________________ [सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८ पा०१] वृषमे वा वा / / 133|| वृषभे वेन साकं स्या-दृकारस्योत्त्वमत्र वा। 'उसहो वसहो' चैता-दृशं रूपं प्रयुज्यते॥ गौणान्त्यस्य // 13 // गुणीभूतस्य शब्दस्य, योऽन्त्य ऋत् तस्य उद्भवेत्। स्याद् माउ-मण्डलं,माउ-हरं पिउहरं तथा। माउ-सिआ पिउ-सिआ, तथा पिउ-वणं स्मृतम् / / मातुरिद्धा / / 13 / / मातृ--शब्दस्य गौणस्य, ऋत इत्त्वं विकल्पते। माइ-हरं माउ-हरं,क्वापि माईणमिष्यते / / उदूदोन्मृषि // 136 / / ओदूदुचक्रमादेतद्, मृषाशब्दे भवेदृतः। मोसा मूसा'मुसा मोसा-वाओ' चेदृक् प्रयुज्यते।। _इदुतौ वृष्ट-वृष्टि-पृथक्-मृदङ्ग-नके // 137|| वृष्टौ वृष्टे मृदङ्गे च, नसके पृथगव्यये। ऋकारस्येदुतौ स्यातां, तदुदान्हियते यथा - | स्याद् निइङ्गो मुइङ्गो वा, नत्तिओ नत्तओ तथा। विठ्ठो वुट्ठो तथा विट्ठी, वुट्ठी रूपं पिहं पुहं॥ वा बृहस्पतौ // 138|| बृहस्पती भवेद् ऋतो, विकल्पनादिदुत् तथा। बिहप्फई बुहप्फई, बहप्फई च पाक्षिकम् / / [नगस्वरूपिणीछं०] इदेदोदन्ते // 13 // ऋकारस्य भवेदित्त्वमेत्त्वमोत्त्वं यथाक्रमम्। तेन वृन्तंभवेद् 'विण्टं, वेण्टं वोण्टं' त्रिधाऽऽत्मकम्।। रिः केवलस्य / / 140 // केवलस्य ऋतो रिः स्याद्, 'रिद्धी रिच्छो' ततो भवेत्। ऋणवृषमत्वृषौ वा // 11 // ऋणऋजुऋषभऋतुऋषिषु, ऋतोऽस्तु या रिः रिणं अणं रिलू। उजू 'रिसहो उसहो', रिऊ उऊ स्याद् रिसी इस रूपम्॥ दृशः विप्--टक्सकः॥१४२।। क्विपटक-सगन्तस्य दृशे-र्धातोः रिः स्याद् ऋतो यथा। 'सदृग्वर्णः सरिवण्णो',सदृशः सरिसो मतः।। सदृक्षस्तु 'सरिच्छो' स्याद्,यादृशो जारिसो भवेत्। एवं एयारिसोअन्ना-रिसो अम्हारिसो तथा।। तारिसो केरिसो तुम्हा-रिसो त्यदाद्यन्यादि-(५/१/१५२) सूत्रोक्तः,प्रत्ययः क्विविहेष्यते।। आदृते ढिः॥१४३॥ आदृते तु ऋतो दिः स्याद्, 'आढिओ' तेन सिद्ध्यति। अरिदृप्ते // 14 // दृप्तशब्देऽरिरादेश-ऋकारस्य विधीयते। दृप्तसिंहेन दरिअ-सीहेणेति निगद्यते।। तृत इलिः कृप्त-क्लन्ने // 15 // कृप्त-क्लन्नयोरनयो-लतं इलिरादेश इष्यते तेन। धाराकिलितवत्तं, किलिन्न-कुसुमोवयारेसु / / एत इद् वा वेदना-चपेटा-देवर-केसरे / / 146 / / वेदनायां चपेआयां, देवरे केसरे तथा। एत इत्त्वं विकल्पेन, भवेदित्यवगम्यताम् / / विअणा वेअणा वा स्यात्, चवेडा चविडा तथा। दिअरो देवरो वेद्यः, किसरं केसरं मतम्॥ ऊः स्तेने वा।।१४७॥ एत ऊत्वं तु वास्तेने, थूणो थेणोद्वयं भवेत्। ऐत एत्॥१४॥ ऐकारस्यादिभूतस्य, भवत्येत्त्वं ततो भवेत्। वेहव्वं केढवो वेजो, सेला एरावणो तथा।। तेलुकं चैव कैलासो,रूपाण्येतानि सन्ति च। इत् सैन्धव-शनैश्चरे // 14 // ऐत इत्त्वं भवेन्नित्यं,सैन्धवे च शनैश्चरे। सणिच्छरो सिंधवं च, द्वयं रूपं प्रसिद्धयति। सैन्ये वा / / 150 // ऐत इत्त्वं तु वा सैन्ये, सिन्नं सेन्नं ततो द्वयम्। अइदैत्यादौ च / / 151 // ऐतोऽइः सैन्यशब्दे स्याद्, दैत्यादौ च तथागणे। सैन्यं सइन्नं संप्रोक्तं, दैत्यादिर्लक्ष्यतेऽधुना-/ अइसरिअं वइजवणो, वइआलीअंच कइअयं सइरं। वइएसो च दइचो, चइत्त वइदब्भ-वइसालो।। वइण्हो च वइस्सा-रो दइवअंदइन्न-वइसाहो। भइरव इति दैत्यादि-गणो बुधैाहतःपूर्वैः / / 'विश्लेषेतुन भवति'-चेइअमिति चैत्य इष्यते रूपम्। आर्षे–'चैत्यवन्दनं ची-वन्दण-'मुच्यते सद्भिः। दैत्यो देन्यं भैरवो दैवतं च, वैतालीयं कैतवं स्वैर-चैत्यम्। वैशालो वैशाख-वैश्वानरौ वै-दर्भो वैदेहश्च वैदेश एवम्॥ ऐश्वर्यं च वैजवनं, दैत्यादिर्गण इत्ययम्। आकृत्या गण्यते यस्माद्, न संख्यानियमस्ततः // वैरादौ वा // 152|| वैरादिषु भवेदैतो-ऽइरादेशी विकल्पनात्। तेन रूपद्वयं वैरे,'वइरं वेर--'मीदृशम्॥ कइलासो केलासो, वइसवणो पठ्यते च येसवणो। यइआलिओ च वेआ-लिओ, चइत्तो तथा चेत्तो॥ कइरवमिति केरवमिह, वइसिअमिति वेसिअंवा स्यात्। वइसंपायण-वेसं-पायणरूपद्वयं चमतम्॥ वैरं वैश्रवणो वैश-म्पायनश्चैत्र-कैरवे। कैलासो वैशिको वैता-लिको वैरादिरुच्यते। एच दैवे॥१५३|| ऐत एत्त्वमइत्वं च, दैवशब्दे पृथग्भवेत्। देव्यं दइव्वंदइवं, रूपत्रयमुदाहृतम्॥ उच्चैर्नीचैस्यअः॥१५४|| अअएतादृशादेशो, भवेदैतोऽविकल्पतः। उच्चैर्नीचैरितिपदे, नीचअं उच्चअं तथा॥ ईद् धैर्ये // 15 // धैर्य-शब्दे भवेदैत-ईत्वं 'धीरं ततो भवेत्। ओतोऽद्वाऽन्योऽन्य-प्रकोष्ठाऽऽतोद्य-शिरोवेदना मनोहर-सरोरुहे क्तोश्व वः॥१५६|| शिरोवेदनाऽन्योऽन्य-प्रकोष्ठ-मनोहर-सरोरुहातोये। ओतोऽत्त्वं वा, क-तयो-य॑थासंभवं च वत्वं स्यात् //