं मिथ्यादृष्टिसासादनसम्यग्दृष्टिवेदकसम्यग्दृष्टीनां | प्राप्यते सप्तविंशतिस्थानमुद्वलितसम्यक्तवस्य सम्यग्मिथ्यादृष्टा षड्विंशतिस्थानमुदलितसम्यक्सम्यग्मिथ्यात्वस्यानादिमिथ्यादृष्टी पञ्चविंशतिस्थानंषड्वंशतिसत्कर्मणो मिथ्यादृष्टे : सम्यक्तवमुत्पादतोऽपूर्वकरणात्परतो वेदितव्यं तस्या मिथ्यात्वदेशोपशमनाया अभावात् तथा अनन्तानुबन्धिनामुबलनेऽपूर्वकरणात्परतो वर्तमानस्य चतुर्विशतिस्थानं चतुर्विंशतिसत्कर्मणो वा चतुर्विंशतिस्थानं क्षेपिसप्तकस्य एकविंशतिस्थानम् अत्र षड्विंशतिलक्षणस्थानं मुक्तवा शेषाणां पञ्चानामपि स्थानानां देशोपशमना साद्यध्रुवस्थानानामपि स्वयंकादाचित्कत्वात् षड्वंशतिस्थानस्य चतुर्दा तद्यथा सादिरनादिधुंवा अधुवा च / तत्रोदलितसम्यक्तवसम्यग्मिथ्यात्वस्य सादिरनादिमिथ्यादृष्टेरनादिधुंवा अभव्यानां भव्यानान्त्वध्रुवा तथा षष्ठानामनन्तस्य देशोपशमनायोग्यानि सप्त स्थानानितद्यथा त्र्युत्तरशतं व्युत्तरशतं षण्णवतिः पञ्चनवतिः त्रिनवतिः चतुरशीतिळशीतिश्च तत्रादिमानि चत्वारि स्थानानि यावदपूर्वकरणगुणस्थानकचरमसमयस्तावद्वेदितव्यानि न परतः शेषाणि च त्रीणि त्रिनवतिचतुरशीतिद्व्यशीतिरूपाणि एकेन्द्रियादीनां भवन्तिन श्रेणिप्रतिपद्यमानानां शेषाणितु स्थानानि अपूर्वकरणगुणस्थानकात्परतो लभ्यानि नार्वागिति न देशोपशमनायोग्यानि एतेष्वपि च स्थानेषु देशोपशमना साद्यधुवस्थानानामपिस्वयमनित्यत्वात् शेषाणां तु ज्ञानावरणदर्शनावरणवेदनान्तरायाणां देशोपशमनामधिकृत्यै कै कं प्रकृतिस्थानम् / तत्र ज्ञानावरणस्यान्तरायस्य च प्रत्येकं पञ्चप्रकृत्यात्मकं स्थानं दर्शनावरणस्य नवप्रकृत्यात्मकं तृतीयस्य द्विप्रकृत्यात्मकम् / एषां च देशोपशमना साद्यादिभेदाचतुर्दा चतुःप्रकारा तद्यथा सादिरनादिधुंवा अध्रुवा च / “साइयमाइचउद्धा सेसाणं एगठाणस्य" तत्रापूर्वकरणगुणस्थानकात्परतो न भवत्युपश्रेणिस्ततः शमप्रतिपाते च भूयोऽपि भवति ततः सादिस्तत्स्थानमप्राप्तस्य पुनरनादिः / धुवाऽधुवा च भव्याभव्यापेक्षया / उक्ता प्रकृतिदेशोपशमना। संप्रति स्थितिदेशोपशमनामाह। उवसामणा ठिईओ, उक्कोसा संकमेण तुल्लाओ। इयरा वि किं तु अभवे, उव्वलगे अपुष्वकरणेसु / / स्थितिदेशोपशमना द्विविधा तद्यथा मूलप्रकृतिविषया उत्तरप्रकृतिविषया च एकैकाऽपि द्विधा तद्यथा उत्कृष्टा जधन्या च तत्र मूलप्रकृतीनामुत्तरप्रकृतीनामुत्कृष्टस्थितिर्देशोपशमना संक्रमेण तुल्या किमुक्तं भवति यः प्रागुत्कृष्टस्थितिसंक्रमस्वामी प्रतिपादितो यथा चोत्कृष्टस्थितिं संक्रम्य साद्यादिप्ररूपणा तदेतत्सर्वमुत्कृष्टस्थितिदेशोपशमनायामपि वाच्यमितरा स्थितिर्जघन्या स्थितिर्देशोपशमनासंक्रमण तुल्या जघन्यस्थितिः संक्रमतुल्या किंचिदभव्यमायोग्यजघन्यस्थितौ वर्तमानस्य द्रष्टव्या। तस्यैव प्रायः सर्वकर्मणामपि जघन्यायाः स्थितेः प्राप्यमाणत्वात्याश्च प्रकृतयोऽभव्यप्रायोग्यजघन्यस्थितिकाले भवन्ति तासामुद्रलकके अपूर्वकरणे वा जघन्यस्थितिदेशोपशमना वेदितव्या तत्रोद्वलनप्रायोग्याणां प्रकृतीनामन्तिमखण्डे पल्योपमसंख्येयभागमात्रे वर्तमाने तत्राप्याहारकसप्तकसम्यक्तवसम्यग्मिथ्यात्वानामेकेन्द्रियस्य च शेषप्रकृतीनां तूद्वलनयोग्यानां वैक्रि यसप्तकदेवद्विकनारकमनुष्यद्विकोच्चैर्गो त्ररूपाणामेकेन्द्रियस्यैव अन्यासाञ्चापूर्वकरणचरमसमये वर्तमानस्येति।