________________ अरहन्नक ७६०-अभिधानराजेन्द्रः - भाग 1 अरहन्नक चक्खुरागंति पाठः / तत्र विकृते भुग्ने भुवौ प्रहसिते प्रचलिते प्रपतितेच यस्य स्फुङ्गिवत् खद्योतकवच दीप्तश्चक्षुरागश्च यस्य तत्तथा / "पणच्चमाणं'' इत्यादि विशेषणपञ्चकं प्रतीतम्। (नीलूप्पलेत्यादि) गवलं महिषशृङ्गम्। अतसी मालवक-देशप्रसिद्धोधान्यविशेषः। (खुरहारं ति) क्षुरस्येव धारा यस्य स तथा तमसिं, खड्ग, क्षुरो ह्यतितीक्ष्णधारो भवति, अन्यथा केशानाममुण्डनादिति क्षुरेणोपमा खड्गधरायाः कृतेति / अभि-मुखमापतत् पश्यन्ति / सर्वेऽपि सांयात्रिकाः, तत्राऽर्हन्नकवर्जा यत् कुर्वन्ति, तद् दर्शयितुमुक्त-मेवंपिशाचस्वरूपं सविशेषम्। तेषां तदर्शनं चाऽनुवदन्निदमाह-(तए णमित्यादि)ततस्ते अर्हन्नकवर्जाः सांयत्रिकाः पिशाचरूपं वक्ष्यमाणविशेषणं पश्यन्ति, दृष्ट्वा च बहूनामिन्द्रादीनां बहून्युपयाचितशतान्युप-चिन्वन्तस्तिष्ठन्तीति समुदायार्थः / अथवा-तएणं ते अरहण्णग-वजा, इत्यादिगमाऽन्तरम्, आगासे देवयाओ नचंति, इतोऽनन्तरं द्रष्टव्यम् / अत एव वाचनान्तरे नेदमुपलभ्यते। उपलभ्यते चैवम् - "अभिमुहं आवयमाणं पासंति, तए णं ते अरहन्नगवज्जा नावा-वाणियगा भीया०" इत्यादि। (तत्र तालपिसायं ति ) तालवृक्षाकारोऽतिदीर्धत्वेन पिशाचः तालपिशाचः, तम् / विशेषणद्वयं प्रागिव / (फुट्टसिरं ति) स्फुटितभबन्धनत्वेन विकीर्ण शिर इति शिरोजातत्वात् केशा यस्य स तथा तम् / भ्रमरनिकरवत् वरमाषराशिवत् महिषवच कालको यः स तथा तम्, भृतमेघवर्णम्, तथैव शूर्पमिव धान्यशोधकभाजनविशेषवन्नखायस्य स शूर्पनखस्तम् / फालसदृशजिह्न मिति फालं द्विपञ्चाशत्पलप्रमाणलोहमयो द्रव्यविशेषः, तच वह्रिप्रतापितमिह ग्राह्यम्, तत्साधर्म्य चेह जिह्वाया वर्णदीप्तिदीर्घत्वादिभिरिति / लम्बोष्ठं प्रतीतम् / धवलाभिर्वृत्ताभिरश्लिष्टाभिर्विशरत्वेन तीक्ष्णाभिः,स्थिराभिर्निश्चलत्येन, पीनाभिरुपचितत्वेन,कुटिलाभिश्च वक्रतया, दंष्ट्राऽभिरवगूढं व्याप्तं वंदनं यस्य स तथा, तम् / विकोशितस्याऽपनीतकोशकस्य, निरावरणस्येत्यर्थः / धारा-ऽस्योर्धाराप्रधानखडयोर्यद् युगलं द्वितयं तेन समसदृशावत्य-न्ततुल्ये तनुके प्रतले, चञ्चलं, विमुक्तस्थैर्य यथाभवत्यवि-श्रममित्यर्थः / गलन्त्यौ रसाऽतिलौल्याद् लाला विमुञ्चन्त्यौ रसलोले भक्ष्यरसलम्पटे चपलेचञ्चले