________________ उवसंपया 1043 - अमिधानराजेन्द्रः - भाग 2 उवसंपया मानः शिष्यः आचार्य विधिना पृष्ट्वा निर्गतोऽन्नयगणगमनं कृतवान् तत्र च तर्कशास्त्राणि श्रुत्वा बहुश्रुतत्वं तस्य संजज्ञे। ततो भूयः स्वगच्छे आगमनम् / आगतेन च पूर्वामाचार्याः द्रष्टव्यास्ततोऽन्यस्यां वसतौ स्थित्वा या तत्र वादमार्गकुशला पर्षत् तां परिचितां कृत्वा राज्ञो महाजनस्य च पुरतः परतीथिकान् निष्पिष्टप्रश्नव्याकरणान् करोति। चोयपरायणकुविया, जति पडिसेहंति साहु लद्धं च / अह विअणुगओ अम्हं, मासपवत्तं परिहवेह॥ चोदे पराज्ञापने कुपितान्मन्तो यदिते भिक्षुकादयः आचार्यस्य तंवण्ट प्रतिषेधन्ति ततः साधुसुन्दरं लष्ट वा भीष्टं जातमिति। अथ तत्र कोऽपि ब्रूयात् एतस्यको दोषश्चिरमनुगत एषोऽस्माकं मा पूर्वप्रवृत्तं दातव्यमस्य परिहापयत तत्र को विधिरित्याह।। काऊण पद पणाम, छेदसुत्तस्स दलाह पडिपुच्छं। अण्णत्थ वसहिमगणं, तेसिं च णिवेदणं काउं। गुरोः पदकमलप्रणामं कृत्वा वक्तव्यं छेदे श्रुतस्य प्रतिपृच्छां मम प्रयच्छत। अत्र चागीतार्थाः श्रृण्वन्ति ततोऽन्यस्यां वसतौ गच्छावः एवमुक्तोऽपि यदितस्या वसतेन निर्गच्छति तत्राख्यायिकादिकथापनेन चिरंरात्रौ गुरवो जागरणं कारापणीयास्तेषां चाऽगीतार्थानां वयमाचार्यमेवं नेष्याभो भवद्भिर्बोलो न कर्त्तव्यः / इति निवेदनं कृत्वा गन्तव्यमिदमेव व्याचष्टे। सदं च हेतुसत्थं, अहिजिओ छेदसुत्तण8 मे। तत्थ य मा सुत्तत्था, सुणिज्ज तो अण्णहिं वसिमो॥ शब्दशास्त्रमिन्द्रादिकं हेतुशास्त्र सम्मत्यादिकं शास्त्रमध्ययनस्य च्छेद सूत्रं निशीथादिकं सूत्रतोऽर्थतस्तदुभयतो वा मम नष्टं तस्य प्रतिपृच्छामे | प्रयच्छत / अत्र च वसतावश्रुतार्थाः शैक्षा अपरिणामका वा न शृणुयुरतोऽन्यस्यां वसतौ वसाम एवमन्यव्यपदेशेन निष्काश-यति। अथ | तस्या वसतेः क्षेत्राद्वा निर्गन्तुं नेच्छति ततोऽयं विधिः। खित्तारक्खिणिवेयण, इयरे पुव्वं तु गाहिया समणा। जग्गविओ सो अचिरं, जह णिज्जंतो ण चेतेति॥ आरक्षिको दण्डपाशिकस्तस्य निवेदनं क्रियते (खित्तंति) अस्माकं क्षिप्तचित्तः साधुः समस्ति तं वयमर्द्धरात्रौ वैद्यसकाशे नेष्यामः स यदि नीयमानो हियेऽहं हियेऽहमित्यारटेत् ततो युष्माभिर्न किमपि भणनीयमितरे अगीतार्थाः श्रमणाः पूर्वमेव ग्राहिता कर्तव्याः वयमाचार्यमेनं / नेष्यामो मा बोलं कृरुध्वम्। सचाचार्यश्चिरमाख्यायिकाः कथापयित्वा जागरितः सन् यदा निर्भर सुप्तो भवति तदा नीयते यदा नीयमानो न किंचिचेतयति। निण्हयसंसग्गीए, बहुसो भण्णं तु वेहसो कुणइ। तुह किंति वत्ति परिणम, गतागतेणीणिओ विहिणा।। अथ निह्नवानां संसाचार्यो न निर्गच्छति बहुशो भण्यमानोऽप्युपेक्षा कुरुते अथवा ब्रूयात् यद्यहं निह्नवसंसर्ग करोमि ततो भवतो दुःखयति / व्रज त्वं यत्र गन्तव्यम् एवं परिणामं गुरूणां ज्ञात्वा शिष्येण गतागतेनान्यं गणं गत्वा शास्त्राण्यधीत्य भूयः आगतेन निह्रवान् पराजित्याचार्यो