________________ अमावसा 744 - अभिधानराजेन्द्रः - भाग 1 अमावसा प्रथमाऽमावास्या किल संप्रति चिन्त्यमाना वर्तते, इत्येकेन गुण्यते, एकेन च गुणितं तदेव भवतीति तावानेव जातः / तत एतस्मात्- बावीसंच मुहूत्ता, छायालीसं बिसट्ठिभागा या एयं पुण्णवसुस्स य, सोहेयव्वं हवइ पुन्नं / / 1 / / इति वचनाद् द्वाविंशतिर्मुहूर्ताः, एकस्य च मुहूर्तस्य षट्चत्वारिंशद् द्वाषष्टिभागा इत्येवं प्रमाणं शोधनकं शोध्यते / तत्र षट्षष्टिमुहूर्तेभ्यो द्वाविंशतिमुहूर्ताः शुद्धाः, स्थिताः पश्चात् चतुश्चत्वारिंशत् 44 / तेभ्य एकं मुहूर्तमपाकृष्य तस्य द्वाषष्टिभागाः कृताः, ते द्वाषष्टिभागराशिमध्ये प्रक्षिप्यन्ते,जाताः सप्तषष्टिः। तेभ्यः षट्चत्वारिंशत् शुद्धाः, शेषास्तिष्ठन्ति एकविंशतिः / त्रिचत्वारिंशतौ मुहूर्तेभ्यस्त्रिंशता पुष्यः शुद्धः, स्थिताः पश्चात् त्रयोदश मुहूर्ताः, अश्लेषानक्षत्रं चाऽर्द्धक्षेत्रमिति पशदशमुहूर्तप्रमाणम् / तत इदमागतम् - अश्लेषानक्षत्रस्य एकस्मिन् मुहूर्ते चत्वारिंशति मुहूर्तस्य द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य षट्षष्टिभागेषु शेषेषु प्रथमाऽभावास्या परिसमाप्तिमुपगच्छति। संप्रत्यस्यामेव प्रथमायाममावास्यायां सूर्यनक्षत्रं पृच्छति-(तं समयं च णमित्यादि) सुगमम्। भगवानाह-(ता असिलेसाहिं चेव इत्यादि) इह य एवामावास्यासु चन्द्रनक्षत्रयोगविषये धुवराशिः, यदेव शोधनकं, स एव सूर्यनक्षत्रयोगध्रुवराशिः, तदेव शोधनकमिति। तदेव सूर्यनक्षत्रयोगेऽपि नक्षत्रं, तावदेव च तस्य नक्षत्रस्य नक्षत्रशेषमिति / तदेवाहअश्लेषाभिर्युक्तः सूर्यः प्रथमामावास्यां परिसमापयति / तस्यां च परिसमाप्तिवेलायां अश्लेषाणामेको मुहूर्तः, एकस्य च मुहूर्तस्य चत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छित्त्वा षट्षष्टिचूर्णिता भागाः शेषाः। द्वितीयामावास्या-विषयं सूत्रमाह - ता एते सि णं पंचण्ह संवच्छ राणं दोचं अमावासं चंदे केणंणक्खत्तेणं जोएति? ता उत्तराहिं फग्गुणीहि, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता, पणतीसंच बावट्ठिभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्ठिहा छेत्ता पण्णट्टि चुण्णिया भागासेसा / तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ पुच्छा ? ता उत्तराहिं चेवफग्गुणीहि, उत्तराणं फग्गुणीण चत्तालीसं मुहुत्तातंचेव०जाव पण्णट्ठि चुण्णिया भागा सेसा। (ताएएसिणमित्यादि) सुगमम्। भगवानाह-ता उत्तराहि-मित्यादि० उत्तराभ्यां फग्गुनीभ्यां युक्तश्चन्द्रो द्वितीयाममावास्यां परिसमापयति / तदानीं च द्वितीयामावास्याऽपरिसमाप्ति-वेलायामुत्तरयोः / फाल्गुन्योश्चत्वारिंशद् मुहूर्ताः, पञ्चत्रिंशद् द्वाषष्टिभागा मुहूर्तस्य, द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा तस्य सत्काः पञ्चषष्टिचूर्णिका भागाः शेषाः / तथाहि- स एव ध्रुव राशिः 665 / 1, द्वाभ्यां गुण्यते, जातं द्वात्रिंशदधिकं मुहूर्तानां शतम्। एकस्य मुहूर्त्तस्य द्वाषष्टिभागा दश, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य द्वौ चूर्णिकाभागौ 132 / 10 / 2 / तत्र प्रथमतः पुनर्वसुशोधनकं शोध्यते- द्वात्रिंशदधिकमुहूर्तशताद् द्वाविंशतिमुहूर्ताः शुद्धाः, स्थितं पश्चाद् दशोत्तरं शतम्। तेभ्यो-ऽप्येको मुहूत्र्तो गृहीत्वा द्वाषष्टिभागीक्रियते, कृत्वा च ते द्वाषष्टि- भागा द्वाषष्टिभागराशौ प्रक्षिप्यन्ते, जाता द्विसप्ततिषिष्टिभागाः / तेभ्यः