________________ उवसमणा 1066 - अभिधानराजेन्द्रः - भाग 2 उवसमणा तुल्या क्रियते यथा कश्चित् संज्वलनक्रोधेन उपशमश्रेणिं प्रतिपन्नस्ततः श्रेणिं प्रतिपतत् तदा संज्वलनक्रोधमुदयेन प्राप्तवान्भवति ततः प्रभृतितः स्वगुणश्रेणिशेषकर्मभिः समाना भवति एवं मानमाययोरपि वाच्यं संज्वलनलोभेन पुनरुपशमश्रेणिं प्रतिपन्नस्य प्रतिपत्तिकाले प्रथमसमयादारभ्य संज्वलनलोभस्य गुणश्रेणिभिः सह तुल्या प्रवर्तते शेषकर्मणां तु यदारोहत उक्तं तदेव प्रतिपततोऽप्यन्यूनातिरिक्तं वेदितव्यम्। खवगुवसमगम्मि एव्व, ठाणे दुगुणो तहिं बंधे। अणुभागो णंतगुणो, अनुभागे सुभाण विवरीओ // क्षपकस्य क्षपक श्रेणिमारोहतो यस्मिन् स्थाने यावान् स्थितिबन्धस्तस्मिन्नेव स्थाने उपशमश्रेणिमारोहतस्तावान् स्थितिबन्धो द्विगुणो भवति ततोऽपि तस्मिन्नेवस्थाने उपशमश्रेणितः प्रतिपततो द्विगुणो भवति क्षपकसत्कस्थितिबन्धापेक्षया चतुर्गुणो भवतीत्यर्थः / तथा क्षपकस्य यस्मिन् स्थाने अशुभप्रकृतीनां यावान् अनुभागो भवति तदपेक्षया तस्मिन् स्थाने तासामेव शुभप्रकृतीनामुपशमश्रेणीतः प्रतिपतितोऽनन्तगुणः (सुभाण विवरिओत्ति) शुभानां पुनरनुभागो विपरीतो वाच्यः स चैव उपशमश्रेणीतः प्रतिपतितो यस्मिन्स्थाने शुभप्रकृतीमां यावाननुभागो भवति तदपेक्षया तस्मिन्स्थाने तासामेव शुभप्रकृतीनामुपशमकस्यानुभागोऽनन्तगुणस्ततोऽपि तस्मिन्नेव स्थाने तासामेव शुभप्रकृतीनां क्षपकस्यानन्तगुणः। परिवाडीए पडिओ, पमत्तइयरत्तणे बहुति किच्चा। देसजई सम्मो वा, सासणभावं वए कोई।। यथा परिपाट्या श्रेणिमारूढस्तथा परिपाट्या पतितः सन् तावदधो गच्छति यावत् प्रमत्तसंयतगुणस्थानकं ततः प्रमत्तत्वात्प्रमत्तत्वे बहून्वारान् कृत्वा कश्चित् देशयतिर्भवति कोऽप्यविरतसम्यग्दृष्टिा येषां मतेनानन्तानुबन्धेनानुपशमना न भवति तेषां मतेन कश्चित् सासादनमपि व्रजति / / उवसमसम्मत्तद्धा, अंतो आउक्खया धुवं देवो। जेण तिसु आउगेसु, बद्धेसु सा सेढिमारहइ॥ औपशमिकसम्यक्त्वाद्धायां वर्तमानो यदि कश्चिदायुः क्षयात्कालं करोति तर्हि ध्रुवमवश्यं देवो भवति येन यस्मात्कारणात् त्रिषु नारकतिर्यग्मनुष्यसंबन्धेष्वायुष्केषु श्रेणिमुपशमश्रेणिं नारोहति किं तु देवायुष्क एव बद्ध ततः कालं कृत्वा देव एव भवतीति॥ सेढीपडिओ समो छड्डावलीसासणे वि देवेसु / एगभवे दुक्खुत्तो, चरित्तमोहं उवसमेजा। यस्मात्कारणात् देवायुर्वर्जेषु शेषेषु त्रिष्वायुःश्रेणिं नारोहति तस्मात्कारणात् श्रेणीतः पतितः सम उत्कर्षतःषडावलिकाकालं जघन्यतः समयमात्रं सासादनो भवति सोऽप्यवश्यं च्युत्वा देवेषु मध्ये समुत्पद्यते तथा एकस्मिन् भवे उत्कर्षतश्चारित्रमोहनीयं द्वौ वारानुपशमयति न तृतीयमपि वारं यस्तु द्वौ वारानुपशमश्रेणिं प्रतिपद्यते स तस्मिन् भवे क्षपकश्रेणिंनप्रतिपद्यते यस्त्वेकवारमुपशमश्रेणिं प्रतिपन्नस्तस्य भवेदपि तस्मिन् भवेक्षपक श्रेणिः / एवं कार्मग्रन्थिकाभिप्रायः। आगमाभिप्रायेण त्वेक स्मिन भवे एकामेव श्रेणिं न तु द्वितीयामपि तदुक्तं “अन्नयरसेदि वजं, एग भवेणेव सव्वाई" / अन्यत्राप्युक्तं मोहोपशम एकस्मिन् भवे स्यादसन्ततः यस्मिन् भवे उवशमक्षयो मोहस्य तत्र नेति