________________ उवसमणा 1057 - अभिधानराजेन्द्रः - भाग 2 उवसमणा इह द्विधा उपशमना तद्यथा देशोपशमना सर्वोपशमना च / तत्र देशोपशमना सर्वेषामपि कर्मणां भवति। सर्वोपशमनातु मोहे मोनीयस्यैय देशोपशमनायाश्चामून्ये कार्थिकानि तद्यथा देशोपशमना अनुदयोपशमना अगुणोपशमना अप्रशस्तोपशमना च। सर्वोपशमनायास्त्वमूनि तद्यथा सर्वोपशमना उदयोपशमना गुणोपशमना प्रशस्तोपशमना च / तत्र देशोपशमना द्विध कारणकृता कारणरहिता च / सर्वोपशमना तु कारणवृत्तव कारणानि यथाप्रवृत्तापूर्वानिवृत्तिसंज्ञानि तैः कृता तद्विपरीता कारणरहिता या संसारिणां जीवानां गिरिनदीपाषाणवृत्ततादिसम्भवयन् यथा-प्रवृत्तादिकारणासाध्याक्रियाविशेषमन्तरेणापि वेदनानुभवनादिभिः कारणैरुपजायते। तस्याश्च संप्रत्यनुयोगव्यवच्छित्तिस्ते द्वे नृणामभावात् ततोऽप्रशस्ता च या करणोपशमना तयोरधिकारः प्रथमतः सर्वोपशमना वाच्या तत्र चैतेऽर्थाधिकारास्तद्यथा सम्यक्तवोत्पादप्ररूपणा देशविरतिलाभप्ररूपणा सर्व विरतिलाभप्ररूपणा अनन्तानुबन्धे विसंयोजना दर्शनमोहनीयक्षपणा दर्शन मोहनीयोपशमना चरित्रमोहनीयोपशमा च। पं०सं० तत्रादौ सम्यक्त्वोत्पादप्ररूपणर्थमाह / सव्वुवसमणा मोहस्सेव, तस्स सव्वुवसमक्कियाजोग्गो। पंचिंदिओवसन्ना, पञ्जत्तो लद्धितिगजुत्तो॥३१६|| पुव्वं पि विसुझंतो, गंठिअसत्ताण इक्कमिय सोहि। अन्नयरे सागारो, जोगे य विसुद्धिलेसासु // 317 / / ठिइसत्तकम्पअत्तो, कोडी कोडी करेत्तु सत्तण्हं / दुट्ठाणचउहाणे, असुभसुभाणंच अणुभागं // 318|| बंधंतो धुवपगडी, भवपाउग्गा सुभ अणाओ य। जोगवसायएसंको, उक्कोसं मज्झिमजहण्हं // 316 / / ठिई य बंधवद्धा पूरे, नवबंधपल्लसंखभागूणं। असुभाणसुभाणुभागं अणंतगुणहाणिवड्डीहिं / / 120|| करणं अहापवत्तं, अपुय्वकरणमनियट्टिकरणं च / अंतोमुहूत्तयाई, उवसंतद्धं चउहिं कमेण / 321 / इह सर्वोपशमना मोहस्यैव मोहनीयस्यैव शेषाणां तु कर्मणां देशोपशमना तत्रतस्य मोहनीयस्य सर्वोपशमनाक्रियायोग्यः पञ्चेन्द्रियः संज्ञी सर्वाभिः पर्याप्तिभिः पर्याप्त इत्येवं लब्धित्रिकयुक्तः पञ्चेन्द्रिय-त्वसंज्ञित्वपर्याप्तित्वरूपाभिस्तिसृभिः लब्धिभिर्युक्तः अथवा उपशमलब्ध्युपशमश्रेणिश्रवणलब्धिकरणत्रयहेतुप्रकृष्ट योगलब्धिरूपत्रिक युक्तः करणकालात् पूर्वमपि अन्तर्मुहूर्त्तकालं यावत् प्रतिसमयमनन्तगुणवृद्ध्यादिभिर्विशुध्यमानोऽवदायमानचित्तसन्ततिः ग्रन्थकसत्वानाभव्यसिद्धकानां या विशोधिस्तामतिक्रम्य वर्तमानः ततोऽनन्तगुणविशुद्ध इत्यर्थः / तथा अन्यतरस्मिन् मतिश्रुतज्ञानावरणविभङ्गज्ञानानामन्यतरस्मिन् साकारे साकारोपयोगे वाऽन्यतरस्मिन् मनोयोगे वाग्योगे काययोगे वा वर्तमानस्तिसृणां विशुद्धानां लेश्यानामन्यतमस्या लेश्यायां जघन्येन तेजोलेश्यायां मध्यमपरिणामेन पद्मलेश्यायामुत्कृष्टपरिणामेन शुक्ललेश्यायां वर्तमानो जघन्येन तेजोलेश्या तथा आयुर्वजनिां सप्तानां कर्मणां स्थितिवंतः सागरोपमकोटाकोटीप्रमाणां कृत्वा अशुभानां कर्मणामनुभागं चतुःस्थानकं द्विस्थानकं करोति शुभानां च कर्मणां द्विस्थानकं सततं चतुःस्थानकं करोति ध्रुवतया प्रकृती: पञ्चविधज्ञानावरणनवविधदर्शनावरणमिथ्यात्यषोडशकषायभयजुगुप्सातैजसकार्मणवर्णगन्धरसस्पर्शा:गुरुलधूपघातिनिर्माण