________________ अप्पाबहुय(ग) ६६८-अभिधानराजेन्द्रः- भाग 1 अप्पाबहुय(ग) तेभ्योऽपि भरतैरवतवर्षकर्मभूमकमनुष्यपुरुषाः संख्येयगुणाः, अजितस्वामिकाले उत्कृष्ट पदे स्वभावत एव भरतैरवतेषु च मनुष्यपुरुषाणामतिप्राचुर्येण संभवात् / स्वस्थाने च द्वयेऽपि परस्परं तुल्याः, क्षेत्रस्य तुल्यत्वात् / तेभ्योऽपि पूर्व विदेहापरविदेहादकर्मभूमकमनुष्यपुरुषाः संख्येयगुणाः, क्षेत्रबाहुल्यात् / अजितस्वामिकाले इव स्वभावत एव मनुष्यपुरुषाणां प्राचुर्येण संभवात् / स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्योऽप्यनुत्तरोपपातिदेवपुरुषा असंख्येयगुणाः, क्षेत्रपल्योपमासंख्येयभागवाकाशप्रदेशप्रमाणत्वात् / तदनन्तरमुपरितनगवेयकप्रस्तटदेवपुरुषा अच्युतकल्पदेवपुरुषा आरणकल्पदेवपुरुषाः प्राणतकल्पदेवपुरुषा आनतकल्पदेवपुरुषा यथोत्तरं संख्येयगुणाः / भावना प्रागिव / तदनन्तरं सहस्रारकल्पदेवपुरुषा लान्तककल्पदेवपुरुषा ब्रह्मलोककल्पदेवपुरुषामाहेन्द्रकल्पदेवपुरुषाः सनत्कुमारकल्पदेवपुरुषा ईशानकल्पदेवपुरुषा यथोत्तरम-संख्येयगुणाः, सौधर्मकल्पदेवपुरुषाः संख्येयगुणाः, सौधर्मकल्प-देवपुरुषेभ्यो भवनवासिदेवपुरुषा असंख्येयगुणाः, भावना सर्वत्रापि प्रागिव। तेभ्यः खचरतिर्यग्योनिकपुरुषा असंख्येयगुणाः, प्रतरासंख्येयभागवर्त्य संख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् / तेभ्यः स्थलचरतिर्यग्योनिकपुरुषाः संख्येयगुणाः, तेभ्योऽपि जलचरतिर्यग्योनिकपुरुषाः संख्येयगुणाः / युक्तिस्त्रापि प्रागिव / तेभ्योऽपि वाणमन्तरदेवपुरुषाः संख्येयगुणाः, संख्येययोजनकोटीकोटिप्रमाणैकप्रादेशिक श्रेणिकमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति, तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् / तेभ्यो ज्योतिष्कदेवपुरुषाः संख्येय-गुणाः / युक्तिः प्रागेवोक्ता / जी०२ प्रति० / इति प्रतिपादितानि स्त्रीपुंनपुंसकानां प्रत्येकमल्पबहुत्वानि। इदानीं समुदितानामुच्यन्तेन्तानि चाऽष्ट / तत्र- प्रथमं सामान्येन तिर्यस्त्रीपुरुषनपुंसकप्रतिबद्धम्, एवमेतदेव मनुष्यप्रतिबद्धं द्वितीयम्, देवस्त्रीपुरुषनारकनपुंसकप्रतिबद्ध तृतीयम्, सकल-सन्मिश्रं चतुर्थम्, जलचर्यादिविभागतः पञ्चमम्, कर्मभूमि-जादिमनुष्यादिविभागतः षष्ठं, भवनवास्यादिदेव्यादिविभागतः सप्तमं, जलचर्यादिविजातीयव्यक्तिव्यापकमष्टमम्। तत्र प्रथममभिधित्सुराहएते सि णं मंते ! तिरिक्खजोणित्थीणं तिरिक्खजोणियपुरिसाणं तिरिक्खजोणियणपुंसकाण य कयरे कयरेहिंतो० जाव विसे साहिया ? गोयमा ! सव्वत्थोवा तिरिक्खजोणियपुरिसा, तिरिक्खजोणियत्थीओ संखेनगुणाओ, तिरिक्खजोणियणपुंसका अणंतगुणा। सर्वस्तोकास्तिर्यक्पुरुषाः, तेभ्यस्तिक स्त्रियः संख्येयगुणाः, त्रिगुणत्वात्। ताभ्यस्तिर्यङ्नपुंसका अनन्तगुणाः, निगोद जीवानामनन्तत्वात् // 1 // संप्रति द्वितीयमल्पबहुत्वमाहएते सि णं भंते ! मणस्सित्थीणं मणुस्सपुरिसाणं