________________ अयण 751 - अभियानराजेन्द्रः - भाग 1 अयण लम्यन्ते, तत एकेनाऽयनेन किं लभ्यत् ? आह- राशित्रयस्थापना 10.1830,1 / अत्राऽन्त्येन राशिना एकलक्षणेन मध्यमस्य राशेर्गुणनं एकेन च गुणितं तदेव भवतीति, जातान्यष्टादशशतानि त्रिंशदधिकानि, तेषामाद्येन राशिना दशकलक्षणेन भागो हियते, लब्धं त्र्यशीत्यधिकं दिवसशतम्। एतावदेकस्यदक्षिणस्योत्तरस्य परिमाणम्। सम्प्रति तस्य दक्षिणस्यैवाऽयनस्य परिज्ञानविषये कारकविधिं करणरूपं प्रकार पूर्वाचार्योपदेशेन प्रतिपाद्यमानंशृणु। तत्र करणमाह - सूरस्स अयणकरणं, पव्वं पन्नरससंगुणं नियमा। तिहिसंखित्तं संतं, बावट्ठीमागपरिहीणं॥ तेसीयसयविभत्त-म्मि तम्मि लद्धं तु रूवमाएजा। जइ लद्धं होइ सम, नायव्वं उत्तरं अयणं / / अह हवइ भागलद्धं, विसमं जाणाहि दक्खिणं अयणं / जे अंसा ते दिवसा होंति पवत्तस्स अयणस्स / / सूर्यस्याऽयनपरिज्ञानविषये करणमिदं, वक्ष्यमाणमिति शेषः / तदेवाहपर्व पर्वसंख्यानं पञ्चदशगुणं नियमात् कर्त्तव्यम्। किमुक्तं भवति ? युगमध्ये विवक्षितदिनात् प्राग् यानि पर्वाणि अतिक्रान्तानि, तत्संख्या पञ्चदशगुणा कर्तव्येति। ततः पर्वणामुपरियाः तिथयोऽतिक्रान्तास्तास्तत्र संक्षिप्यन्ते। ततो (बावट्ठीभाग-परिमाणमिति) प्रत्यहोरात्रम्-एकैकेन द्वाषष्टिभागेन परिहीय-मानेन ये निष्पन्ना अवमरात्रास्तेऽप्युपचाराद् द्वाषष्टिभागा इत्यु-च्यन्ते, तैः परिहीनं विधेयम् / ततस्तस्मिन् त्र्यशीत्यधिकेन शतेन विभक्ते सति यल्लब्धं रूपममेकद्वयादिकं तत् आदेयात्, गृह्णीयात, पृथक् स्थाने स्थापयेदित्यर्थः / तत्र यदि लब्धं समं द्विचतुरादिरूपं भवति, तदा उत्तरमयनमनन्तरमतीतं ज्ञातव्यम् / अथ भवति भागे लब्धं विषम, तदा जानीहि दक्षिणमयनमनन्तरमतीतम्।ये तु शेषा अंशाः पश्चादवतिष्ठन्ते, तत्कालं प्रवृत्तस्याऽयनस्य दिवसस्य दिवसा भवन्ति ज्ञातव्याः। तथाहि-युगमध्ये नवमासाऽतिक्रमे पञ्चम्यां केनापि पृष्ठम्-किमयनमनन्तरमतीतम् ? किं वा साम्प्रतमयनं वर्तते? इति। तत्र नवसु मासेषु अष्टादशपर्वाणि, ततोऽष्टादश पञ्चदशर्भिगुज्यन्ते, जाते द्वे शते सप्तत्यधिके 270 / नवमासानामुपरिपञ्चम्यां पृष्ठमिति पञ्च तत्र प्रक्षिप्यन्ते, जाते द्वे शते पञ्चसप्तत्यधिके 205, नवसु मासेषु चत्वारोऽवमरात्रा भवन्ति, तथा ते चतुर्भिर्डीनाः क्रियन्ते, जाते द्वे शते एकसप्तत्यधिके 271 / अस्य राशेस्त्र्यशीत्यधिकेन शतेन भागो हियते, लब्धमेकं रूपम्, शेषास्तिष्ठन्त्यष्टाशीतिः / तत आगतमिदमेकमयनमतीतं, तदपि च दक्षिणायनम् / साम्प्रतमुत्तरायणं वर्तते, तस्य चाऽष्टासीत्यो दिवसो व्रजतीति, तथा युगमध्ये पञ्चविंशतिमासातिक्रमे दशम्यां के नापि पृष्टम् - क्रियन्त्ययनानि गतानि ? किं वाऽनन्तरमयनमतीतं ? किं वा साम्प्रतमयनं वर्त्तते ? इति / तत्र पञ्चविंशतिमासेषु पञ्चाशत्पर्वाणि, तानि पञ्चदशभिर्गुण्यन्ते, जातानि सप्तशतानि पञ्चाशदधिकानि 750 / तत उपरितना दश प्रक्षिप्यन्ते, जातानि सप्तशतानिषष्ट्यधिकानि७६०। पञ्चविंशतिमासेषु वाऽवमरात्रा अभवन् द्वादश, ते ततोऽपनीयन्ते, जातानि सप्तशतानि अष्टचत्वारिंशदधिकानि 748 / एतेषां त्र्यशीत्यधिकेन शतेन भागो