________________ अप्पाबहुय(ग) 666- अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) तिरिक्खजोणियण पुंसकाणं,जलयराणंथलयराणं खहयराणं, मणुस्सणं घुसकाणं कम्मभूमिकाणं अकम्म-भूमिकाणं अंतरदीवकाण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा अहेसत्तमपुढविनेरइयनपुंसका, छठ्ठपुढविनेरइयनपुंसका असंखेजगुणा० जाव दोचा पुढविनेरइयनपुंसका असंखेजगुणा, अंतरदीवगमणुस्सण-पुंसका असंखेजगुणा, देवकुरूत्तरकुरु अकम्मभूमिका दो वि संखेनगुणा, जाव पुव्वविदेहअवरविदेहकम्मभूमगमणु-स्सणपुंसका दो वि संखेज्जगुणा, रयणप्पभापुढविनेरइयण-पुंसका असंखेजगुणा, खहयरपंचेंदियतिरिक्खजोणियण-पुंसका असंखेनगुणा, थलयरा संखेजगुणा, जलयरा संखेजगुणा, चतुरिंदियतिरिक्खजोणियनपुंसका विसेसाहिया, तेइंदियनपुंसगा विसेसाहिया, बेइंदियनपुंसगा विसेसाहिया, तेउक्काइयएगिदियनपुंसगा असंखेजगुणा, पुढविकाइयएगिंदियनपुंसगा विसेसाहिया, आउक्काइय-नपुंसगा विसेसाहिया, वाउक्काइया विसेसाहिया, वणस्सइकाइयएगिं दियतिरिक्ख जोणियणपुंसका अणंतगुणा! सर्वस्तोकाः अधःसप्तमपृथिवीनैरयिकनपुंसकाः, तेभ्यः षष्ठपञ्चमचतुर्थतृतीयद्वितीयपृथिवीनैरयिकनपुंसका यथोत्तर-मसंख्येयगुणाः, द्वितीयपृथिवीनै रयिकनपुंसके भ्योऽन्तरद्वीपजमनुष्यनपुंसका असंख्येयगुणाः, एतदसंख्येयगुणत्वं संमूर्छनजमनुष्यापेक्षं, तेषां नपुंसकत्वाद्, एतावतां च तत्र संमूर्छनसंभवात् / तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसकाः, हैमवतहरण्यवताकर्मभूमकमनुष्यनपुंसकाः, भरतैरवत-कर्मभूमकमनुष्यनपुंसकाः पूर्वविदेहाऽपरविदेहकर्मभूमकमनुष्य-नपुंसका यथोत्तरं संख्येयगुणाः, स्वस्थानचिन्तायां तु द्वये परस्परं तुल्याः , पूर्व विदेहाऽपरविदेहकर्मभूमकमनुष्यपुंसकेभ्योऽस्यां प्रत्यक्षत उपलभ्यमानायां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असंख्येयगुणाः, तेभ्यः खचरपञ्चेन्द्रियतिर्यग्यो निकनपुंसकाः असंख्येयगुणाः, तेभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका जलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं संख्येयगुणाः, जलचरपञ्चेन्द्रियनपुंसकेभ्यश्चतुरिन्द्रियत्रीन्द्रियतिर्यग्यो निकन-पुंसका यथोत्तरं विशेषाधिकाः, द्वीन्द्रियतिर्यग्योनिकनपुंसकेभ्य स्तेजस्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका असंख्येयगुणाः, तेभ्यः पृथिव्यम्बुवायुतिर्यग्योनिकनपुंसका यथोत्तरं विशेषा-धिकाः, वाय्वेकेन्द्रियतिर्यग्योनिकनपुंसकेभ्यो वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः / युक्तिः सर्वत्राऽपि प्रागुक्तानुसारेण स्वयं भावनीया / इत्युक्तानि पञ्च नपुंसकानामपि अल्पबहुत्वानि। जी०२ प्रति०। साम्प्रतं पुरुषाणामुच्यन्ते - तानि च पञ्च / तद्यथा-प्रथम सामान्याल्पबहुत्वम् 1, द्वितीयं त्रिविधतिर्यक्पुरुषविषयम् 2, तृतीयं त्रिविधमनुष्यपुरुषविषयम् 3, चतुर्थं चतुर्विधदेव-पुरुषविषयम् 4, पञ्चम मिश्रपुरुषविषयम् / तत्र प्रथमं तावदभिधित्सुराह(एतेसिणं भंते) देवपुरिसाणं भवणवासीणं वाणमंतराणं जोइसियाणं वेमाणिथाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा वेमाणियदेवपुरिसा, भवणवइदेवपुरिसा असंखेजगुणा, वाणमंतरदेवपुरिसा असंखेजगुणा, जोइसियदेवपुरिसा