________________ अलिउल 773 - अभिधानराजेन्द्रः - भाग 1 अलियवयण अलिउल-न०(अलिकुल) भ्रमरसमूहे, क्लीबे जश्शसोःई।४।३५३। इतिजश्शसोः 'इ' इत्यादेशः।"कमलेइंमेल्लवि अलिउलेइं, करिगंडाई महंति" / प्रा०४ पाद। अलिंग-न०(अलिङ्ग) प्रधाने, (साङ्ख्यपरिकल्पितप्रकृतौ,) द्वा० 20 द्वा०॥ अलिंजर-न०(अलिञ्जर) महदुदकभाजनविशेषे, उपा०७ अ०। उदककुम्भे, स्था०४ ठा०२ उ०। अलिंदग-पु०(अलिन्दक)गृहाद् बहिाराऽग्रवर्तिछण्डिकायाम, बृ०२ उ०। नि००। अलिंदुग-न०(अलिन्दुक) छण्डत्वे, अनु०॥ अलित्त-त्रि०(अलिप्त) अकृतलेपे, अलिप्तस्य तत्त्वसमाधि भवति, पूर्णाऽऽनन्दवृत्तिरपि। अष्ट०११ अष्ट। * अरित्र-न० नौक्षे, पणकाष्ठोपकरणभेदे, आचा०२ श्रु०३ अ०१ उ०। अलिपत्त-न०(अलिपत्र) वृश्चिकपुच्छाकृतौ, विपा०१ श्रु०६ अ०। अलिय-न०(अलीक) - इति सूत्रेण ईकारस्य इत्त्वम् / प्रा०१ पाद / कषायवशाति मथ्याभाषणे, अनृतभाषणे, उत्त०१ अ०। मृषावादे, प्रव०२३७ द्वा०। स्था०। प्रश्ना दर्शा द्विधा अलीकम् अभूतोद्भावनं, भूतनिह्नवश्च / यथा- 'ईश्वरकर्तृकं जगत्' इत्याद्यभूतोद्भावनम् / 'नाऽस्त्यात्मा' इत्यादिस्तु भूतनिहवः / विशे० आ०म० नि००। अनु० मा अलीकवादजनितकर्माऽग्नौ,प्रश्न०२ आश्रद्वा० अलियनियडि सातिजोयबहुलं० अलीकः शुभफलाऽपेक्षया निष्फलो यो निकृतेर्बन्धनप्रच्छादनार्थवचनस्य (साइ त्ति) अविश्रम्भस्य च अविश्वासवचनस्य योगो व्यापारस्तेन बहुलं प्रचुरं यत् तत्तथा। प्रश्न०२ आश्रद्वा०। अलियं न भासियव्वं, अस्थि हुसचं पिजनवत्तव्यं / सचं पि होइ अलियं, जं परपीडाकरं वयणं / / 1 / / दर्श०। अलियणिमित्त-न०(अलीकनिमित्त) मृषावादप्रत्यये, व्य०२ उ०। अलियभीरु-पुं०(अलीकभीरु) सत्यवादिनि, व्य०७ उ०। अलियवयण-न०(अलीकवचन) वितथभाषणे, प्रव०४१ द्वारा यथाकिं दिवा प्रचलायसि ? इत्यादिप्रश्ने- न प्रचलयामि इत्यादिभणने, प्रव०२३५ द्वार / उत्त० स्था०। (पञ्चाऽलीकानि) अथ द्वितीयमणुव्रतं दर्शयतिद्वितीयं कन्यागोभूम्य-लीकानि न्यासनिहवः। कूटसाक्ष्यं चेति पञ्चासत्येभ्यो विरतिर्मतम्॥२६| द्वन्द्वाऽन्ते श्रूयमाणाऽलीकशब्दस्य प्रत्येकं संयोजनात् कन्या-ऽलीकं, गवालीकं, भूम्यलीकं चेति, तानि। तथा- न्यास-निहवः कूटसाक्ष्य चेति, पञ्चसंख्याकानि, अर्थात् क्लिष्टाऽऽशयसमुत्थत्वात् स्थूलाऽसत्यानि, तेभ्यो विरतिविरमणं, द्वितीयं अधिकारादणुव्रतं मतं, जिनैरिति शेषः / तत्र कन्याविषयमलीकं कन्याऽलीक द्वेषादिभिरविषकन्यां विषकन्यां, विषकन्या-मविषकन्यां वा, सुशीला वा दुःशीला, दुःशीला वा सुशीलाम्, इत्यादि वदतो भवति / इदं च सर्वस्य कुमारादिद्विपद-विषयस्याऽलीकस्योपलक्षणम् 1, गवाऽलीकम्अल्पक्षीरां बहुक्षीरां, बहुक्षीरां वाऽल्पक्षीरामित्यादि वदतः / इदमपि सर्वचतुष्पदविषयाऽलीकस्योपलक्षणम् 2, भूम्यलीकं परसक्तामप्यात्मादिसक्ताम्, आत्मादिसक्ता वा परसक्ताम्, ऊषरं वा क्षेत्रमनूषरम्, अनूषरं वोषरमित्यादि