________________ अब्भुट्ठाण 696 - अभिषानराजेन्द्रः - भाग 1 अब्भुट्ठाण पूर्वोक्तमेव प्रायश्चित्तम् / सूत्रार्थपौरुषी लेपप्रदानं प्रतिलेखनम् (आइयणंति) 'आदानं' समुद्देशनं धर्मकथां वा विदधानाः प्रचलायमाना वानाभ्युत्तिष्ठन्ति / अत्रापि तदेव वृषभादिविषयं प्रायश्चित्तम्। ग्लानो वा उत्तमार्थप्रतिपत्तौ वा शक्तौ सत्यां यदि नोत्तिष्ठति, तदा तस्यापि प्रायश्चित्तम् / यत एवमतः सर्वेषामभ्युत्थानं भवति / इदमत्र हृदयम्आचार्याणामनभ्युत्थाने सूत्र-पौरुषीकरणादीनि कदालम्बनानि, यथा ममायमालाप-कोऽर्द्धपछितो वर्तते, लेपो वा पात्रके नाद्यापि परिपूर्णे दत्तः, प्रतिलेखनादिकं वा सम्प्रति कुर्वाणोऽस्मि; ग्लानो वा कृतभक्तप्रत्याख्यानो वाऽहमस्मीति, किन्तु सर्वैरपिसूत्रा-ध्ययनादिव्यापार परिहृत्याभ्युत्थातव्यम्, एवं तावदुपाश्रये विधिरभिहितः। अथान्यत्र गृहादौ रथ्यादिषु वा यत्र दृश्यते, तत्राऽयं विधिःदूरागयमुढेलं, अभिनिगंतुं नमंतिणं सव्वे / दंडगहणं च मोत्तुं, दिढे उट्ठाणमन्नत्थे॥ दूरादाचार्यमागतं दृष्ट्वा आभिमुख्येन निर्गत्य सर्वेऽपिसाधवो (णमिति) एनमाचार्य नमन्ति शिरसा वन्दन्ते, यदा च गुरव उपाश्रयं प्रविशन्ति, तदा दण्डकग्रहणमपि कर्त्तव्यम्, अन्यत्र तु गृहादौ दृष्ट गुरौ दण्डकग्रहणं मुक्त्वा अभ्युत्थानमेव कर्त्तव्यम्।। एवमभ्युत्थाने के गुणाः ? इत्याहपरपक्खो य सपक्खो, होइ अगम्मत्तणं च उट्ठाणे। सुयपूयणा थिरतं, पभावणा निजरा चेव // परपक्षः परपाखण्डिनः, स्वपक्षः पार्श्वस्थादिवर्गः, तयोरगम्यत्वमनभिभवनीयता गुरोरभ्युत्थाने भवति, तथा गुरवो बहुश्रुता भवन्तीति श्रुतपूजनमपि कृतं स्यात्। अन्येषामभ्युत्थानादौ विनये सीदतां स्थिरत्वमनुष्ठितं भवति / प्रभावना च शासनस्यैवं कृता भवेत्-अहो ! शोभनमिदं प्रवचनं, यत्रैवंविधो विनयो विधीयते, निर्जराच कर्मक्षयरूपा विपुला भवति, विनयस्याभ्यन्तरत-पोभेदत्वात् तस्य च निर्जरानिबन्धनतया सुप्रतीतत्वात्। आह-यः प्रव्रजितः सर्वपापोपरतस्तस्य किं नाम विनयेन कार्यम् ? इति उच्यतेअकारणा नत्थिह कजसिद्धी, नयाऽणुवाएण उति तण्णा। उवायवं कारणसंपउत्तो, कजाणि साहेइ पयत्तवं च॥ अकारणा कार्यस्य सिद्धिरिहास्मिन् जगति नास्ति, यद्यस्य कार्यस्योपादानं कारणं, तत्तेन विना न सिध्यतीत्यर्थः / यथा मृत्पिण्डं विना घट इति / कारणसद्भावेऽपि न च नैव, अनुपायेन उपायाभावेन कार्यं भवतीति तज्ज्ञाः कार्यसिद्धिवे दिनो वदन्ति / यथा मृत्पिण्डसद्भावेऽपिचक्रचीवरोदकाद्युपायमन्तरेण घटोन सिद्ध्यति; यः पुनः उपायवान्, कारणसंयुक्तप्रयत्नवान् भवति, स साधयति, यथा कुम्भकारो मृत्पिण्डमासाद्य चक्रचीवरायु-पायसाचिव्यजनितोपष्टम्भः स्वहस्तव्यापारणरूपं प्रयत्नं कुर्वन् घट निर्माति। आह-यद्येवमुपायकारणयुक्तः कार्याणि साधयति, ततस्तु तेन किमायातम् ? इत्याह धम्मस्स