संखेज्जगुणा। (एएसि णं भंते ! इत्यादि) सर्वस्तोका मनुष्यपुरुषाः, संख्येयकोटीकोटिप्रमाणत्वात् / तेभ्यः तिर्यग्यो निकपुरुषा असंख्येयगुणाः, प्रतरासंख्येयभागवर्त्य संख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्तेषाम् / तेभ्यो देवपुरुषाः संख्येयगुणाः, बृहत्तरप्रतरासंख्येयभागवर्त्यसंख्येयश्रेणिगतानकाशप्रदेशराशितुल्यत्वात्। तिर्यग्योनिकपुरुषाणां यथा तिर्यग्योनिकस्त्रीणां, मनुष्यपुरुषाणां यथा मनुष्यस्त्रीणामल्पबहुत्वं वक्तव्यम्। संप्रति देवपुरुषाणामल्पबहुत्वमाह- सर्वस्तोका अनुत्तरोपपातिकदेवपुरुषाः, क्षेत्रपल्योपमासंख्येयभागवाकाश-प्रदेशराशिप्रमाणत्वात् / तेभ्य उपरितन| वेयकदेवपुरुषाः संख्येयगुणाः, बृहत्तरक्षेत्रपल्योपमासंख्येयभागवर्तिनभः प्रदेशराशिमानत्वात् / कथमेतदवसेयमिति चेत् ? उच्यते-विमानबाहुल्यात् / तथाहिअनुत्तरदेवानां पञ्च विमानानि, विमानशतं तूपरितनगवेयकप्रस्तटे, प्रतिविमानं चासंख्येया देवाः, यथाऽत्राऽधोऽधोवर्तीनि विमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्ते; ततोऽवसीयते अनुत्तरविमानवासिदेवपुरुषापेक्षयाबृहत्तरक्षेत्रपल्योपमाऽसंख्येयभागवर्तिनभःप्रदेशराशिप्रमाणा उपरितनप्रैवेयकप्रस्तटे देवपुरुषाः, एवमुत्तरत्रापि भावना विधेया। तेभ्यो मध्यमग्रैवेयकप्रस्तटे देवपुरुषाः संख्येयगुणाः, तेभ्योऽप्यधस्तनप्रैवेयकप्रस्तटे देवपुरुषाः संख्येयगुणाः, तेभ्योऽप्यच्युतकल्पदेवपुरुषाः संख्येयगुणाः, यद्यप्यारणा-ऽच्युतकल्पौ समश्रेणिको समविमानसंख्याको च, तथापि कृष्णपाक्षिकास्तथास्वाभाव्यात् प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते। अथ के ते कृष्णपाक्षिकाः ? उच्यते- इह द्वये जीवाः, तद्यथा-कृष्णपाक्षिकाः, शुक्लपाक्षिकाचा तत्र येषां किञ्चिदूनोपार्द्धपुद्गलपरावर्तः संसारस्ते शुक्लपाक्षिकाः, इतरे दीर्घसंसारभाजिनः कृष्णपाक्षिकाः / उक्तं च- "जेसिमवड्डो पोग्गलपरियट्टो सेसओ य संसारो / ते सुक्कपक्खिया खलु, अहिए पुण कण्हपक्खीओ" ||१||अत एव स्तोकाः शुक्लपाक्षिकाः, अल्पसंसाराणां स्तोकानामेव भावात् / बहवः कृष्णपाक्षिकाः, दीर्घसंसाराणामनन्तानां भावात्। अथ कथमेतदवसातव्यं कृष्णपक्षिकाः प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते ? उच्यते- तथास्वाभाव्यात् / तच तथास्वाभाव्यमेवं पूर्वाचायैर्युक्तिभिरुपबृंहितम्, कृष्णपाक्षिकाः खलु दीर्घसंसारभाजिन उच्यन्ते, दीर्घसंसारभाजिनश्च बहुपापोदयात् बहुपापोदयाश्व क्रूरकर्माणः, क्रूरकर्माणश्च प्रायस्तथास्वाभाव्यात्। तद्भवसिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते, यत उक्तम्- "पायमिह कूरकम्मा, भवसिद्धिया वि दाहिणि-ल्लेसु ! नेरइयतिरियमणुया, सुरा य ठाणेसु गच्छंति" ||1|| ततो दक्षिणस्यां दिशि प्राचुर्येण कृष्णपाक्षिकाणां संभवादुप-पद्यतेऽच्युतकल्पदेवपुरुषापेक्षया आरणकल्पदेवपुरुषाः संख्येयगुणाः, तेभ्योऽपि प्राणतकल्पदेवपुरुषाः संख्येयगुणाः, तेभ्योऽप्यानतकल्प-देवपुरुषाः संख्येयगुणाः, अत्रापि प्राणतकल्पापेक्षया संख्येयगुणत्वं, कृष्णपाक्षिकाणां दक्षिणस्यां दिशि प्राचुर्येण भावात् / एते च सर्वे ऽप्यनुत्तरविमानवास्यादय आनतकल्पवासिपर्यन्तदेवपुरुषाः प्रत्येक क्षेत्रपल्योपमसंख्येय