________________ उवसमणा 1058 - अभिधानराजेन्द्रः - भाग 2 उवसमणा 10000000000000012 800000000000020 40000000000018 1000000000-- पूर्वकरण 30000000014 2000000012 1000006 00019 005 एतदेवाह॥ पइसमयअणतगुणा, सोही उड्डामुही तिरिट्टाउ। छेदाणि य जीवाणं, तइए उङ्गामुहा उक्का। त्रयाणामपि करणानां प्रतिसमयमूर्द्धमुखा सिद्धिरनन्तगुणा वेदितव्या तद्यथा प्रथमसमशुद्ध्यपेक्षया द्वितीयसमये शुद्धिरनन्तगुणा ततोऽपि तृतीयसमये अनन्तगुणा एवं यावदनिवृत्तिकरणचरम समय आद्यद्वयोः शुद्धयोः करणयास्तियङ्मुखाशुद्धिः षट्स्थाना षट्स्थानपतिता यद्यथा प्रथमसमयगता शुद्धिः षट्स्थानविशिष्टा द्वितीयस्थानगता विशिष्टा एवं यावदपूर्वकरणचरमसमयः तृतीयविनिवृत्तिकरणे प्रतिसमयं सकलजीवापेक्षयाऽप्येकमेवाभ्यवसायस्थानम् / तथाहि अनिवृत्तिकरणस्य प्रथमसमये वर्तन्ते ये च प्रवृत्ताः ये च वर्तिष्यन्ते तेषां सर्वेषामप्येकमेवाध्यवसायस्थानं द्वितीयसमयेऽपि वर्तन्ते ये प्रवृत्तायेच वर्तिष्यन्ते तेषामपि सर्वेषामे कमेवाध्यवसायस्थान के वलं प्रथमसमयभाविविशोधिस्थानापेक्षयाअनन्तगुणविशुद्धम् एवं तावद्वाच्य यावत्तस्यानिव्रत्तिकरणस्य च चरमसमयस्ततस्तृतीये करणे एकैकशोधिरूढ़मुखरूपान द्वितीय तिर्यमुखा तत्र यथा प्रवृत्तिकरण एव / विशोधिविधितारतम्यमुपदर्शयन्नाह / / गंतुं संखेशंस, अहापवत्तस्स हीण जा सोही। तीए य पढमसमये, अनंतगुणिया उ उक्कोसा / / यथा प्रवृत्तिकरणस्य संख्येयं भागं गत्वाऽन्तरसमये या जघन्या शुद्धिस्तस्याः सकाशात्प्रथमे समये उत्कृष्टा विशोधिरनन्तगुणा। इयमत्र भावना यथाप्रवृत्तिकरणस्य प्रथमसमये या सर्वजघन्या विशोधिः सा सर्वस्तोका ततो द्वितीये समये जघन्या विशोधिरनन्तगुणा एवं तावद्वाच्य यावत् यथाप्रवृत्तिकरणस्य संख्येयो भागो गतो भवति ततः प्रथमसमये उत्कृष्टा विशोधिरनन्तगुणा ततो यतो जघन्यस्थानानिवृत्त स्तस्योपरित ना जघन्या विशोधिरनन्तगुणा ततोऽपि द्वितीयसमये उत्कृष्टा विशोधिरनन्तगुणा तत उपरिजघन्या विशोधिरनन्तगुणा एवमुपर्यधश्च एकै का विशोधिरनन्तगुणा तावद्वाच्या यावच्चरमसमये जधन्या विशोधिः / तथा चाह। एवं एकतरिया, हेटुवरि जाव हीणपजंते। तत्तो उन्कोसाओ, उवरिवरिं होयणंतगुणा / / एवं पूर्वोक्तप्रकारेण संख्येयभागात्परत आरभ्य अध उपरि च एकान्तरिता विशोधिरनन्तगुणा तावद्वाच्या यावद्धीनपर्यन्ता जघन्यविशोधिपर्यवसानं पल्योपमसंख्येयभागमात्राश्चोत्कृष्टा विशुद्धयोऽद्याप्यनुत्तराः सन्ति ततस्ताः उपरि उपरि अनन्तगुणा वक्तव्याः तदेवमुक्तं यथाप्रवृत्तिकरणम्। संप्रत्यपूर्वकरणस्य स्वरूपमाविश्चिकीर्षुराह। जा उक्कोसा पढमे,तीसेणंता जहन्निया वाए। करणा तीए जेट्ठा, एवं जा सव्वकरणं पि॥ प्रथमे यथाप्रवृत्तकरणे चरमसमये या उत्कृष्टा विशोधिस्तस्याः सकाशात् द्वितीय पूर्वाख्ये करणे प्रथमे समये जधन्या विशोधिरनन्तगुणा तस्या अपि सकाशात् प्रथमसमये एव ज्येष्टा उत्कृष्टा विशोधिरनन्तगुणा ततो द्वितीये समये जघन्या विशोधिरनन्तगुणा / ततोऽपि तस्मिन्नेव तृतीये समये उत्कृष्टा विशोधिरनन्तगुणा। ततोऽपि द्वितीये जघन्या विशोधिरनन्तगुणा। ततो अपि तस्मिन्नेव तृतीये समये उत्कृष्टा विशोधिरनन्तगुणा / एवं प्रतिसमयं तावद्वाच्यं यावत्सकलमपि करणं परिसमाप्यते। अपुष्वयकरणसमयं, कुणइ अपुग्वे इमे च चत्तारि। ठिइघायं रसघायं, गुणसेढी बंधगद्धा य॥ अपूर्वकरणेन समकं तस्मिन्नेव समये अपूर्वकरणे प्रविशति तस्मादेव समयादारभ्येत्यर्थः / इमान्वक्ष्यमाणंश्चतुरः पदार्थान् अपूर्वान् करोति अतीते कालेन कदाचनापि पूर्वं कृताः। ततो नवा स्थितिघातं रसघात गुणश्रेणिबद्धकार्द्ध च। तत्र प्रथमतः स्थितिवतः स्वरूपव्यावर्णनायाह। उकोसेणं बहुसा-गराणि इयरेण पल्लसंखेयं / ठियअग्गायो घायइ, इंतमुहुत्तेण ठिइखर्ड | स्थितिसत्कर्मणोऽग्रिमभागादुत्कर्षेण प्रभूतानि सागरोपमाणि प्रभूतसागरोपमप्रमाणमितरेण जघन्येन पल्योपमासंख्येयभागमा त्रत्रिखण्डमन्तर्मुहूर्तेन कालेन घातयति घातयित्वा च दलिकं याः स्थितीरधो न खण्डयिष्यति तत्र प्रक्षिपति ततः पुनरपि अधस्तात् पल्योपमासंख्येयभागमात्रस्थितिखण्डमन्तर्मुहूर्तेन कालेनघातयन् प्रागुक्तप्रकारेणैव च निक्षिपति एवमपूर्वकरणाद्धायाः प्रभूतानि स्थितिखण्डसहस्राणि व्यतिक्रामन्ति तथा च सति अपूर्वकरणस्य प्रथमे समये यस्थितिसत्कर्मासीत्तत्तस्यैव चरमसमये संख्येयगुणहीनंजातं तदेवमुक्तः स्थितिघातः। संप्रति रसघातप्रतिपादनार्थमाह। असुभाणं तं मुहुत्तेण, हणइ रसं कंडगं अणंतंसं / करणो ठिइखंडाणं, तम्मि उ रसकंडगसहस्सा / / स्थितिखण्डानां करणे उत्किरणे प्रवृत्तः सन् अशुभा वा प्रकृतीनां रसकण्डकमनुभागकण्डकमनन्तानन्तविभागात्मकमन्तमुहूर्ते न विनाशयति किमुक्तं भवति अशुभप्रकृतीनां यत् अनुभागसत्कर्म तस्यानन्तानुभागान् मुक्तवा शेषान् अनुभागभागान् सर्वानप्यन्तर्मुहूर्तेन कालेन विनाशयित ततः पुनरपि तस्य प्रागुक्तस्यानन्ततमस्य भागस्यानन्ततमं भागं मुक्तवा शेषान अनुभागभागान सर्वानन्तर्महर्तेन कालेन विनाशयनि एवमनेकानि अनुभागखण्डसहस्राणि एकैककस्मिन् स्थितिखण्ड़े व्यतिक्रामन्ति तथा चाह (तम्मि उ रसकंडगसहस्सा) तस्मिन् स्थितिखण्डे एकैकस्मिन् रसकण्डगसहस्राणि गच्छन्ति स्थितिखण्डानां च सहस्रैरपूर्वकरणे परिसमाप्यते तदेवमुक्तो रसधातः। सप्प्रति गुणणेणिमाह। घाइयट्टिईदलियघेत्तुं, घेत्तुं असंखगुणणाए। साहियदुकरणकालं, उदयाओ एइ गुणसेटिं। घातितायाः स्थितिः शुभध्यानदलिकं गृहीत्वा उदयसमयादारभ्य प्रतिसमयसंख्येयगुणवृद्ध्या क्षपयति यद्यथा उदयसमये स्तो कं द्वितीयसमये असंख्ये यगुणं ततोऽपि तृतीये समये असंख्येयगुणम् / एवं तावद्वक्तव्यं यावत्साधिककरणद्वयकालो मनाक्