________________ उवसंपया 1045- अभिधानराजेन्द्रः - भाग 2 उवसंपया श्मिक्यामतीवान्युपपन्न उभयं वा परस्परमन्युपपन्नं ततो यदाऽऽचार्यसंनिहितस्तदा तमापृच्छ्यगच्छति अथासंनिहितः संज्ञाभूम्यादौ गत आचार्यस्तदा एवमेवानापृच्छ्यागच्छति अपरं वा संनिहितसाधु भणति मम वचनेन गुरूणामापृच्छनं निवेदनीयम् "एयविहिमागयंतु" गाहा “एय अपरिणए य" गाहा “एयारिसं विउस्सज्ज"गाहा। इति गाथात्रयमपि गतार्थंभवेत्किंकारणं येन नपृच्छेत्। वितियपदमसंविग्गे, संविम्गे चेव कारणागाठे। नाऊण तस्स भावं, अप्पण भावे अणापुच्छा।। द्वितीयपदमत्रोच्यते / आचार्यादिरसंविग्नो भवेत् अथवा संविग्नः | परमहिदष्टादिकमागाढकारणमवलम्ब्य न पृच्छेत् / तस्य च गुरोर्भावसुचिरेणापि न विसर्जयतीति लक्षणं ज्ञात्वा आत्मीयं च भावमहमिह तिष्ठन्नवश्यं विनश्यामीति ज्ञात्वा अनापृच्छ्यापि व्रजेत्। अथ गुरोश्चारित्रे सीदतो विधिमाह। सजायरकप्पट्टी, चरित्तठवणा अभिगया खरिया। सारूविओ गिहत्थो, सो विउवाएणा हरियव्वो।। शय्यातरस्य कल्पस्थिकायां आचार्येण चारित्रस्य स्थापना कृता तां प्रतिसेवत इति भावः तस्यां चरित्रस्थापनायां जाताया व्यक्षरिका वा काचिदभिगता जीवाद्यधिगमोपेताश्राविकेत्यर्थस्तस्यामाचार्योsध्युपपन्नः सचा चारित्रवर्जितो वेषधारि भवेत् सारुपिको वा गृहस्थो वा उपलक्षणत्वात्सिद्धपुत्रको वा तत्र मुण्डितशिराः शुक्लवासः परिधायी कच्छामबंधन अभार्यको भिक्षां हिण्डमानः सारूपिक उच्यते / यस्तु मुण्डः सशिखाको वा सभार्यकः ससिद्धपुत्रकः एवमेषामन्यतर उपायेन हर्त्तव्यः / कथमिति चेदुच्यते पूर्व तावद्दुरवो भण्यन्ते वयं युष्मद्विरहिता अनाथाः अतः / प्रसीद गच्छामोऽपरं क्षेत्रं परमुक्ते यदि नेच्छन्ति ततो यस्यां स प्रतिबद्धः सा प्रज्ञाप्यते एष बहूनां साधूनामाधारः एतेन विना गच्छस्य ज्ञानादीनां परिहाणिरतो मा नरकादिकं संसारमात्मनो वर्द्धय यदिसा इच्छति ततःसुन्दरमथन तिष्ठति ततो विद्यामन्त्रादिभिरावय॑ते। तदभावे केवयिका अपि तस्या दीयन्ते। गुरुश्चक्रमेण रात्रौ हर्त्तव्यः / एवं तावद्भिक्षुमङ्गीकृत्य विधिरुक्तः।। (सूत्रम्) गणावच्छेदइए जे गणादवकम्म इच्छिजा अण्णं गणं उवसंपज्जित्ताणं विहरित्तए कप्पति णो से कप्पइ अणापुच्छित्ता आयरियं वा जाव अण्णं गणं उवसंपञ्जित्ताणं विहरित्तए। कप्पइ णो आउत्थिता आयरियं वा जाव विहरित्तए य से वितरंति एवं से कप्पइ जाव विहरित्तए एते य से णो वितरंति एवं से णो कप्पइ जाव विहरित्तए 21 आयरिय उवज्झाए य गणाओ अवकम्म इच्छेला अण्णं गणं उवसंपञ्जित्ताणं विहरित्तए कप्पइ आयरिय आयरियस्स आयरियगणावच्छेइयस्स गणावच्छेइयत्तं निक्खिवित्ता अण्णं गणं उवसंपञ्जित्ताणं विहरित्तए उवज्झायत्तं णिक्खिवित्ता अण्णं गणं उपसंपञ्जित्ताणं विहरित्तए। णो से कप्पइ अणापुच्छित्ता आयरियं वा जाव अण्णं गणं उपसंपज्जित्ताणं विहरित्तएकप्पतिसे आपुच्छित्ताजाव विहरित्तएतेयसे वितरंति एवं से कप्पति अण्णं गणं उपसंपञ्जित्ताणं विहरित्तए ते से णो वियरंति / एवं से णो कप्पति / अण्णं गणं उवसंपजित्ताणं विहरित्तए।