मूलं विणयं वयंति, धम्मो य मूलं खलु सोगईए। सा सोगई जत्थ अबाहया उ, तम्हा निसेव्वो विणयो तदट्ठा।। धर्मस्य श्रुतचारित्ररूपस्य मूलं प्रथममुत्पत्तिकारणं विनयमभ्युत्थानादिरूपं वदन्ति, तीर्थकरादय इति गम्यते। स च धर्मः, खलु रवधारणे; सुगतेर्मूलं कारणं मन्तव्यम्। दुर्गतौ प्रपतन्तं प्राणिनं धारयति, सुगतौ च स्थापयतीति निरुक्तिसिद्धत्वात, तस्येति भावः / अथ सुगतिः कीदृशी गृह्यते ? इत्याह-सा सुगतिरभिधीयते-यत्राऽबाधना, क्षुत्पिपासारोगशोकादीनां शरीरमानसानां बाधा-नामभावसिद्धिरित्यर्थः / यत एवं तस्मात्तदर्थं सुगतिनिमित्तं विनयो निषेव्यः / इदमत्र हृदयम्- इह कार्यं तावदव्याबाधसुखलक्षणो मोक्षः, तस्य च कारणं श्रुतचारित्ररूपः सर्वज्ञभाषितो धर्मः सद् गुरोरभ्युत्थानवन्दनादिविनयलक्षणमुपाय-मन्तरेण न साधयितुं शक्यते। अतः परम्परया मोक्षकारणमेवाऽयमिति मत्वा तदर्थं विनय आसेव्यत इति। आह-युक्तं पौरुषीलेपप्रदानादिकारणा-दभ्युत्थानम्, ग्लानोत्तमार्थप्रतिपन्नयोस्तु किमर्थमभ्युत्थानम् ? उच्यतेमंगलसद्धाजणणं, विरियायारो न हाविओ चेव। एएहि कारणेहिं, अतरंतपरिण्णउट्ठाणं / / अतरन्तो ग्लानः(परिन्नत्ति) मतुप्प्रत्ययलोपात् परिज्ञावान् अनशनी, एतया गुरूणामभ्युत्थाने मङ्गलं भवति, ततश्च ग्लानस्याचिरादेव प्रगुणीभवन, कृतभक्तप्रत्याख्यानस्यतु निर्विघ्नमुत्तमार्थसाधनं स्यात्। यथा ग्लानपरिज्ञा भवति तथा गुरुमभ्युत्तिष्ठति, शेषाणामभ्युत्थाने श्रद्धाजननं विहितं, यद्येषोऽप्येवं गुरुमभ्युत्तिष्ठति, ततोऽस्माभिः सुतरामभ्युत्थात-व्यम् / अपि च-एवं कुर्वता ग्लानेन परिज्ञावता च वीर्याचारो न हापितो भवति, अत एतैः कारणैरेताभ्यामभ्युत्थातव्यम्। (अभ्युत्थानाऽकरणे प्रायश्चित्तम्) प्रकारान्तरेण प्रायश्चित्तमुपदर्शयन्नाहचंकमणे पासवणे, वीयारे साहु संजई सन्नी। सन्निणि वाइ अमचे, संघे वा रायसहिए वा / / पणगं च भिन्नमासो, मासो लहुगो य होइ गुरुगो य। चत्तारि छट्ठ लहु गुरु, छेदो मूलं तह दुगं च / / इह प्रथमगाथायाः द्वितीयगाथायाश्च पदानां यथासंख्येन योजना।' तद्यथा- आचार्य चङ्क्रमणं कुर्वाणं दृष्ट्वा नाभ्युत्तिष्ठति, पञ्चक पञ्चरात्रिंदिवानि प्रायश्चित्तम्, प्रश्रवणभूम्यामागतं नाभ्युत्तिष्ठति भिन्नमासः, विचारसंज्ञां कृत्वा समागतस्यानभ्युत्थाने मासगुरु, संयतीभिः सार्द्धमागतस्यानुत्थाने चतुर्लधु, संज्ञिनः श्रावकाः, तैः सममायातमनुत्तिष्ठतश्चतुर्गुरु, असंज्ञिभिः सममायातस्यानभ्युत्थाने षड्लघु, संज्ञिनीभिरसंज्ञिनीभिश्च स्त्रीभिः सममायान्तमनभ्युत्तिष्ठतः षड्गुरुावादिना सार्द्धमायातेअनभ्युत्थिते छेदः, अमात्येन सार्द्धमागते मूलम्, संघेन सार्द्ध समायाते अनुत्थिते अनवस्थाप्यम्, राज्ञा सहित सूरिमा-गतमनुत्तिष्ठतः पाराञ्चिकम्। अथ किमर्थं स्त्रीभिः सममायाते गुरुतरं प्रायश्चितम् ? उच्यते