विधिना अनन्तरोक्तेन निष्काशितः कर्तव्यः। एस विहिविसज्जिए, अविसज्जियलहुगदोसआणाई। तेसिं पिहुंति लहुगा, अविहिविही सो इमो होइ।। एष विधिर्गुरुणा विसर्जिते मन्तव्यः अविसर्जितस्य तुगच्छतश्चतुर्लघु | दोषाश्चाज्ञादयः / तेषामपि प्रतीच्छतां चतुर्लघु काः एषो विधिरुक्तोऽतोऽविधिना गन्तव्यं सचाऽयं विधिर्भवति। दसणमत्थे पक्खो, आयरिय उवज्झाय सेसगाणं च। एकेकपंचदिवसे,अहवा, पक्खेण सव्वे वि॥ दर्शनप्रभावकाणां शास्त्राणामर्थाय निर्गच्छत एकं पक्षमापृच्छन् कालो भवति तद्यथा। आचार्यः पञ्च दिवसानापृच्छयते यदिन विसर्जयति तत उपाध्यायोऽपिपञ्च दिवसान् शेषसाधवोऽपि पञ्च दिवसान अथवा पक्षण सर्वेऽपि पृच्छ्यन्ते। किमुक्तं भवति दिने दिने किन्तु सर्वेऽपि पृच्छ्यन्ते यावत् पक्षः पूर्ण इति। एस विहि आगतं तु, पडिच्छअपडिच्छणा भवे लहगा। अहवा इमेहिं आगम, एगादिपडिच्छए गुरुगा // एगे अपरिणए य, अप्पाहारे य थेरए। गिलाणे बहुरोगी य, मंदधम्मे य पाहुडे | एतारिसं विउस्सज, विप्पवासोन कप्पई। सीसपडिच्छायरिए, पायच्छित्तं विहिजइ। विइयपदमसंविग्गे, संविग्गे चेव कारणागाढे। नाऊण तस्स भावं, होइ उगमणं अणापुच्छा। गाथाचतुष्टयमपि गतार्थं गतं दर्शनार्थं गमनम्। अथ चारित्रार्थमाह। चारित्तटुंदेसे (दुविहा) एसणदोसा य इत्थिदोसाय। गच्छंति य सीयंते, आयसमुत्थेहिं दोसेहिं।। चारित्रार्थ गमनं द्विधा देशदोषैरात्मसमुत्थदोषैश्च देशदोषा द्विविधा एषणा दोषाः स्त्रीदोषाश्च / आत्मसमुत्था अपि द्विधा गुरुदोषा गच्छदोषाश्च / तत्र गच्छो यद्यात्मसमुत्थैश्चक्रवालसामाचारीवितथकरणलक्षणैर्दो रैः सीदते तत्र पक्षमापृच्छन्नास्ते तत ऊर्द्ध गच्छति / इदमेव व्याचष्टे। जिहि यं एसणदोसा, पुरकम्माई ण तत्थ गंतव्वं / उदगपउरो व दोसो, जहिं व चरिगाइसंकिण्णो॥ यत्रदेशेपुरःकर्मादय एषणादोषाः भवेयुस्तत्रनगन्तव्यंयोवा उदकप्रचुरो देशः सिन्धुविषयवत् यो वा चरिकादिभिः परिवाजिकाकापालिकी नवनिकादिभिर्बहुमोहादिभिराकीर्णो विषयस्तत्रापि न गन्तव्यम् / अथाशिवादिभिः कारणैस्तत्र गता भवेयुस्ततः। असिवाईहिंगता पुण, तक्कजसमप्पिया तओ प्रिंति। आयरियमणिंते पुण, आपुच्छिउं अप्पणा किंति॥ आशिवादिभिर्दुर्भिक्षपरचक्रादिभिः कारणैस्तत्र गता अपि (तक्कजसमप्पियत्ति) प्राकृते पूर्वपदनिपातस्याभिमतत्वात् समापिततत्कार्याः संयमक्षेत्रे यदा अशिवादीनि स्फिटितानि भवन्तीति भावः / तदैते असंयमक्षेत्रान्निर्गच्छन्ति यद्याचार्याः केनापि प्रतिबन्धेन सीदन्तो न निर्गच्छेयुस्ततो ये एको द्वौ बहवो वा असीदन्तस्ते गुरुमापृच्छ्यात्मना निर्गच्छन्ति तत्र चाऽयं विधिः। दो मासे एसणाए, इत्थिं वजेज्ज अट्ठ दिवसाई। गच्छम्मि होइ पक्खो, आयसपुच्छेगदिवसं तु॥ एषणायामशुद्ध्यमानायां यतनया अनेषणीयमपि गृह्णन् द्वौ मासी गुरुमापृच्छन् प्रतीक्षते / अथ स्त्री शय्याप्रभृतिका उपसर्गयति / अथात्मना शय्यातयदिौ स्त्रियां मध्यमिकायां वा प्रातिवे