________________ अवणयण 792 - अभिधानराजेन्द्रः - भाग 1 अवण्णवाय अवणयण-न०(अपनयन) निषेधने, विशे०) अवणीयउवणीयवयण-न०(अपनीतोपनीतवचन) अरूपवती स्त्री, किन्तु सवृत्तेतिरूपेषोडशवचनानांद्वादशे, आचा०२ श्रु०४ अ०१ उ०। प्रज्ञा प्रव०॥ अवणीयचरय-पुं०(अपनीतचरक) अपनीतं देयद्रव्यमध्या-दपसारितम्, अन्यत्र स्थापितमित्यर्थः / तदर्थमभिग्रहतश्वरति तद्गवेषणाय गच्छतीति / अपनीतचरकः। अभिग्रहविशेषधारके, औ० अवणीयवयण-न०(अपनीतवचन) कुरूपा स्त्रीतिवचनभेदे, प्रव०१४० द्वारा अवण्ण-त्रि०(अवर्ण) न विद्यते वर्णः पञ्चविधः सितादिः, अस्येत्य-वर्णम् / वर्णरहिते अमूर्तद्रव्ये, षो०१५ विव०। अश्लाघायाम्, पं०व०४ द्वार / स्था०। अयशसि अकीर्ती, नि०चू०१० उ० वर्णताया अकरणे, औ०। एकदिग्व्याप्य-साधुवादवादे, ग०२ अधि। अवण्णवंत-त्रि०(अवर्णवत्) अश्लाघाकारिणि, स०३० सम०। अवण्णवाइ(ण)-पुं०(अवर्णवादिन) अवर्णं वदितुं शीलमस्येत्यवर्णवादी / अकीर्तिकरे, "नाणस्स केवलीणं, धम्मा-ऽऽयरियाण सव्यसाहूणं / माई अवण्णवाई, किदिवसियं भावणं कुणई // 11 // ग०२ अधि० 0 अवण्णवाय-पुं०(अवर्णवाद) अश्लघायाम्, ध०२ अधि०। अश्लाघावादे, दशा 'अवन्नवायं च परंमुहस्स, पच्चक्खओ" (न भासिज्ज) अवर्णवादं चाऽश्लाघावादं पराङ्मुखस्य पृष्ठतः प्रत्यक्षतश्च, न भाषेत इत्यर्थः / दश०६ अ०३ उ अर्हदादिपञ्चकाऽवर्ण वदन दुर्लभबोधिः -- पंचहिं ठाणेहिं जीवा दुल्लमबोहियत्ताए कम्मं पकरेंति / तं जहा- अरहताणमवन्नं वदमाणे, अरहंतपण्णत्तस्स धम्मस्स अवन्नं वदमाणे, आयरियउवज्झायाणमवन्नं वदमाणे, चाउवनसंघस्स अवन्नं वयमाणे, विविक्कतव-बंभचेराणं देवाणं अवन्नं वदमाणे। "पंचहिं" इत्यादि सुगमम्, नवरं दुर्लभा बोधिर्जिनधर्मो यस्य, स तथा, तभावस्तत्ता / तया दुर्लभबोधिकतया, तस्यैव वा कर्म मोहनीयादि, प्रकुर्वन्ति बध्नन्ति, अर्हतामवर्णमश्लाघां वदन् / यथा "नत्थी अरहंत त्ती, जाणतो कीस भुंजए भोए। पाहुडियं उवजीवइ, स समवसरणादिरूपाए / / 1 / / एमाइ जिणाण अवण्णो' / न च ते नाऽभूवन, तत्प्रणीतप्रवचनोपलब्धेः / नाऽपि भोगाऽनु-भवनादेर्दोषः, अवश्यवेद्यत्वात् तस्या तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वात्तस्य / तथा- वीतरागत्वेन समवसरणादिषु प्रतिबन्धाऽभावादिति / तथाअर्हत्प्रज्ञप्तस्य धर्मस्य श्रुत-चारित्ररूपस्य / प्राकृतभाषानिबद्धमेतत्, तथा- किं चारित्रेण ? दानमेव श्रेयः, इत्यादिकमवणं वदन्। उत्तरं चाऽत्रप्राकृत-भाषात्वं श्रुतस्य न दुष्टं, बालादीनां सुखाऽध्येयत्वेनोपकारित्वात् / तथा- चारित्रमेव श्रेयो, निर्वाणस्याऽनन्तरहेतुत्वादिति / आचार्योपाध्यायानामवर्ण वदन् / यथा- बालोऽयमित्यादि / न च बालत्वादि दोषः, बुद्ध्यादिभिवृद्धत्वादिति / तथा- चत्वारो वर्णाः प्रकाराः श्रमणादयो यस्मिन् स तथा / स एव स्वार्थि काऽणविधानाचातुर्वर्णः, तस्य संघस्याश्चर्ण वदन्। यथा- कोऽयं संघः ? यः | समवायबलेन पशुसंघ इव अमार्गमपि मार्गीकरोति इति / न चैतत्, साधुज्ञानादिगुणसमुदायात्मकत्वात् तस्य, तेन च मार्गस्यैव मार्गीकरणादिति / तथा विपक्वं सुपरिनिष्ठितं, प्रकर्षपर्यन्तमुपगतमित्यर्थः। तपश्च ब्रह्मचर्यं च भवाऽन्तरे येषाम्, विपक्वं वा उदयागतंतपो ब्रह्मचर्य तद्धेतुकं देवाऽऽयुष्कादि कर्म येषां ते तथा, तेषामवर्णं वदन्।