________________ अमावसा 741 - अभिधानराजेन्द्रः - भाग 1 अमावसा (कत्तिअंदोण्णि। तं जहा-साई, विसाहा यत्ति) अत्राऽप्येवं सूत्रपाठः"ता कत्तिअंणं अमावासं कइ नक्खत्ता जोएंति? ता दोण्णि नक्खत्ता जोएंति / तं जहा-साई, विसाहा य त्ति' एतदपि व्यवहारनयमतेन। निश्चयतः पुनस्त्रीणि नक्षत्राणि कार्तिकी-ममावास्यां परिसमापयन्ति / तद्यथा- चित्रा, स्वातिर्विशाखा च / तत्र प्रथमां कार्तिकीममावास्यां विशाखानक्षत्रं षोडशमुहूर्तेषु, एकस्यचमुहूर्तस्य षट्त्रिंशति द्वाषष्टिभागेषु, एकस्यचद्वाषष्टिभागस्य चतुर्यु सप्तषष्टिभागेषु 16636 / 4 गतेषु। द्वितीयां कार्तिकीममावास्यां स्वातिनक्षत्रं पञ्चसुमुहूर्तेषु, एकस्य चमुहूर्तस्य नवसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तदशसु षष्टिभागेषु 5 / 6 / 17 गतेषु। तृतीयां कार्तिकीममावास्यां चित्रानक्षत्रमष्टसु मुहूर्तेषु, एकस्य च मुहूर्तस्य चतुश्चत्वारिंशतिद्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रिंशति सप्तषष्टिभागेषु 8/44 / 30 / चतुर्थी कार्तिकीममावास्यां विशाखानक्षत्र त्रयो-दशमुहूर्तेषु, एकस्य च मुहूर्तस्यद्वाविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुश्चत्वारिंशति सप्तषष्टिभागेषु 13 / 22144 गतेषु / पञ्चमी कार्तिकीममावास्यां चित्रानक्षत्रमेकविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य सप्तपञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तपञ्चाशति सप्तषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तपञ्चाशति सप्तषष्टिभागेषु 21,57/62, 57/67 गतेषु समाप्तिमुपनयति। (मग्गसिरी तिण्णि। तं जहा- अणुराहा, जेट्ठा, मूलो य त्ति) अत्राऽपि सूत्राऽऽलापक एवम्- "ता मग्गसिरिंणं अमावासं कइ नक्खत्ता जोएंति ? ता तिणि नक्खत्ता जोएंति तंजहा- अणुराहा, जेठा, मूलोय' इति / एतदपि व्यवहारः / निश्चयतः पुनरिमानि त्रीणि नक्षत्राणि मार्गशीर्षीममावास्यां परिसमापयन्ति / तद्यथा-विशाखा, अनुराधा, ज्येष्ठा च। तत्र प्रथमा मार्गशीर्षीममावास्यां ज्येष्ठानक्षत्रं सप्तसु मुहूर्तेषु, एकस्य च मुहूर्तस्यैकचत्वारिंशति द्वाषष्टिभागेषु, एकस्यचद्वाषष्टिभागस्य पञ्चसु सप्तषष्टिभागेषु 7 / 41 / 5 / द्वितीयां मार्गशीर्षीममावास्यामनुराधानक्षत्रमेकादशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य चतुर्दशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्याऽष्टादशसु सप्तषष्टिभागेषु 11 / 14 / 18 / तृतीयां मार्गशीर्षीममावास्यां विशाखानक्षत्रमेकोनत्रिंशति मुहूर्तेषु, एकस्य च मुहूर्तस्य एकोनपञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टि-भागस्य एकत्रिंशति सप्तषष्टिभागेषु 26 / 46 / 31 गतेषु / चतुर्थी मार्गशीर्षी-ममावस्यामनुराधानक्षत्रं चतुर्विशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य सप्तविंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पाचत्वारिंशति सप्तषष्टिभागेषु 24 / 27 / 45 गतेषु / पञ्चमी मार्गशीर्षीममावास्यां विशाखानक्षत्रं त्रिचत्वारिंशति मुहूर्तेषु, एकस्य च मुहूर्तस्य संबन्धिनो द्वाषष्टिभागस्य अष्टापञ्चाशति सप्तषष्टिभागेषु 43 / 0 / 58 परिसमापयति। (पोसिंच दोण्णि / तं जहा-पुव्वासाढा य, उत्तरासाढा यत्ति) तत्रैवं सूत्रालापकः- "ता पोसीण अमावासं कइ नक्खत्ता जोएंति? ता दोण्णि नक्खत्ता जोएंति। तं जहा- पुव्वासाढा य, उत्तरासाढा यत्ति'' एतदपि व्यवहारत उक्तम् / निश्चयतः पुनस्त्रीणि नक्षत्राणि परिसमापयन्ति / तद्यथा-मूलं, पूर्वाषाढा, उत्तराषाढाच। तथाहि-प्रथमांपौषीममावास्यां पूर्वाषाढनक्षत्रमष्टाविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य षट्चत्वारिंशति द्वाषष्टिभागेषु, एकस्य चद्वाषष्टि भागस्य षट्सु सप्तषष्टिभागेषु 2846 / 6 गतेषु / द्वितीयां पौषीममावास्यां पूर्वाषाढानक्षत्रं द्वयोर्मुहूर्तयोरेकस्य