हियते, लब्धाश्चत्वारः, शेषास्तिष्ठन्ति षोडश, आगतानि चत्वारिअयनान्यतिक्रान्तानि, चतुर्थं वाऽयनमन्तरमतीतमुत्तरायणम्। सम्प्रति दक्षिणायनस्या-ऽपवर्तमानस्य षोडशो दिवसो वर्त्तते इति। एवमन्यदपि भावनीयम् / साम्प्रतं चन्द्रगतस्य दक्षिणस्योत्तरस्य वाऽयनस्य परिमाणमाह - तेरसय मंडलाई, चउचत्ता सत्तसट्ठिभागाय। अयणेण चरइ सोमो, नक्खत्ते, अद्धमासेणं / इह नक्षत्रमासार्द्धपरिमाणं चन्द्रायणम् / तत आह- नक्षत्रविषये योऽर्द्धमासस्ततस्तावत्परिमाणेनाऽयनेन सोमश्चरति / तत्र त्रयोदश मण्डलानि चतुश्चत्वारिंशतं सप्तषष्टिभागान्। किमुक्तं भवति? त्रयोदश अहोरात्राः, एकस्य अहोरात्रस्य सत्काश्चतुश्चत्वारिंशत् सप्तषष्टिभागा दक्षिणस्योत्तरस्य वा चन्द्रायणस्य परिमाणमिति। कथमेतदवसीयते इति चेत् ? उच्यते इह नक्षत्रमासस्य परिमाणं सप्तविंशतिदिनानि, एकस्य च दिनस्य सत्का एकविंशतिः सप्तविंशतिभागाः। तत एतस्याऽर्द्ध यथोक्तं चन्द्रायणपरिमाणं भवति / अथवा-युगे चन्द्रायणानां चतुस्त्रिंशदधिक शतं भवति, अहोरात्राणां च युगे अष्टादशशतानि त्रिंशदधिकानि। ततोऽत्र त्रैराशिककर्माव-काशः / यदि चतुस्त्रिंशेन शतेन अहोरात्राणामष्टादश शतानि त्रिंशदधिकानि प्राप्यन्ते, तत एकेन चन्द्रायणेन किं प्राप्नुमः? राशित्रयस्थापना-१३४,१८३०,१। अत्रमध्यस्य राशेरन्त्येन राशिना गुणनं, एके न च गुणितं तदेव भवतीति जातान्यष्टादशशतानि त्रिंशदधिकानि 1830 // तेषामाऽऽधनराशिनाचतुस्त्रिंशदधिकशत-रूपेण भागो ह्रियते, लब्धास्त्रयोदश, शेषास्तिष्ठन्त्यष्टाशीतिः। तत आद्यस्य राशेश्चतुश्चत्वारिंशता गुणने जातानि अष्टपञ्चाशत् षण्णवत्यधिकानि 5866 / तेषां चतुस्त्रिंशेनाऽधिकेन शतेन भागो ह्रियते, लब्धाश्चतुश्चत्वारिंशत् सप्तषष्टिभागाः। सम्प्रति चन्द्रायण-परिज्ञाननिमित्तं करणमाहचंदायणस्स करणं, पव्वं पन्नरससंगुणं नियमा। तिहिपखित्तं संतं, बावट्टीभागपरिहीणं / / नक्खत्तअद्धमासेण भागलद्धं तु रूवमाएज्जा। जइ लद्धं हवइ समं,नायव्वं दक्खिणं अयणं / / अह हवइ भागलद्ध, विसमं जाणाहि उत्तरं ऊ.यणं / सेसाणं अंसाणं, ओसिस्सइ सो भवे करणं / / सत्तट्ठीए विभत्ते, जंलद्धं तइ हवंति दिवसाओ। अंसा य दिवसभागा, पवत्तमाणस्स अयणस्स। चन्द्रगतस्य दक्षिणस्योत्तरस्य वा अयनस्यपरिज्ञानाय करण-मिदम्या. युगमध्ये पर्वाण्यतिक्रान्तानि तत् पर्वसंख्यानं पञ्चदशभिर्गुण्यते, ततः पर्वणामुपरि यास्तिथयोऽतिक्रान्तास्ताः तत्र प्रक्षिप्यन्ते, ततो द्वाषष्टिभागपरिहीनमवमरात्रपरिहीनं क्रियते, ततो नक्षत्रस्याऽर्द्धमासेन तस्मिन् भक्तेसतियद्लब्धमेकद्वि-त्र्यादिरूपं तद् आदेयात्, पृथक्रस्थाने स्थापयेदित्यर्थः / तत्र यदि लब्धं भवति समं, तदा दक्षिणं चन्द्रायणमनन्तरमतीतमवसेयम्। अथ भवति भागलब्धं विषम, तदा उत्तरं चन्द्रायणमनन्तरमतीतं जानीहि / इह युगस्याऽऽदौ प्रथमतः चन्द्रायणमुत्तरं, ततो दक्षिणा-ऽयनमतोऽत्र समे भागे दक्षिणायनमनन्तरमतीतमवसेयम्, विषमेलब्धे उत्तरायणमिति। शेषास्तु अंशाये उद्भरितास्तेषामंशानां सप्तषष्ट्या विभक्ते सति यद् लब्धं, तत् प्रवर्त्तमानस्याऽयनस्य भवन्ति दिवसाः, तत्राऽप्युद्धरिता अंशा दिवसभागा ज्ञातव्याः।