न सन्त्येव देवाः, कदाचना-ऽप्यनुपलभ्यमानत्वात् / किश्च- तैविटरिख कामासक्तमनोभि-रविरतैस्तथा निर्निमेषैरचेष्टश्च मियमाणैरिव प्रवचनकार्याऽनु-पयोगिभिश्चेत्यादिकम् / इहोत्तरम् - सन्ति देवाः, तत्कृता-ऽनुग्रहोपघातादिदर्शनात्। कामसक्तता च मोहसातकर्मोदयात्, इत्यादि। स्था०५ ठा०२ उ०। अथ (ज्ञानादीनां) व्यासार्थमाह - काया वया य ते चिय, ते चेव पमायअप्पमाया य। मोक्खाहिगारियाणं, जोइसजोणीहिं किंच पुणो / इह के चिद् दुर्विदग्धाः प्रवचनाशातनापातक मगणयन्त इत्थं श्रुतस्याऽवर्णं ब्रुवर्त। यथा- षड्जीवनिकायामपि षट्कायाः प्ररूप्यन्ते, शस्त्रपरिज्ञायामपितएव, अन्येष्वध्ययनेषु बहुशस्त एवोपवर्ण्यन्ते। एवं व्रतान्यपि पुनः पुनस्तान्येव प्रतिपाद्यन्ते। तथा-त एष प्रमादाऽप्रमादाः पुनः पुनर्वर्ण्यन्ते। यथोत्तराध्ययने आचाराङ्गे च / एवं च पुनरुक्तदोषः / किं च- यदि के वलस्यैव मोक्षस्य साधनार्थमयं प्रयासस्तर्हि मोक्षाधिकारिणां साधूनां सूर्य-प्रज्ञप्त्यादिना ज्योतिःशास्त्रेण, योनिप्राभृतेन वा किं पुनः कार्यम् ? न किञ्चिदित्यर्थः / तेषामित्थं ब्रुवाणानामिदमुत्तरम् -इह प्रवचने यत्-त एष कायादयो भूयो भूयः प्ररूप्यन्ते, तन्महता प्रयत्नेनाऽमी परिपालनीयाः, इदमेव धर्मरहस्यमित्यादराऽतिशयख्यापनार्थ-त्वात् न पुनरुक्तम् / "अनुवादाऽऽदरवीप्साभृशार्थविनियोग-हेत्वसूयासु / ईषत्संभ्रमविस्मयगणनास्मरणे-ष्वपुनरुक्तम् / / 11 / ज्योतिःशास्त्रादेरेव शिष्यप्रवाजना-दिषु शुभकार्योपयोगफलत्वात् परम्परया मुक्तिफलमेवेति, न कश्चिद् दोषः / गतो ज्ञानाऽवर्णवादः / अथ केवल्यवर्णवादमाह - एगंतरमुप्पाए, अन्नोन्नावरणया दुदेण्हं पि। केवलदसणणाणे, एगे काले व एगत्तं // इह केवलिनामवर्णवादो यथा- किमेषां ज्ञानदर्शनोपयोगौक्रमेण भवतः, उतयुगपत् ? यद्याद्यः पक्षः- ततोयं समयं जानाति,तं समयं न पश्यति, यं समयं पश्यति, तं समयं न जानाति, इत्येवमेकान्तरिते उत्पादेद्वयोरपि केवलज्ञानदर्शनयोरन्यो-ऽन्याऽऽवरणता भवेत, ज्ञानावरणदर्शनावरणयोः समूलकाषंकषितत्वात् / अपरस्य चाऽऽवारकस्याऽभावात परस्पराऽऽ-वारकतैवाऽनयोः प्राप्नोतीतिभावः। अथ युगपदिति द्वितीयः पक्षः कक्षीक्रियते, सोऽपि न क्षोदक्षमः / कुतः ? इत्याह- एककाले युगपदुपयोगद्वये अङ्गीक्रियमाणे, वाशब्दः पक्षाऽन्तरद्योतनार्थः। द्वयोरपि साकाराऽनाकारोपयोगयोरेकत्वं प्राप्नोति, तुल्यकाल-भावित्वादिति। अत्रोत्तरम्- इह यथा जीवस्वाभाव्यादेः सर्वस्यापि केवलिन एकस्मिन् समये एकतरएवोपयोगो भवति, न द्वौ, "सव्वस्स केवलिस्सा, जुगवं दो नत्थि उवओगा''इति वचनात्। यथा चाऽयमेकैकसमये उपयोग उपपद्यते, तथा विशेषावश्यकादिषु श्रीजिनभद्रक्षमाश्रमणादिभिः पूर्वसूरिभिः सप्रपञ्चमुपदर्शित इति ने होपदर्शितः, गृन्थगौरवभयात् / द्वितीयपक्षानुपपत्तिनोदना त्वनभ्युपगतोपालम्भत्वादाकाशरोमन्थनमिव केवलं भवतः प्रयासकारिणीति।