षट्चत्वारिंशत् शुद्धाः / स्थिताः पश्चात् षड्-विंशतिः। नवोत्तराच / मुहूर्तशतात् त्रिंशता पुष्यः शुद्धः, स्थिताः पश्चादेकोनाशीतिः। ततोऽपि पञ्चदशभिर्मुहूर्ते रश्लेषा शुद्धा, स्थिताः पश्चाच्चतुःषष्टिः, ततोऽपि त्रिंशता मधा शुद्धा, स्थिताश्चतु:त्रिंशत् / ततोऽपि त्रिंशता पूर्वाफागुनी शुद्धा, स्थिताः पश्चाचत्वारः, उत्तराफाल्गुनीनक्षत्रं च व्यर्द्धक्षेत्रमिति पञ्चचत्वारिंशत् मुहूर्तप्रमाणम् / तत इदमागतमुत्तराफाल्गुनीनक्षत्रस्य चन्द्रयोगमुपागतस्य चत्वारिंशति मुहूर्तेषु, एकस्य चमुहूर्तस्य पञ्चत्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य पञ्चषष्टौ चूर्णिकाभागेषु शेषेषु द्वितीयाऽमावास्या समाप्तिं याति। संप्रत्यस्याममावास्यायां सूर्यनक्षत्रं पृच्छन्ति-(तं समयं चणमित्यादि) सुगमम् / भगवानाह- (ता उत्तराहिं इत्यादि) ता इति पूर्ववत् / उत्तराभ्यामेव फाल्गुनीभ्यां युक्तः सूर्यो द्वितीया-ममावास्या परिसमापयति। तदानीं च द्वितीयामावास्या-परिसमाप्तिवेलायामुत्तरयोः फाल्गुन्योश्चत्वारिंशद् मुहूर्ताः।तंचेव जावत्ति० वचनादेकस्य च मुहूर्तस्य पञ्चत्रिंशद् द्वाषष्टि-भागाः, एकस्य च द्वाषष्टिभागस्य पण्णढिं चुण्णिया भागासेसत्ति एतचोभयोरपि चन्द्रसूर्ययोर्नक्षत्रयोगपरिज्ञानहेतोः करणस्य समानत्वादवसेयम्। तृतीयामावास्याविषयं प्रश्नसूत्रमाह - ता एतेसिण पंचण्हं संवच्छराणं तचं अमावासं चंदे पुच्छा? ता हत्थेणं, हत्थस्स चत्तारि मुहुत्ता, तीसंबावट्ठिभागा मुहूत्तस्स, बावट्ठिभागं च सत्तट्ठिहा छेत्ता चउसट्ठिधुण्णिया भागा सेसा ।तं समयं च णं सूरे केणं णक्खत्तेणं जोएति पुच्छा ? ता हत्थेणं चेव। हत्थस्स णं तं चेव चंदस्स। (ता एएसि णमित्यादि) सुगमम् / भगवानाह-(ता हत्थेणं० इत्यादि) हस्तेन युक्तश्चन्द्रस्तृतीयाममावास्यां परिसमापयति / तदानीं च हस्तनक्षत्रस्य चत्वारो मुहूर्ताः, त्रिंशच द्वाषष्टिभागा मुहूर्तस्य, द्वाषष्टिभाग चैकं सप्तषष्टिधा छित्त्वा तस्य सत्काश्चतुष्पष्टिचूर्णिता भागाः शेषाः / तथाहि- स एव ध्रुवराशिः ६६५।१तृतीयस्या अमावास्यायाः संप्रति चिन्तेति त्रिभि-गुण्यते, जातमष्टनवत्यधिकं मुहूर्तानां शतम् / एकस्यच मुहूर्तस्य पञ्चदश द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः 168 / 15 / 3 / तत एतस्माद् द्विसप्तत्यधिकेन मुहूर्त-शतेन षट्चत्वारिंशता च मुहूर्तस्य द्वाषष्टिभागैः पुनर्वस्वादीनिउत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि, पश्चादवतिष्ठन्ते पश्चविंशतिमुहूर्ताः, एकस्य च मुहूर्तस्य एकत्रिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः 25 / 31 / 3 / तत आगतं हस्तनक्षत्रस्य चन्द्रेण सह योगमुपागतस्य चतुर्षु मुहूर्तेषु, एकस्य च मुहूर्तस्य त्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुष्षष्टौ, सप्तषष्टिभागेषु शेषेषु तृतीया-ममावास्यां परिसमापयति। अत्रैव सूर्यविषयं प्रश्नसूत्रमाह- (तं समयं च णमित्यादि) सुगमम् / भगवानाह-(ता हत्थेणं चेव त्ति) हस्तेनैव नक्षत्रेण युक्तः सूर्योऽपि तृतीयाममावास्यां परिसमापयति / एतच्चोभयोरपि करणस्य समानत्वादवसेयम् / एवमुत्तरसूत्रयोरऽपि द्रष्टव्यम् / शेषे विषये अतिदेशमाह- हत्थस्सणं तं चेवचंदस्स० यथा चन्द्रस्य विषये शेषमुक्तं, तदेव सूर्यस्याऽपि विषयं वक्तव्यम्। तथैवहत्थस्स चत्तारि मुहूत्ता,तीसंच बावट्ठिभागा, मुहुत्तस्स, बावट्टिभागं च सत्तट्टिहा छेत्ता,चउसहिचुण्णिया भागासेसा इति।