वदतः / इदं चाऽशेषाऽपदद्रव्यविषयाऽलीकस्योपलक्षणम्। यदाह- कण्णागहणं दुपयाण सूअगं चउपयाण गोवयणं / अपयाणं दव्वाणं, सव्वाणं भूमिवयणं तु // 1 // ननु यद्येवंतर्हि द्विपदचतुष्पदाऽपदग्रहणं सर्वसंग्राहकं कुतो न कृतम् ? सत्यम् / कन्याद्यलीकानां लोकेऽतिगर्हि तत्वेन रूढत्वाद् विशेषेण वर्जनार्थमुपादानम् / कन्याऽलीकादौ च भोगान्तराय-द्वेषवृद्ध्यादयो दोषाः स्फुटा एव / यत आवश्यकचूर्णा- मुसावाए के दोसा, अकजंतेवा के गुणा? तत्थ दोसा कण्णगं चेव अकण्णगं भणंतो भोगतरायदोसा, पदुट्ठा वा आतघातं करेज, कारवेज वा, एवं सेसेसुभाणिअव्या। इत्यादि। तथाऽन्यस्य ते रक्षणायाऽन्यस्मै समर्प्यते इति 3, न्यासः सुवर्णादिः, तस्या निह्नवोऽपलापस्तद्वचनं स्थूलमृषावादः / इदं चाऽनेनैव विशेषणेन पूर्वाऽलीकेभ्यो भेदेनो-पात्तम्। अस्य चाऽदत्ताऽऽदाने सत्यपि च तस्यैव प्राधान्यविवक्षणात् मृषावादत्वम् 4, कूटसाक्ष्यं लभ्यदेयविषये प्रमाणीकृतस्यलचा-मत्सरादिना कूटं वदतः। यथा- 'अहमत्र साक्षीति' अस्य च परकीयपापसमर्थकत्वलक्षणविशेषमाश्रित्य पूर्वेभ्यो भेदेनोपन्यासः 5 इति / अत्राऽयं भावार्थः - मृषावादः क्रोधमानमायालोभत्रिविधरागद्वेषहास्यभयव्रीडाक्रीडारत्यरतिदाक्षिण्यमात्सर्यविषादादिभिः संभवति / पीडाहेतुश्च सत्यवादोऽपि मृषावादः / सद्भ्यो हितं सत्यमिति व्युत्पत्त्या परपीडाकरमसत्यमेव / यतः - अलिअन भासिअव्वं, अत्थि हु सच्चं पिजंन वत्तत्वं / सच्चं पितं नसचं, परपीडाकर वयणं / / 1 / / स च द्विविधः - स्थूलः, सूक्ष्मश्च। तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षा-समुद्भवश्व स्थूलः, तद्विपरीतः सूक्ष्मः / आह हि- "दुविहो अ मुसावाओ, सुहुमो थूलो अ तत्थ इह सुहमो। परिहासाइप्पभवो, थूलो पुण तिव्वसंकेसा' ||1|| श्रावकस्य सूक्ष्ममृषावादे यतना, स्थूलस्तु परिहार्य एव / तथाऽऽवश्यकसूत्रम्'थूलगमुसावाद समणोवासओ पचक्खाइ, से अ मुसावाए पंचविहे पण्णत्ते / तं जहा- कण्णालिए 1, गवालिए 2, भोमालिए ३,णासावहारे 4. कूडसक्खे अ५ इति। तचूर्णावपि- "जेण भासिएण अप्पणो परस्स वा अतीव वाघाओ अइसंकिलेसो य जायते, तं अट्ठाए वाऽणट्ठाए वा ण वएज त्ति" / एतयाऽसत्यं चतुर्द्धा- भूत-निहवः 1, अभूतोद्भावनं 2, अर्थाऽन्तरं ३,गर्हाच 4 / तत्र भूतनिहवो यथा- नाऽस्त्यात्मा, नाऽस्ति पुण्यं, नाऽस्ति पाप-मित्यादि 1, अभूतोद्भावनं, यथा- आत्मा श्यामाकतन्दुलमात्रः, अथवा सर्वगत आत्मेत्यादि 2, अर्थाऽन्तरं, यथागामश्व-मभिवदतः३, गर्हा तु त्रिधा-एकासावधव्यापारप्रवर्तिनी, यथाक्षेत्रं कृषेत्यादि 1, द्वितीया अप्रिया, काणं काणं वदतः 2, तृतीया आक्रोशरूपा, यथा- अरे ! बान्धकिनेय ! 3 / इत्यादि। ध० २अधि०। दर्शा पञ्चा० श्रा०ा अलीकवचनप्ररूपणा - जे मिक्खू लहुसयं मुसं वयइ, वदंतं वा साइज्जइ।।१६।। मुसं अलियं, लहुसयं अल्पं, तं वदओ मासलहु। तंपुण मुसंचउव्विहं -