पञ्चविधान्तरायरूपाः सप्तचत्वारिंशत्संख्या बध्नन् परावर्तमानाः स्वस्वभावप्रायोग्याः प्रकृतिः शुभा एव बध्नाति ता अप्यायुर्वर्जाः अतीव विशुद्धिपरिणामो हि नायुर्बन्धमारभत इति कृत्वा तद्वर्जनं भवप्रायोग्या इति वचनाचैतदगन्तव्यम् ! यदुत तिर्यङ्मनुष्यो वा प्रथमसम्यक्त्वमुत्पादयन् देवगतिप्रायोग्याःशुभाः प्रकृतीर्देवगतिदेवानुपूर्वीपञ्चेन्द्रियजातिवैक्रियशरीरवैक्रियाङ्गोपाङ्गसमचतुरस्रसंस्थानपराघातोच्छ्वास-प्रशस्तविहायोगतित्रसादिदशकसातवेदनीयोचैर्गोत्ररूपा एकविंशतिसंख्या बध्नातिदेवो नेरयिको वा प्रथम समये सम्यक्तवमुत्पादयन् मनुजगतौ प्रायोग्या मनुजगतिमनुजानुपूर्वीपञ्चेन्द्रियजातिसमचतुरस्रसंस्थानप्रथमसंहननौदारिकशरीरौदारिकाङ्गोपाङ्ग पराघातोच्छवासप्रशस्तविहायोगतित्रसादिदशक सातवेदनियोचैो त्ररूपा द्वाविंशतिसंख्या न बध्नाति के वलं यदि सप्तमनरकपृथ्वीनारकः प्रथमस्य सम्यक्त्वमुत्पादयति ततः तिर्यग्गतितिर्यगानुपूर्वीनीचैर्गोत्राणि वक्तव्यानि शेषं तदेव तथा बध्यमानप्रकृतीनां स्थिति बध्नाति अन्तः सागरो-पमकोटाकोटीप्रमाणामेव नाधिका योगवशाच प्रदेशाग्रमुत्क्रष्टमध्यमजघन्यं च बध्नाति तथा हि जघन्ययोगे वर्तमानो जघन्यं प्रदेशाअं बन्धाति मध्यमे मध्यममुत्कृष्ट तूत्कृष्टमिति। स्थितिबन्धेऽपि चूर्णे सत्यन्यं स्थितिबन्ध प्राक्तनस्थितिबन्धापेक्षया पल्योपमं संख्येयभागन्यूनं करोति तस्मिन्नपि च परिपूर्णे सति अन्य स्थितिबन्धं पल्पोपमासंख्येयभागन्यूनं करोति एवमन्यमन्यं स्थितिबन्धपूर्वपूपिक्षया पल्योपमासंख्येभागन्यूनं करोति अशुभानांच प्रकृती नांबध्यमानानामनुभागं द्विकस्थानकं बध्नातितमपि प्रति समयमनन्तगुणहीनं शुभानां चतुःस्थानकं बध्नाति तमपि प्रतिसमयमनन्तगुणवृद्धिमेवमसौ कुर्वन् किं करोति इत्यत आह / करणमित्यादि) करणं यथाप्रवृत्तं करोति ततोऽनिवृत्तिकरणमिति परिणामविशेषकरणं “परिणामोत्तेत्ति" वचनप्रामाण्यात् एतानिच त्रीण्यपि करणानि च प्रत्येकमन्तौ हुर्तिकानि सर्वेषामपि करणानां कालोऽन्तर्मुहूर्तप्रमाणस्ततोऽनेन क्रमेण चतुर्थीमुपशान्ताद्धां लभते साऽपि चान्तर्मुहूर्तिकी / क०प्र०। सम्प्रति करणानामेव स्वरूपमाविश्चिकीर्षुराह / / आइल्लेसुंदोसुं, जहन्न उक्कोसिया भवे सोही। जो पइसमयं अज्झवसाया लोगा असंखेज्जा।। आद्ययोर्द्वयोः करणयोर्यथाप्रवृत्तिनिवृत्त्याख्योर्जघन्या उत्कृष्टा च शुद्धिर्भवति यतो यस्मादाद्यद्वयोः करणयोः प्रतिसमयमध्यवसाया विशोधिरूपा नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेशप्रमाणास्ततः आद्ययोर्द्वयोः करणयोः प्रतिसमयं जघन्या उत्कृष्टा च विशोधिर्भवति / ताश्च विशोधय एवम् / तथा प्रथमसमये विशोधयो नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेशप्रमाणास्ततो द्वितीयसमये विशेषाधिकास्ततोऽपि तृतीये समये विशेषाधिका एवं तावद्वाच्य यावच्चरमसमय एवमपूर्वकरणेऽपि द्रष्टव्यमेते च विशोध्यध्यवसाया यथाप्रवृत्तापूर्वकरणयाः संबन्धिनः स्थाप्यमाना विषमचतुरस्त्र क्षेत्रमावृण्वते तयोरुपरिचानिवृत्तिकरणाध्यवसाया मुक्तावलीसंस्थिता स्थापना।