च मुहूर्तस्य एकोनविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एकोनविंशतौ सप्तषष्टिभागेषु 2 / 16 / 16 / तृतीयामधिकमासभाविनी पौषी-ममावास्या-मुत्तराषाढानक्षत्रमेकादशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य एकोनषष्टौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु 11 / 56 / 33 गतेषु। चतुर्थी पौषीभमावास्यां पूर्वाषाढानक्षत्रं पञ्चदशसुमुहूर्तेषु, एकस्यच मुहूर्तस्यषट्पञ्चाशतिद्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तषष्टिभागेषु 155646 / पञ्चमी पौषी-ममावास्यां मूलनक्षत्रमेकोनविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चाशद् द्वाषष्टि भागेषु, एकस्य च द्वाषष्टिभागस्य एकोनषष्टी सप्तषष्टिभागेषु 165056 अतिक्रान्तेषु परिसमापयन्ति। (माहिं तिण्णि। तंजहा- अभिई, सवणो, धनिहाय त्ति) अत्रा-ऽप्येवं सूत्रालापकः- "ता माहीणं अमावासं कइनक्खता जोएंति ? ता तिण्णि नक्खत्ता जोएंति। तं जहा- अभिई, समणो, धनिट्ठा य' / एतदपि व्यवहारतः, निश्चयतः पुनरमूनि त्रीणि नक्षत्राणि माघीममावास्यां परिसमापयन्ति / तद्यथा-उत्तराषाढा, अभिजित्, श्रवणश्च / तथाहिप्रथमां माघीममावास्यां श्रवणनक्षत्रं दशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य षडविंशतौ द्वाषष्टिभागेषु, एकस्य चद्वाषष्टिभागस्याऽष्टसु सप्तषष्टिभागेषु 10 / 26 / 8 गतेषु / द्वितीयां माघीममावास्यामभिजिन्नक्षत्रं त्रिषु मुहूर्तेषु, एकस्य च मुहूर्तस्य षड्विंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य विंशतौ सप्तषष्टिभागेषु 3 / 26 / 20 गतेषु / तृतीयां माघीममावास्यां श्रवणनक्षत्रं त्रयोविंशतौ मुहूर्तेषु, एकस्यच मुहूर्तस्यैकोन-चत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशति सप्तषष्टिभागेषु 23 / 36 / 35 // चतुर्थी माघीममावास्या-मभिजिन्नक्षत्रं षट्सु मुहूर्तेषु, एकस्य च मुहूर्तस्य सप्तत्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु 6 / 37 / 47 गतेषु। पञ्चमी माघीममावास्या-मुत्तराषाढानक्षत्रं पञ्चविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य दशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षष्टौ सप्तषष्टिभागेषु 25 / 10 / 60 अतिक्रान्तेषु परिणमयति।। (फग्गुणी दोण्णि।तं जहा-सयभिसया, पुव्वभडवयायत्ति) अत्राऽप्येवं सूत्रालापकः- "ता फग्गुणी णं अमावासं कइ नक्खत्ता जोएंति ? ता दोण्णि नक्खत्ता जोएंति। तं जहा-सयभिसया, पुव्वभवया यत्ति'। एतदपि व्यवहारतः, निश्चयतः पुनरमूनि त्रीणि नक्षत्राणि फाल्गुनीममावास्यां परिसमापयन्ति / तद्यथा- धनिष्ठा, शतभिषक्, पूर्वभाद्रपदाच। तत्र प्रथमां फाल्गुनीममावास्यां पूर्वभाद्रपदा एकस्मिन् मुहूर्ते, एकस्य च मुहूर्तस्य एकत्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टि भागस्य नवसु सप्तषष्टिभागेषु 1 / 31 / 6 गतेषु / द्वितीयां फाल्गुनीममावास्यां धनिष्ठानक्षत्रं विंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य चतुषिष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्वाविंशतौ सप्तषष्टिभागेषु 20 / 4 / 22 / तृतीयां फाल्गुनीममावास्यां पूर्वाषाढानक्षत्रं चतुर्दशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य चतुश्चत्वारिंशतिद्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षट् त्रिंशति सप्तषष्टिभागेषु, 144436 // चतुर्थी फाल्गुनीममावास्यां शतभिषक्नक्षत्रं त्रिषु मुहूर्तेषु, एकस्य च मुहूर्तस्य सप्तदशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एकोनपञ्चाशति सप्तषष्टिभागेषु 3 / 17 / 46 / पञ्चमी फाल्गुनी-ममावास्यां धनिष्ठानक्षत्रं षट्सु मुहूर्तेषु, एकस्य च मुहूर्तस्य द्वि-पञ्चाशतिद्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सत्केषुद्वाषष्टौ सप्तषष्ठिभागेषु 6 / 52 / 62 गतेषुपरिणमयति।