________________ अमावसा 743 - अभिधानराजेन्द्रः - भाग 1 अमावसा कुलमपियुनक्ति, वाशब्दोऽपिशब्दार्थः' उपकुलं वायुनक्ति। न लभते योगमधिकृत्य कुलोपकुलम्। तत्र कुलं कुलसंझनक्षत्रं श्राविष्ठीममावास्यां युजन् मघानक्षत्रं युनक्ति / एतच व्यवहारत उच्यते / व्यवहारो हि गतायामप्यमावास्यायां वर्तमानयामपि च प्रतिपदि योऽहोरात्रो मूले अमावास्यायां संबन्धः, ससकलोऽप्यहोरात्रोऽमावास्येति व्यवहियते। तत एव व्यवहारतः श्रावठ्यिाममावास्यायां मघानक्षत्रसंभवादुक्तम्, कुलं युञ्जन् मघानक्षत्रं युनक्तीति / परमार्थतः पुनः कुलं युञ्जन् पुष्यनक्षत्रं युनक्तीति प्रतिपत्तव्यम्, तस्यैव कुलप्रसिद्ध्या प्रसिद्धस्य श्राविष्ठ्याममावास्यायां संभवात् / एतच्च प्रागेव भावितम् / एवमुत्तरसूत्रमपि व्यवहारनयमतेन यथायोगं परिभावनीयम् / उपकुलं युञ्जन् अश्लेषानक्षत्रं युनक्ति। संप्रत्युपसंहारमाह-(ता साविट्ठीणं इत्यादि) यत उक्तप्रकारेण द्वाभ्यां कुलोपकुलाभ्यां श्राविष्ठ्याममावास्यायां चन्द्रयोगः समस्ति, न कुलोपकुले, न ततः श्राविष्ठीममावास्यायां कुलमपि 'याशब्दोऽपिशब्दार्थः' युनक्ति, उपकुलं वा युनक्ति इति वक्तव्यं स्यात् / यदि वा कुलेन वा युक्ता, उपकुलेन वा युक्ता सति श्राविष्ठ्यमावास्या युक्तेति वक्तव्यं स्यात्। (एवं नेयव्वमिति) एवमुक्तेन प्रकारेण शेषमप्यमावास्याजातं, नेतव्यम् / नवरं मार्गशीर्ष्या माध्यां फाल्गुन्यामाषाढ्यां च कुलोपकुलं भणितव्यम्, शेषाणां त्वमावास्यानां कुलोपकुलं नाऽस्ति, ततो न वक्तव्यम्। संप्रतिपाठकानुग्रहाय सूत्रालापका दर्श्यन्ते-"तोपोट्ठवईणं अमावासं किं कुलं जोएइ, उपकुलं वा जोएइ, कुलोवकुलं वा जोएइ ? ता कुलं वा जोएइ, उवकुलं वा जोएइ, नो लभइ कुलोवकुलं / कुलं जोएमाणे उत्तरफग्गुणी जोएइ, उवकुलं जोएमाणे पुव्वाफग्गुणी जोएइ / ता पोह्रवई णं अमावासं कुलं वा जोएइ, उवकुलं वा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता पोट्टवया अमावासा जुत्त त्ति वत्तव्वं सिया। ता आसोई णं अमावासं किं कुलं जोएइ, उवकुलं जोएइ, कुलोवकुलं जोएइ ? ता कुलं वा जोएइ, उवकुलं वा जोएइ, नो लभइ कुलोवकुलं / कुलं जोएमाणे चित्ता नक्खत्ते जोएइ, उवकुलं जोएमाणे हत्थनक्खत्ते जोएइ। ता आसोईणं अमावासं कुलं वा जोएइ, उवकुलं वा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता आसोई अमावासा जुत्ता त्ति वत्तव्यं सिया। ता कत्तियं णं अमावासं किं कुलं जोएइ, उवकुलं वा जोएइ, कुलोवकुलं वा जोएइ? ता कुलं वा जोएइ, उवकुलं वा जोएइ, नोलभइ कुलोवकुलं! कुलंजोएमाणे विसाहा नक्खत्ते जोएइ, उपकुलं जोएमाणे साति-नक्खत्ते जोएइ। ता कत्तियं णं अमावासंकुलं वा जोएइ, उवकुलं वा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता कत्तिई अमावासा जुत्त त्ति वत्तव्वं सिया। ता भग्गसिरि णं अमावासं किं कुलं जोएइ, उवकुलं वा जोएइ, कुलोवकुलं वा जोएइ? ताकुलं वा जोएइ, उवकुलं वाजोएइ, कुलोवकुलं वा जोएइ / कुलं जोएमाणे मूलनक्खत्ते जोएइ, उवकुलं जोएमाणे जेहानक्खत्ते जोएइ, कुलोवकुलंजोएमाणे अणुराहानक्खत्ते जोएइ। ता मग्गसिरिंणं अमावासं कुलं वा जोएइ, उवकुलं वा जोएइ, कुलोवकुलं वा जोएइ / कुलेण वा जुत्ता उवकुलेण वा जुत्ता कुलोवकुलेण वा जुत्ता जुत्त त्ति वत्तव्वं सिया' इत्यादि / निश्चयतः पुनः