________________ अप्पलेवा 680 - अभिधानराजेन्द्रः - भाग 1 अप्या *अबाध्य-त्रि० परैर्बाधितुमशक्ये, स्या०। अबज्झसिद्धंत-पुं०(अबाध्यसिद्धान्त) अबाध्यः परैर्बाधितुमशक्यः सिद्धान्तः स्याद्वादश्रुतलक्षणोऽस्य तथा / कुतीर्थिकोपन्यस्तकुहेतु समूहाशक्यबाधस्याद्वादरूपसिद्धान्तप्रणयनभणनाद् वचनातिशयसंपन्ने तीर्थकरे, "अबाध्यसिद्धान्तममर्त्यपूज्यम्' स्था०। अबज्झा-स्त्री०(अबाध्या) अयोध्यायाम् जं०४ वक्ष०ा ती०। गन्धिलाख्यविजयक्षेत्रयुगले पुरीयुगले, "दो अबज्झाओ" स्था०२ ठा०३ उ० अबद्ध-न०(अबद्ध) पद्यगद्यबन्धनरहिते ग्रन्थे, आ०म०द्विका अबद्धट्ठिय-न०(अबरास्थिक) अबद्धमस्थि यस्य तदबद्धास्थिकम् / अनिष्पन्ने फले, "भिन्ने य बद्धट्ठिए वि एवं एमेव य हति बहुबीए'" / विशे०। आ० म०। अथाऽप्यबद्धबीजे अनिष्पन्ने, बृ०१ उ०। अबद्धसुय-न०(अबद्धश्रुत) गद्यात्मके श्रुते, विशेला आ०म०। ('करण' शब्दे व्याख्या) अबद्धिय-पुं०(अबद्धिक) स्पृष्ट जीवेन कर्म, न स्कन्धबन्ध-बद्धद्रुमवदबद्धं, तदेषामस्तीत्यबद्धिकाः।"अतोऽनेकस्वरात्" 7226aa इति हैमसूत्रेण इकप्रत्ययः। स्पृष्टकर्मविपाकप्ररूपकेषु निह्नवभेदेषु, स्था०७ ठा० आ०म० / विशे। यथा चाऽबद्धिकानां दृष्टिर्गोष्ठामाहिलाद् दशपुरनगरे समुत्पन्ना तथाऽभिधित्सुराहपंचसया चुलसीया, तइया सिद्धिंगयस्स वीरस्स। तो अब्बद्धियदिट्ठी, दसउरनयरे समुप्पन्ना॥ पञ्च वर्षशतानि चतुरशीत्यधिकानि (584) तदा सिद्धिंगतस्य महावीरस्य, ततोऽबद्धिकनिहवदृष्टिदशपुरनगरे समुत्पन्नेति / कथं पुनरियमुत्पन्ना? इत्याहदसउरनगरुच्छुघरे, अजरक्खियपूसमित्ततियगं च। गोट्ठामाहिलनवमट्ठमेसु पुच्छा य विंझस्स॥ (एतद्भावार्थस्तु आर्यरक्षितवक्तव्यतातोऽवसेयो यावद् गोष्ठामाहिलनिह्नवो जातः। कथा च 'अज्जरक्खिय' शब्देऽस्मिन्नेव भागे 215 पृष्ठे समुक्ता) गोष्ठामाहिलो मथुरात आगत्य पृथगुपाश्रये स्थितः। विशे० / दुर्बलिकापुष्पमित्रोऽपवादग्रहणादिना व्युद्ग्राहयति साधून्न च व्युद्ग्राहयितुं शक्रोति, दुर्बलिकापुष्पमित्रः समीपे चाभिमानतो न किञ्चिच्छृणोति, किन्तु व्याख्यानमण्डलिकोपस्थितस्य चिन्तनिकां कुर्वतो विन्ध्यस्यान्तिके समाकर्णयति / अन्यदा चाष्टमनवमपूर्वयोः कर्मप्रत्याख्यानविचारेऽभिनिवेशाद्विप्रतिपन्नो वक्ष्यमाणनीत्या निवो जात इति / अथ प्रकृत-("सोऊण कालधम्मं, गुरुणो गच्छम्मि पूसम्मित्तं च" इत्यादि) गाथाऽक्ष-रार्थोऽनुश्रीयते-कालो मरणं, तल्लक्षणो धर्म : पर्यायः कालधर्मः, तं गुरोरार्यरक्षितस्य श्रुत्वा तथा पुष्पमित्रं च गच्छेऽधिपतिं स्थापितमाकर्ण्य गोष्ठामाहिलः संजातमत्सराध्यवसायः किलेदंचकार किमित्याहवीसुं वसही ठिओ, छिद्दऽन्नेसणपरो य स कयाए। बिंझस्स सुणइ पासेऽणुभासमाणस्स वक्खाणं / / विष्वग्वसतौ स्थितः छिद्रान्वेषणपरः स गोष्ठामाहिलः कदाचिद्विन्ध्यस्यानुभाषमाणस्य चिन्तनिकां कुर्वतः पार्श्वे व्याख्यान शृणोतीति / विशे०। (कर्मविषया विप्रतिपत्तिः) ततः किम् ? इत्याहकम्मप्पवायपुव्वे, बद्धं पुढें निकाइयं कम्म। जीवपएसेहिँ समं, सूइकलावोवमाणाउ॥ उव्वट्टणमुक्केरो, संछोभो खवणमणुभवो वा वि। अणिकाइयम्मि कम्मे, निकाइए पायमणुभवणं / सो ऊ भणइ सदोसं, वक्खाणमिणं ति पावइ जओ भे। मोक्खामावो जीव-प्पएसकम्माविभागाउ॥ इह कर्मप्रवादनाम्न्यष्टमे पूर्वे कर्मविचारे प्रस्तुते दुर्बलिका-पुष्पमित्र एवं व्याख्यानयति। तद्यथा-जीवप्रदेशैः सह बद्धं बद्धमात्रमेव कर्म भवति। यथा- अकषायस्येर्यापथप्रत्ययं कर्म, तच कालान्तरस्थितिमवाप्यैव जीवप्रदेशेभ्यो विघटते, शुष्ककुड्यापतितचूर्णमुष्टिवदिति। अन्यत्तु (पुटुं ति) बद्धमित्यत्रापि संबध्यते, ततश्च बद्धं स्पृष्ट चेत्यर्थः / तत्रबद्धजीवेन अह संयोगमात्रमापन्नं; स्पृष्ट तु जीवप्रदेशैरात्मीकृतम् / एतचेत्थं बद्धं सत्कालान्तरेण विघटते आर्द्रलेपकुड्ये सस्नेहचूर्णवदिति। (निकाइयं ति) बद्धं स्पृष्ट चेत्यत्रापि संबध्यते / ततश्चापरं किमपि कर्म बद्धं स्पृष्ट निकाचितं भवतीत्यर्थः / तत्र तदेव बद्धस्पृष्ट गाढतराध्यवसायेन बद्धत्वादपवर्त-नादिकरणायोग्यतां नीतं निकाचितमुच्यते / इदं घ कालान्तरेऽपि विपाकतोऽनुभवमन्तरेण प्रायेणाऽपगच्छति, गाढतरबद्धत्वाद्, बाह्यकुड्यश्लेषित-निबिडश्वेतकाहस्तकवदिति। अयं च त्रिविधोऽपि बन्धः सूचीकलापोपमानाद्भावनीयः / तद्यथागुणावेष्टितसूचीकलापोपमं बद्धमुच्यते. लोहपट्टबद्धसूची, संघातसदृश तु बद्धस्पृष्टमभिधीयते, बद्धस्पृष्टनिकाचितं त्वग्नितप्तघनाहति क्रोडीकृतसूचीनिचयसन्निभं भावनीयमिति। नन्वनिकाचितस्य कर्मणः को विशेषः ? इत्याह-(उव्वट्टणेत्यादि) इह कर्मविषयाण्यष्टौ करणानि भवन्ति / उक्तं च- "बंधणसंकमणुवट्टणा य उव्वट्टणा उईरणया। उवसावणा निधत्ती, निकायणा वत्ति करणाइ" ||1|| तत्र निकाचिते कर्मणि स्थित्यादिखण्डनरूपा (उवट्टण त्ति) अपवर्तना प्रवर्तते। तथा(उक्केरो त्ति) स्थित्यादिवर्द्धनरूप उत्कोच उद्वर्तना। तथा- (संछोभो त्ति) असातादेः सातादौ क्षेपणरूपः संक्रमः / तथा-(खवणं ति) प्रक त्यन्तरसंक्रमितस्य कर्मणः प्रदेशोदयेन निर्झरणं क्षपणम् / तथा(अणुभवोत्ति) स्वेन स्वेन रूपेण प्रकृतीनां विपाकतो वेदनमनुभवः। इदं चोपलक्षणमुदीरणादीनां, तदेतान्यपवर्तनादीनि सर्वाण्यप्यनिकाचिते कर्मणि प्रवर्तन्ते / निकाचिते तु प्रायो विपाकेनानुभवमेव प्रवर्तते, न पुनरपवर्तनादीनीत्यनयोर्विशेषः / समाचीर्णविकृष्टतपसामुत्कटाध्यवसायबलेन 'तवसा उ निकाइयाणं पीति' वचनान्निकाचितेऽपि कर्मण्यपवर्त्तनादिकरण-प्रवृत्तिर्भवतीति। प्रायोग्रहणम्। तदत्र व्याख्याने क्षीरनीरन्यायेन वह्नितप्तायोगोलकन्यायेन वा जीवप्रदेशैः सह कर्म