फुरफुरायमाणे प्रकम्पे निर्लालिते मुखात् निष्काशिते अग्रजिह्वे जिह्वाऽग्रे इत्यर्थः, येन सतथा, तम्। (अवत्थियंति) प्रसारितमित्येके / अन्ये तु यकारस्याऽलुप्तत्वात् 'अवयत्थियं प्रसारितमुखत्वेन दृष्टं दृश्यमानमित्याहुः। (महल्लंति) महद् विकृतंबीभत्संलालाभिः प्रगलत् क्तंचतालुकाकुदं यस्य स तथा तम् / तथा हिगुलके न वर्णक-द्रव्यविशेषेण सगर्भकन्दरलक्षणं बिलं यस्य स तथा, तमिव / (अंजणगिरिस्सत्ति) / विभक्तिविपरिणामादञ्जनगिरि कृष्णवर्णपर्वतविशेषम् / अथवा 'अवत्थियेत्यादि' हि गुलुयेत्यादि' च कर्मधारयेणैव वक्ष्यमाणवदनपदस्य विशेषणं कार्यम् / यस्य तमित्येवंरूपश्च वाक्यशेषो द्रष्टव्यः / तथा अग्निज्वाला उद्गिरद् वदनं यस्य स तथा तम्। (आउसियत्ति) संकुचितं यदक्ष-चर्म जलाऽपकर्षणकोशस्तद्वत्।(उद्धृत्ति)अपकृष्टावपकर्षवन्तौ संकुचितौ गण्डदेशौ यस्य स तथा, तम्। अन्ये त्वाहुः - आचूषितानि संकुचितानि अक्षाणीन्द्रियाणि चर्म च ओष्ठौ च गण्डदेशौ च यस्य स तथा तम् / चीना ह्रस्वा (चिविड त्ति) चिपिटा निम्ना 'वंका' वक्रा भग्नेव भग्ना, अयोधनकट्टितेवेत्यर्थः, नासिका यस्य स तथा, तम् / रोषादागतः (धमधमंतत्ति) प्रबलतया | धमधमेति शब्दं कुर्वाणो मारुतो वायुर्निष्ठुरो निर्भरः, वरपरुषोऽत्यन्तकर्कशः, शुषिरयोरन्ध्रयोर्यत्र तत्तथा / तदेवंविधमवभुग्नं च वक्र नासिकापुट यस्य स तथा तम् / इह च पदानामन्यथानिपातः प्राकृतत्वादिति / घाताय पुरुषादिवधाय, छाटाभ्यां वा मस्तकाऽवयवविशेषाभ्याम्, उद्भट विकरालं रचितम्, अत एव भीषणं मुखं यस्य स तथा, तमा ऊर्ध्वमुखे कर्णशष्कुल्यौ कर्णावयवौ ययोस्तौ तथा तौ च महान्ति दीर्घाणि विकृतानि लोमानि ययोस्तौ तथा तौ च (संखालगंत्ति) शङ्ख वन्तौ च शव योरक्षिप्रत्यासन्नाऽवयवविशेषयोरालग्नौ संबद्धावित्येके, लम्बमानौ च प्रलम्बौ, चलितौ च चलन्तौ कर्णी यस्य स तथा, तम् / पिङ्गले कपिले दीप्यमाने भास्वरे लोचने यस्य स तथा तम्। भृकुटिः कोपकृत-भूविकारः, सैव तडित् विद्युत् यस्मिन् तत् तथा, तथाविधम् / पाठान्तरेण- भृकुटितं कृतभृकुटिलं ललाटं यस्य स तथा, तम् / नरशिरोमालया परिणद्धं वेष्टितं चिहूं पिशाचकेतुर्यस्य स तथा, तम् / अथवा- नरशिरोमालया यत् परिणद्धं परिणहनं, तदेव चिह्नं यस्य स तथा तम्। विचित्रैर्बहुविधैर्गोनसैः सरीसृपविशेषैः सुबद्धः परिकरः सन्नाहो येन स तथा तम् / (अवहोलंत त्ति) अवघोलयन्तो डोलायमानाः, (पुप्फुयंत त्ति) फूत्कुर्वन्तो ये सर्पा वृश्चिका गोधा उन्दुरा नकुलाः सरटाश्च तैर्विरचिता विचित्रा विविधरूपवती वैक क्षेणोत्तरा-5ऽसङ्गेन मर्कटबन्धेन स्कन्धलम्बनमात्रतया वा मालिका माला यस्य स तथा तम् / भोगः फणः स कूरो रौद्रो ययोस्तौ, तथा तौ च कृष्णसौ च तौ च तौ धमधमायमानौ च तावेव लम्बमानौ कर्णपूरी कर्णाभरणविशेषौ यस्य स तथा तम् / मारिशृगालौ लगितौ नियोजितौ स्कन्धयोर्येन स तथा तम् / दीप्तं दीप्तस्वरं यथा भवत्येवं (घुग्घुयंतत्ति) घूत्कारशब्दं कुर्वाणो यो घूकः कौशिकः स कृतो विहितः (कुंभलत्ति) शेखरकः शिरसि येन स तथा तम्।घण्टानांरवः शब्दस्तेन भीमो यःसतथासचासौभयंकरश्चेति, तं, कातरजनानां हृदयं स्फोटयति यः स तथा, तम् / दीप्तमट्टहासं घण्टारवेण भीमादिविशेषणविशिष्टं विमुञ्चन्तं वसारुधिरपूयमांसमलैर्मलिना (पोचलत्ति) विलीना च तनुः शरीरं यस्य स तथा तम्, उत्त्रासनकं विशालवक्षसं च प्रतीते / (पेच्छंतत्ति) प्रेक्ष्यमाणा दृश्यमानाः, अभिन्ना अखण्डानखाश्च मुखं च नयनेच कर्णौ च यस्यांसा तथा, सा चासौ वरव्याघ्रस्य चित्रा कुर्बरा कृत्तिश्च चर्मेति सा तथा सैव निवसनं परिधानं यस्य स तथा तम् / सरसं रूधिरप्रधानं यद्गजचर्म तद्विततं विस्तारितं यत्र तत्तथा। तदेवंविधं (ऊसवियंति) उच्छ्रितमूर्वीकृतं बाहुयुगलं येन स तथा तम्। ताभिश्च तथाविधाभिः, खरपरूषा अतिकर्क शाः, अस्निग्धा स्नेहविहीनाः, दीप्ता ज्वलन्त्यश्चोपतापहे तुत्वात् / अनिष्टा अनभिलाषाविषयभूताः, अशुभाः स्वरूपेण, अप्रिया अप्रीति-करत्वेन, अकान्ताश्च विस्वरत्वेन या / याचस्ताभिस्त्रस्तान कुर्वाणं त्रस्यन्तं तर्जयन्तं वा पश्यन्ति स्म। पुनस्तालपिशाचरूपं (एजमाणंति) नावं प्रत्यागच्छन्तं पश्यन्ति / (समतुरंगेमाणात्ति) आश्लिष्यन्तः स्कन्दः कार्तिकेयः, रुद्रः प्रतीतः, शिवो महादेवः, वैश्रवणो यक्षनायकः, नागो भवनपतिविशेषः, भूतयक्षा व्यन्तरभेदाः, आर्या प्रशान्तरूपाः, दुर्गा कोट्टक्रिया, सैव महिषारूढरूपा पूजाऽभ्युपगमपूर्वकाणि प्रार्थनानि उपयाचितान्युपचिन्वन्ते / उपाचिन्वन्तो विदधतस्तिष्ठन्ति स्मेति / अर्हन्नक-वर्जानामियमितिकर्तव्यतोक्ता। अधुनाऽर्हन्नकस्य तामाह- "तए णमित्यादि" / (अपत्थिय