एवं पुरुषवेदेनोपशमश्रेणिं प्रतिपन्नस्य विधिणक्तंः / संप्रति स्त्रीवेदेन नपुंसकवेदेन चोपशमश्रेणि प्रतिपद्यमानस्य विधिमाह दुचरिमसमये नियणा, वेयस्स इत्थी नपुंसगो ण्णंण्णं / समइत्तु सत्त पच्छा, किं तु नपुंसो कमारद्धे / / स्त्री नपुंसकस्य वेदेन सहान्योन्यं परस्परं वेदमुपशमयति किमुक्त भवति स्त्री स्त्रीवेदमुपशमयति नपुंसकवेद च नपुंसको नपुंसकवेदमुपशमयति स्त्रीवेदं चेति किं तु नपुंसकगते सति पूर्वक्रमेणारब्धे सत्युक्तप्रकारेणोपशमयति इह चोपशमनकरणे स्त्रिया नपुंसकस्य च निजकोदयस्य स्ववेदोदयस्य द्विचरमसमये एकेन्द्रियस्थितिं मुक्तवा शेष सर्वमुपशातमित्थंच शमयित्वा स्त्री नपुंसको वा पश्चात्स पुरुषवेदादिकाः प्रकृतीरुपशमयति। इयमत्र भावना इह स्त्री उपशमश्रेणिं प्रतिपन्ना सती प्रथमतो नपुंसकवेदमुपशमयति पश्चात् स्त्रीवेदं तच्च तावदुपशमयति यावत्स्वोदयस्य द्विचरमसमयस्तस्मिश्च निजकोदयस्य द्विचरमसमये एका चरमसमयमात्रामुदयस्थितिं च वर्जयित्वा शेषं सकलमपि स्त्रीवेदसत्कं दलिकमुपशमितं ततश्चरमसमये गते सति अवेदके सति पुरुषवेदहास्यादिषट्करूपाः सप्तप्रकृतीयुगपदुशमयि-तुमारभते शेषं पुरुषवेदेन च श्रेणिं प्रतिपन्नस्य द्रष्टव्यं तदा स्त्री वेदेन पुरुषवेदेन वा उपशमश्रेणिं प्रतिपद्यमानो यस्मिन् स्थाने नपुंसकवेदमुप-शमयति तद्दूर यावन्नपुंसकवेदेन श्रेणिं प्रतिपन्नः सन् नपुंसकवेदमेव समुपशमयतितत उर्द्ध नपुंसक वेदं युगपदुपशमयितुं लग्नः स च तावद्गतो यावन्नपुंसकवेदोदयो / द्विचरमसमयः तस्मिश्च स्त्रीवेद उपशान्तः नपुंसकवेदस्य च एका उदयमात्रा उदयमात्रस्थितिवर्तते शेषं सर्वमप्युपशान्तं तस्यामप्युदयस्थितावतिक्रान्तायामवेदको भवति ततः पुरुषवेदादिकाः सप्त प्रकृतीयुगपदुपशमयतीति। तदेवमुक्ता सर्वोपशमना। संप्रति देशोपशमनामभिधातुकाम आह। मुलुत्तरकम्माणं, पगइठिइयाइ होइ चउभेया। देसकरणेहिं देसं, समइ जं देसुमण्णातो / / देशोपशमना मूलकर्मणां मूलप्रकृतीनामुत्तरकर्मणामुत्तरप्रकृतीनां प्रत्येकं प्रकृति स्थित्यादिका प्रकृतिस्थित्यनुभागप्रदेशविषया चतुर्भेदा चतुर्विधा भवति इयमत्र भावना / देशोपशमना द्विधा तद्यथा मूलप्रकृतिविषया उत्तरप्रकृतिविषया च, एकैकाऽपि चतुर्भेदा तद्यथा प्रकृतिदेशोपशमना स्थितिदेशोपशमना अनुभागदेशोपशमना प्रदेशोपशमना च। अथ कस्माद्देशोपशमनेत्यभिधीयते अत आह। यत् यस्मात्कारणात् एकदेशभूताभ्यां यथाप्रवृत्तापूर्वकरणसंज्ञिताभ्यां करणाभ्यां प्रकृतिस्थित्यादीनां देशैकदेशं शमयत्यतो देशोपशमनाऽ-- भिधीयते देशभूताभ्यां करणाभ्यामुपशाम्यतीति देशोपशमना। यदि वा देशस्य प्रकृत्यादीनामेकदेशस्योपशमना देशोपशमनेति व्युत्पत्तेः / / संप्रत्यस्यावयवतात्पर्यविश्रान्तिमाह।। उवसमियस्सुव्वट्टणसंकमकरणाइं हों ति नन्नाई। देसोवसामिय जम्हा, पुव्वो सव्वकम्माणं // देशोपशमनया उपशमितस्य कर्मण उद्वर्तनसंक्र मलक्षणानि भवन्ति नान्यानि करणान्युदीरणाप्रवृत्तीनि एष देशोपशमनायाः सर्वोपशमनातो विशेषः / अनया वा देशोपशमनया मूलप्रकृतिमुत्तरप्रकृति वा उपशमयितुं प्रभुस्तावदवसेयो यावत् पूर्वः पूर्वकरणस्थानकचरमसमयः / इयमत्र भावना अस्या देशोपशमनायाः