मणुस्सणपुंसकाणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा मणुस्सपुरिसा, मणुस्सित्थीओ संखेज्जगुणाओ, मणुस्सणपुंसका असंखेजगुणा। सर्वस्तोका मनुष्यपुरुषाः, कोटीकोटिप्रमाणत्वात् / तेभ्यो मनुष्यास्त्रियः संख्येयगुणाः, सप्तविंशतिगुणत्वात् / तेभ्यो मनुष्यनपुंसकाश्च संख्येयगुणाः, श्रेण्यसंख्येयभागगतप्रदेशराशिप्रामाणत्वात् // 2 // संप्रति तृतीयमल्पबहुत्वमाहएतेसि णं भंते ! देवित्थीणं देवपुरिसाणं णेरइयनपुंसकाण य कयरे कयरेहिंतो० जाव विसेसाहिया ? गोयमा ! सव्वत्थोवा नेरइयनपुंसगा, देवपुरिसा असंखेजगुणा, देवित्थीओ संखेजगुणाओ। सर्वस्तो का नैरयिकनपुंसकाः, अङ्गुलमात्रक्षेत्रप्रदेशराशी स्वप्रथमवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभः प्रदेशास्तावत्प्रमाणत्वात् / तेभ्यो देवपुरुषा असंख्येयगुणाः, असंख्येययोजनकोटीको टिप्रमाणायां शुचौ यावन्तो नभःप्रदेशास्तावत्प्रमाणासु धनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् / तेभ्यो देवस्त्रियः संख्येयगुणाः, द्वात्रिंशद्गुणत्वात्।।३।। सम्प्रति सकलसंमिश्रं चतुर्थमल्पबहुत्वमाहएतेसि णं भंते ! तिरिक्खजोणित्थीणं तिरिक्खजोणियपुरिसाणं तिरिक्खजोणियनपुंसगाणं,मणुस्सित्थीणं मणुस्सपुरिसाणं मणुस्सनपुंसगाणं, देवित्थीणं देवपुरिसाणं नेरइयनपुंसकाण य कयरे कयरेहिंतो०? गोयमा ! सव्वत्थोवा मगुस्सपुरिसा, मणुस्सित्थीओ संखेजगुणाओ, मणुस्सणपुंसका असंखेनगुणा, नेरइयणपुंसका असंखेज्जगुणा, तिरिक्खजोणियपुरिसा असंखेज्जगुणा, तिरिक्खजोणित्थियाओ संखेनगुणाओ, देवपुरिसा असंखेजगुणा, देवित्थियाओ संखेजगुणाओ, तिरिक्खजोणिय-नपुंसका अणंतगुणा। सर्वस्तोका मनुष्यपुरुषाः, तेभ्यो मनुष्यस्त्रियः संख्येयगुणाः। तेभ्यो मनुष्यनपुंसका असंख्येयगुणाः / अत्र युक्तिः प्रागुक्ता / तेभ्यो नैरयिकनपुंसका असंख्ये यगुणाः, असंख्येयश्रेण्याकाशप्रदेशराशिप्रमाणत्वात् / तेभ्यस्तिर्यग्योनिकपुरुषा असंख्येय-गुणाः, तेभ्यस्तिर्यग्योनिकस्त्रियः संख्यातगुणाः, त्रिगुणत्वात्। ताभ्यो देवपुरुषाः संख्येयगुणाः, प्रभूततरप्रतरासंख्येयभागवर्त्य संख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् / तेभ्यो देवस्त्रियः संख्येयगुणाः, द्वात्रिंशद्गुणत्वात् / ताभ्यस्तिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तत्वात् // 4 // संप्रति जलचर्यादिविभागतः पञ्चममल्पबहुत्वमाहएतासिणंभंते!तिरिक्खजोणित्थीणंजलयरीणंथलयरीणंखहयरीणं, तिरिक्खजोणियपुरिसाणं जलयराणं थलयराणं खहयराणं, तिरिक्खजोणियणपुंसकाणं, एगिदियतिरिक्ख जोणियणपुंसकाणं, पुढविक्काइयएगिं दियतिरिक्ख जोणियनपुंसगाणं० जाव वणस्सइकाझ्यएगिदियतिरिक्खजोणियन-पुंसगाणं,बेइंदियतिरिक्खजोणियण पुंसकाणं, तेइंदियचतुर्रि-दियपंचेंदियतिरिक्खजोणियण पुंसकाणं, जलयराणं थलयराणं खयराणं कयरे कयरेहिंतो० जाव विसेसाहिया वा ? गोयमा! सव्वत्थोवा खहयरतिरिक्ख