२२। अस्य सूत्रद्वयस्य व्याख्या प्राग्वत् नवरं गणावच्छेदिकत्वमाचार्योपाध्यायत्वं च निक्षिप्य गन्तव्यमिति विशेषः / अथ भाष्यम्। एमेव गणावच्छे, गणिआयरिए वि होइ एमेव / नवरं पुण नाणत्तं, ते नियमा हुंति वत्ताओ॥ एवमेव भिक्षुवत् गणावच्छेदकस्य ज्ञानदर्शनचारित्रार्थमन्यंगणं गच्छतो विधिद्रष्टव्यः / गणिन उपाध्यायस्याचार्यस्य चैवमेवविधिः नवरं पुनरिदं नानात्वं नियमाते गणावच्छेदिकादयो व्यक्ता भवन्ति नो अव्यक्ताः॥ एमेव गतो नियमा, निग्गंथीणं पि होइ नायव्वो। णाणट्ठ जो उ भेइं, सचित्तं ण अप्पिणो जाव॥ एष एव भिक्षुसूत्रोक्तो गमो निर्ग्रन्थीनामप्यपरं गणमुपसंपद्यमानानां ज्ञातव्यः नवरं नियमेनैव ताः ससहायाः यः पुनर्ज्ञानार्थं न आचार्यिका नयति स यावदद्यापि न वाचनाचार्यस्यार्पयति तावत्सचित्तादिकं तस्यैवाभवति अर्पितास्तु पुनर्वाचनाचार्यस्याभाव्यं कः पुनस्ता नयतीत्याह। पंचण्ड एगयरे, उग्गहवजं तु लभति सच्चित्तं / आपुच्छ अट्ठपक्खे, इत्थीसत्येण संविग्गो।। पश्चानामाचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकानामे कतरः संयतीर्नयति तत्रच सचित्तादिकं परक्षेत्रावग्रहवर्ज स एव लभते निर्ग्रन्थी च ज्ञानार्थं व्रजन्ती अष्टौ पक्षानापृच्छति / तत्राचार्यमेकं पक्षमापृच्छति यदि न विसर्जयति तत उपाध्यायं वृषभं गच्छं चैवमेव पृच्छति संयतीवर्गेऽपि प्रवर्तिनी गणावच्छेदिकाभिषेकाशेषसाध्वीर्यथाक्रममेकैकं पक्षमापृच्छति। ताश्च स्त्रीसार्थेन समं संविग्गेन परिणतवयसा साधुना नेतव्याः / (सूत्रम्) भिक्खू गणाओ अवकम्म इच्छिज्जा अन्नं गणं संभोगपडियाए उवसंपञ्जित्ताणं विहरित्तए नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव अम्नं गणं संभोगपडियाए उवसंपचित्ताणं कप्पइसे आपुच्छित्ता आयरियं वाजाव विहरित्ता ते य से वियरंति / एवं से कप्पइ जाव विहरित्तए / ते य से न वियरिखा एवं से नो कप्पइ जाव विहरित्तए जत्थुत्तरियं धम्मविणयं लभेजा। एवं से कप्पइ अन्नं गणं संभोगे पडियाए उवसंपञ्जित्ताणं विहरित्तए जत्थुत्तरियं धम्मविणयं नो लभेजा एवं से नो कप्पइ अन्नं गणं जाव विहरित्तए। अस्य व्याख्या प्रग्वत् नवरं सांभोगिकमण्डल्यां समुद्देशिनादिरूपस्त प्रत्ययनिमित्तं “जत्थुत्तरियमित्यादि" यत्र उत्तरं प्रधानतरं धर्मविनयं स्मारणधारणादिरूपां धार्मिकी भिक्षां लभेत एवं (से) तस्य कल्पते अन्य गणमुपसंपद्य विहर्तुयत्रोत्तरं धर्मविनयं नोलभेत एवं (से) तस्य नो कल्पते उपसंपद्य विहर्तुमिति सूत्रार्थः। अथ भाष्यम्। संभोगो विहु तिहि कारणेहिं नाणट्ठदंसणचरित्ते। संकमणे चउभंगो, पढमो गच्छम्मि सीयंते॥