SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ अभिहड 732 - अभिधानराजेन्द्रः - भाग 1 अभिहड मस्माकं जायते। अथ च केचित् साधवोऽतिदूरेऽवतिष्ठन्ते, केचित् पुनः प्रत्यासन्नाः, परमन्तराले नदी विद्यते, ततस्तेषु अप्कायेषु विराधनां भावयन्तोनाऽऽगमिष्यन्ति, आगता अपि च प्रचुरमोदकादिकमवलोक्य कथ्यमानमपिशुद्धमाधाकर्मशङ्कया न ग्रहीष्यन्ति। ततो यत्र ग्रामे साधयो निवसन्ति, तत्रैव प्रच्छन्नं गृहीत्वा व्रजाम इति / तथैव च कृतम्। ततो भूयोऽपि चिन्तयन्ति-यदि साधूनाहूय दास्यामस्ततोऽशुद्धमाशङ्कय ते न ग्रहीष्यन्ति / तस्मात् तद् द्विजादिभ्योऽपि किमपि दयः, तच्च तथादीयमानमपि यदि साधवो न प्रेक्ष्यन्ते, ततस्तदवस्थैव तेषामशुद्धाऽऽशङ्का भविष्यति। ततो यत्रोचारादिकार्यार्थ निर्गताः सन्तः साधवः प्रेक्ष्यन्ते, तत्र दद्म इति। एवं च चिन्तयित्वा विवक्षिते कस्मिंश्चित् प्रदेशे कस्यचिद् देवकुलस्य बहिर्भागे द्विजादिभ्यः स्तोकं स्तोकं दातुमारब्धम्, तत उच्चारादिकार्याऽर्थ विनिर्गताः केचन साधवो दृष्टाः, ततस्ते निमन्त्रिताः / यथा भोः साधवः ! अस्माकमुद्वरितं मोदकादिकं प्रचुरमवतिष्ठते, ततो यदि युष्माकं किमप्युपकरोति तर्हि तत् प्रतिगृह्यतामिति। साधवोऽपि शुद्धमित्यवगम्य प्रत्यगृह्णन्। तैश्च साधुभिः शेषाणामपि साधूनामुपादेशियथाऽमुकस्मिन् प्रदेशे प्रचुरमेषणीयमशनादि लभ्यते / ततस्तेऽपि तद्ग्रहणाय समाजग्मुः / तत्र चैके श्रावकाः प्रचुरमोदकादिकं प्रयच्छन्ति। अन्ये च मातृस्थानतो (मायाविशेषात्) निवारयन्ति- यथैवं तावद् दीयतां माऽधिकं, शेषमस्माकं भोजनाय भविष्यति / अन्ये पुनस्तानेव निवारयतः प्रतिषेधयन्ति / यथा-न केऽप्यस्माकं भोक्ष्यन्ते, सर्वेऽपि प्रायो भुक्ताः, ततः स्तोकमात्रेण किञ्चिदुरितेन प्रयोजनं, तस्माद् यथेच्छं साधुभ्यो दीयतामिति / साधवश्च ये नमस्कारसहित प्रत्याख्यानास्ते भुक्ताः, ये चाऽपौरुषीप्रत्याख्यानास्ते भुञ्जाना वर्तन्ते। ये चाऽजीर्णवन्तः पूर्वार्धादि-प्रतीक्ष्यमाणा वर्तन्ते, तेनाऽद्याऽपि भुञ्जते / श्रावकाच चिन्तयामासुः - यथेदानीं साधवो भुक्ता भविष्यन्ति, ततो वन्दित्वा निजस्थानं व्रजाम इति। एवं च चिन्तयित्वा समधिक -प्रहरवेलायां साधुभ्यो वसतावागत्य नैषेधिक्यादिकां सकलामपि श्रावकक्रिमांकृतवन्तः। ततो ज्ञातं यथाऽमी श्रावकाः परमविवेकिनो ज्ञातारश्च परम्परया विवक्षितग्राभवास्तव्याः, ततः सम्यग्विमोद्भावितम्- नूनमस्मन्निमित्तमेतत् स्वग्रामादभ्याहृतमिति, ततो यैर्भुक्तं, तैर्भुक्तमेव / ये त्वद्याऽपि पूर्वार्द्धादि प्रतीक्ष्यमाणान भुञ्जते, तैर्न भुक्तं,येऽपिच भुजाना अवतिष्ठन्ते, तैरपि यः कवल उत्क्षिप्तः, स भाजने मुच्यते, यत्तु मुखे प्रक्षिप्तं नाऽद्याऽपि गिलितं, तद् मुखाद् निःसार्य समीपस्थापिते मल्लके प्रतिक्षिपेत्। शेष तु भाजनगतं सर्वभपि परिस्थापितम्। श्रावक-श्राविकावर्गश्च सर्वोऽपि क्षमयित्वा स्वस्थानं जगाम / तत्र ये भुक्ता ये वाऽर्द्धभुक्तास्तेऽपि सर्वेऽप्यशठभावा इति शुद्धाः। सूत्रं सुगमम्। केवलं (अइदूरं जलंतरिय त्ति) केचित् अतिदूरे, केचित् नद्यन्तरिताः / उक्तं परनामाऽभ्याहृतं निशीयम् / अथ स्वग्रामा-उभ्याहृतं तदेव गाथाद्वयेनाऽऽह - लद्धं