कुलादियोजना प्रागुक्तचन्द्रेण योगमधिकृत्य स्वयं परिभावनीया ! चं०प्र० 10 पाहु०। / "पंच संवच्छरिएणं जुगे बावडिंअमावासाओ'। युगे पञ्च संवत्सराः, तत्र त्रयश्चान्द्राः, तेषु षट्त्रिंशद् अमावास्या भवन्ति, द्वौ चाऽभिवर्द्धितौ संवत्सरी, तत्र षड्विंशतिरमावास्याः। स०६२ सम०। अथैवंरूपा युगे कियन्त्योऽमावास्याः, कियन्त्यश्च पौर्णमास्यः? इति युगे तद्गतसर्वसंख्यामाह - तत्थ खलु इमाओ बावट्ठि पुण्णिमाओ, बावहि अमावासाओ पण्णत्ताओ / एए कसिणा रागा बावहि, एए कसिणा विरागा बावहि, एए चउव्वीसे पव्वसते, एवं चउव्वीसे कसिणरागविरागसए। ता जावइया णं पंचण्हं संवच्छराणं समया एएणं चउव्वीसेणं सतेणं ऊणगा एवतिया णं परिमिता असंखेजा देसराग-विरागसमया भवंतीति।जत्थचउव्वीसे समयसए, तत्थ बावट्ठिसमए कसिणो रागो, बावट्ठिसमए कसिणो विरागो, तव्वञ्जियमक्खाया। (तत्थ खलु इत्यादि) तत्रयुगे खल्विमा एवंस्वरूपाद्वाषष्टिः पौर्णमास्यो, द्वाषष्टिश्चामावास्याः प्रज्ञप्ताः / तथा युगे चन्द्रमस एते अनन्तरोदितस्वरूपाः कृत्स्नाः परिपूर्णा रागा द्वाषष्टिः, अमावास्यानां युगे द्वाषष्टिसंख्याप्रमाणत्वात्, तास्वेव चन्द्रमसः परिपूर्णरागसंभवात्। एते अनन्तरोदितस्वरूपायुगे चन्द्रमसः कृत्स्ना विरागा सर्वात्मना रागाभावा द्वाषष्टिः, युगे पौर्णमासीनां द्वाषष्टिसंख्यात्मकत्वात, तास्वेव चन्द्रमसः परिपूर्णा विरागसंभवात्। तथा युगे सर्वसंख्याया एकं चतुर्विंशत्यधिक पर्वशतम्, अमावास्यापौर्णमासीनामेवपर्वशब्दस्य वाच्यत्वात्, तासांच पृथक् पृथक् द्वाषष्टिसंख्यानामेकत्र मीलने चतुर्विशत्यधिक - शतत्वात् / एवमेव युगमध्ये सर्वसंकलनया चतुर्विंशत्यधिक कृत्स्नरागविरागशतम् / (ता जावइयाणमित्यादि) यावन्तः पञ्चानां चन्द्राऽभिवर्द्धितरूपाणां संवत्सराणां समया एकेन चतु-विंशत्यधिकेन समयशतेनऊनका एतावन्तः परिमिता असंख्याता देशरागविरागसमया भवन्ति, एतेषु सर्वेष्वपि चन्द्रमसो देशतो रागविरागभावात् / यत्र चतुर्विशत्यधिकं समयशतं, तत्र द्वा-षष्टिसमयेषु कृत्स्नो रागः द्वाषष्टिसमयेषु कृत्स्नो विरागः, तेन तद्वर्जनमित्याख्यातम्, मयेति गम्यते / भगवद्वचनमेतत् सम्यक् श्रद्धयम् / चं०प्र० 13 पाहु०। सम्प्रत्यमावास्या विषयंचन्द्रनक्षत्र-योगसूर्यनक्षत्रयोगच प्रतिपिपादयिषुः प्रथमामावास्याविषयं प्रश्नसूत्रमाह - तत एतेसि णं पंचण्हं संवच्छराणं पढम अमावासं चंदे के णं णक्खत्तेणं जोएति ? ता असिले साहिं, असिलेसाणं एको मुहुत्तो, चत्तालीसंच बावट्ठिभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छेत्ता छावट्टि चुण्णिया भागा सेसा / तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ? ता असिलेसाहिं चेव, असिलेसाणं एक्को मुहत्तो, चत्तालीसं बावट्ठिभागा मुहूत्तस्स, बावट्ठिभागं च सत्तहिहा छेत्ता छावहिचुण्णिया भागा सेसा। "ता एएसि णं" इत्यादि सुगमम् / भगवानाह- (ता असिलेसाहिं इत्यादि) ता इति पूर्ववत्। अश्लेषाभिः सह संयुक्तश्चन्द्रः प्रथमामावास्यां परिसमापयति, अश्लेषानक्षत्रस्य च षट्-तारकत्वात् तदपेक्षया बहुवचनम्। तदानीं च प्रथमामावास्या परिसमाप्तिवेलायामश्लेषनक्षत्रस्य एको मुहूर्तः, चत्वारिंशच द्वाषष्टिभागा मुहूर्तस्य, द्वाषष्टिभागंच सप्तषष्टिधा छित्वा षट्-षष्टिचूर्णिका भागाः शेषाः। तथाहि-सएव ध्रुवराशिः 665 / 1 /