पहेणगं मे, अमुगत्थगयाए संखडीए वा। वंदणगट्ठपविट्ठा, देइ तयं पट्ठिय-नियत्ता। नीयं पहेणगं मे, नियगाणं नेच्छियं च तं तेहिं। सागरियसज्झिया वा, पडिकुट्ठा संखडे रुट्ठा। इह काचिदभ्याहृताऽऽशङ्कानिवृत्त्यर्थं किमपि गृहं प्रतिप्रस्थिता, ततो निवृत्ता सती साधोः प्रतिलाभनायोपाश्रयं प्रविश्य साधुसंमुखमेवमाहभगवन् / प्रहेणकमिदममुकस्मिन् गृहे गतया लब्धम् / यद्वा- क्वाऽपि संखड्यां संप्रति वन्दनार्थमहं प्रस्थिता, तत्राऽन्नं प्रतीष्ट, ततो यदि युष्माकमिदमुपकरोति, तर्हि प्रतिगृह्यतामिति तत् आनीतं ददाति। यदा एवमाह-निजकानां स्वजनानामर्थाय प्रहेणकं मया स्वगृहात् नीतं, परं तैर्नेच्छितं ततस्तद्गृहात् प्रतिनिवृत्ता वन्दनार्थमत्रागतेति, ततस्तद् ददाति / यदि वा मायया काचिदभ्याहृतमानीय सागारिकां शय्यातरी, यद्वा-'सज्झितं' वसतिप्रतिवेशनी पूर्वगृहीतसंकेतां, यथा साधवः शृण्वन्ति, तथा प्रवक्ति- गृहाणेदं प्रहेणकमिति। तथा च मातृस्थानतः प्रतिषिद्धम् / यथा- त्वयाऽप्यमुकस्मिन् दिने मदीयं प्रहेणके न जगृहे, ततोऽहमपि त्वदीयं न गृहीष्यामीत्येवं निषिद्धा / ततः साऽपि मातृस्थानतः किञ्चित् परुषं प्रत्युक्तवती। द्वितीययाऽपि तथैव भाषितं, त एवंपरस्परं संखडे कलहे सति सा प्रहेणकनेत्री रुष्टा रोषवती वन्दनार्थ वसतौ प्रविशति, ततोऽनन्तरं वृत्तं वृन्तातं कथयित्वा तदानीतं ददाति। उक्तं स्वग्रामाऽभ्याहृत-मपि निशीथम्। संप्रत्यनाचीर्ण निगमयन्नाचीर्णस्य भेदानाह - एयं तु अणाइन्नं, दुविहं पिय आहडं समक्खायं / आइन्नं पि य दुविहं, देसे तह देसदेसे य॥ एतत् पूर्वोक्तमभ्याहृतं निशीथ-नोनिशीथभेदाद्, यद् वा स्वग्रामपरग्रामभेदाद् द्विविधमप्याख्यातमनाचीर्णमकल्पनीयम् / संप्रत्याचीर्ण वक्ष्ये। तदपि द्विविधम्, तद्यथा- देशे, देशदेशे च / संप्रति देशस्य देशदेशस्य चस्वरूपमाह - हत्थसयं खलु देसो, आरेणं होइ देसदेसो य। आइन्नं तिन्नि गिहा, ते वि य उवओगपुव्वग्गा॥ हस्तशतं हस्तशतप्रमितं क्षेत्रो देशः। हस्तशतादारात् हस्तशत-मध्ये इत्यर्थः, देशदेशः / अत्र हस्तशतप्रमाणे आचीर्णे यदि गृहाणि त्रीणि भवन्ति, नाऽधिकानि, ततः कल्पते / तान्यपि चेद् गृहाणि उपयोगपूर्वकाणि भवन्ति / उपयोगस्तत्र दातुं शक्यते इत्यर्थः / ततः कल्पते, नाऽन्यथेति / संप्रति गृहत्रयव्यतिरेकेण हस्तशतादिसंभवं,तद्विषये कल्पविधिं चाऽऽह - परिसेवणपंतीए, दूरपएसे य घंघसालगिहे। हत्थसया आइन्नं, गहणं परओ उ पडिकुटुं / परिविष्यते ततो भोजनं दीयते येभ्यस्ते परिवेषणा भुजानाः पुरुषाः, तेषां पङ्क्तिः श्रेणिः, तस्यां तत्र, यस्मिन् पर्यन्ते साधु-संघाटको वर्तते, द्वितीयं तु देयं तिष्ठति / तत्र च स्पृष्टाऽस्पृष्टभयाऽऽदिना गन्तुं शक्यते। एवमुत्तरयोरपि पदयोर्भावनीयम् / ततः परिवेषणपक्त्याम् / यद्वादूरप्रदेशे प्रलम्बगमनमार्गछिण्डिकादौ, यदि वा घङ्घशालागृहे, हस्तशतादानीतस्य ग्रहणमाचीर्ण कल्पत इत्यर्थः / परतस्त्वानीतस्य ग्रहणं प्रतिक्रुष्टं निराकृतं तीर्थकरादिभिः। संप्रत्यस्यैवाऽऽचीर्णस्य भेदान् प्रदर्शयति - उक्कोसमज्झिमजह-नगं तु तिविहं तु होइ आइन्नं / करपरियत्त जहन्नं, सयमुक्कोस मज्झमं सेसं / /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy