SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ अस्थालोयण 512- अभिषानराजेन्द्रः - भाग 1 अत्थावत्ति अत्थालोयण-न०(अर्थालोचन) अर्थस्य सामान्येन ग्रहणे, आ०चू० १अ० अत्थावग्गह-पुं०(अर्थावग्रह) अवग्रहणमवग्रहः, अर्थस्याऽवग्रहोऽर्थावग्रहः / अनिर्देशसामान्यमात्ररूपाद्यर्थग्रहणे, आह च नन्द्यध्ययनचूर्णिकृत्-"सामन्नरूवाइविसेसणरहियस्स अवग्गहत्ति" प्रज्ञा०५ पद / आचा अत्थावत्ति-स्त्री०(अर्थापत्ति) अर्थस्य अनुक्तार्थस्य, आपत्तिः सिद्धिः / वाच० "प्रमाणषट्कविज्ञातो, यत्रार्थो नान्यथा भवेत्। अदृष्ट कल्पयेदन्यं, साऽर्थापत्तिरुदाहृता'' ||1 / / इत्युक्तलक्षणे प्रमाणभेदे, रत्ना०२ परि०। सूत्र०ा दृष्टः श्रुतो वाऽर्थोऽन्यथा, नोपपद्यत इति अदृष्टाऽर्थकल्पने, सम्म० / तां प्रमाणचतुष्कवादिनोऽनुमानेऽन्तर्भावयन्ति, तस्याः प्रमाणत्वेऽनुमानेऽन्त-भूतत्वात्। तथाहिदृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टा-ऽर्थकल्पनाऽर्थापत्तिः। न चाऽसावर्थोऽन्यथाऽनुपपद्यमानत्वानवगमे अदृष्टार्थ परिकल्पनानिमित्तम् / अन्यथा स येन विनोपपद्यमानत्वेन निश्चितस्तमपि परिकल्पयेत्, येन विना नोपपद्यते तमपि वा न कल्पयेत् अनवगतस्याऽन्यथाऽनुपपन्नत्वेनाऽर्थापत्युत्थापकस्याऽर्थस्याऽन्यथाऽनुपपद्यमानत्वे सत्यप्यदृष्टार्थपरिकल्पकत्वासं भवात् / संभवे वा लिङ्ग स्याऽप्यनिश्चितनियमस्य परोक्षार्थानुमापकत्वं स्यादिति, तदपि नाऽपित्त्युत्थापकादर्थाद् भिद्येत / स चाऽन्यथाऽनुपपद्यमानत्वाऽवगमः, तस्याऽर्थस्य न भूयोदर्शननिमित्तः सपक्षे / अन्यथा लोहलेख्यं वजं, पार्थिवत्वात्, काष्ठ वदिति अत्राऽपि साध्यसिद्धिः स्यात् / नाऽपि विपक्षे तस्यानुपलम्भनिमित्तोऽसौ। व्यतिरेकनिश्चायकत्वेनानुपलम्भस्य पूर्वमेव निषिद्धत्वात्; किंतु विपर्यये तद्बाधकप्रमाणनिमित्तः / तच बाधक प्रमाणमर्थापत्तिप्रवृत्तेः प्रागेवानुपपद्यमानस्यार्थस्य तत्र प्रवृत्तिमदभ्युपगन्तव्यम् / अन्यथाऽर्थापत्त्या तस्याऽन्यथाऽनुप पद्यमानत्वावगमेऽभ्युपगम्यमाने यावत् तस्याऽन्यथाऽनुपपद्यमानत्वं नाऽवगतम्, न तावदर्थापत्तिप्रवृत्तिः; यावच्च न तत्प्रवृत्तिः, न तावदर्थापत्त्युत्थापकस्याऽर्थस्याऽन्यथानुपपद्य-मानत्वावगम इतीतरेतराश्रयत्वान्नाऽर्थापत्तिप्रवृत्तिः। अत एव यदुक्तम्अविनाभाविता चात्र, तदैव परिगृह्यते। न प्रागवगतेत्येवं, सत्यप्येषा न कारणम् / / 1 / / तेन संबन्धवेलायां, संबन्ध्यन्यतरो धुवम्। अर्थापत्त्यैव मन्तव्यः, पश्चादस्त्वनुमानता // 2 // इत्यादि। तन्निरस्तम्। एवमभ्युपगमे अर्थापत्तेरनुत्थानस्य प्रतिपादित-त्वात्। स च तस्य पूर्वमन्यथाऽनुपपद्यमानत्वावगमः किं दृष्टान्त धर्मिप्रवृत्तप्रमाणसंपाद्यः ? आहोस्वित् स्वसाध्यधर्मि प्रवृत्तप्रमाणसंपाद्यः ? इति तत्र यद्याद्यः पक्षः / तदाऽत्रापि वक्तव्यम्। किं तद् दृष्टान्तधर्मिणि प्रवृत्तं प्रमाणं साध्यधर्मिण्यपि साध्या-ऽन्यथाऽनुपपन्नत्वं तस्याऽर्थस्य निश्चाययति, आहोस्विद् दृष्टान्तधर्मिण्येव / तत्र यद्याद्यः पक्षः; तदाऽर्थापत्त्युत्थापक-स्याऽर्थस्य, लिङ्ग स्य वा स्वसाध्यप्रतिपादनव्यापार प्रति न कश्चिद् विशेषः / अथ द्वितीयः / सन युक्तः। न हि दृष्टान्तधर्मिणि निश्चितस्वसाध्यान्यथाऽनुपपद्यमानत्वाऽर्थोऽन्यत्रसाध्यधार्मिणि तथा भवति / न च तथात्वेनाऽनिश्चितः स साध्यधर्मिणि स्वसाध्यं परिकल्पयतीति युक्तम्, अतिप्रसङ्गात् / अथ लिङ्गस्य दृष्टान्तधर्मिप्रवृत्तप्रमाणत्ववशात् सर्वोपसंहारेण स्वसाध्यनियतत्वनिश्चयः / अपित्त्युत्थापक स्य त्वर्थस्य स्वसाध्यधर्मिण्येव प्रवृत्तात् प्रमाणात् सर्वो पसंहारेणादृष्टार्थाऽन्यथाऽनुपपद्यमानत्वनिश्चय इति लिङ्गार्थापत्त्युत्थापकयोर्भेदः / नाऽस्माद् भदादर्थापत्तेरनुमानं भेदमासादयति / अनुमानेऽपि स्वसाध्यधर्मिण्येव विपर्ययाद्धेतुव्यावर्त्तकत्वेन प्रवृत्तं प्रमाणं सर्वो पसंहारेण स्वसाध्यनियतत्वनिश्चायकमभ्युपगन्तव्यम् / अन्यथा सर्वभनेकान्तात्मकं , सत्त्वादित्यस्य हेतोः पक्षीकृत-वस्तुव्यतिरेकेण दृष्टान्तधर्मिणोऽभावात्कथं तत्र प्रवर्त्तमानं बाधकं प्रमाणमनेकान्तात्मकत्वनियतत्वमवगमयेत् सत्त्वस्य ? नच साध्यधर्मिणि दृष्टान्तधर्मिणि चप्रवर्तमानेन प्रमाणेना-ऽर्थापत्त्युत्थापकस्यार्थस्य लिङ्गस्य च यथाक्रम प्रतिबन्धो गृह्यत इत्येतावन्मात्रेणाऽर्थापत्त्यनुमानयोर्भेदोऽभ्युपगन्तुं युक्तः। अन्यथा पक्षधर्मत्वसहितहेतुसमुत्थादनुमानात् तद्रहितहेतु समुत्थमनुमानं प्रमाणान्तरं स्यादिति प्रमाणषट् कवादो विशीर्येत / नियमवतो लिङ्गात् परोक्षार्थप्रतिपत्तेरविशेषात्, न ततः तदिन्नमित्यभ्युपगमे, स्वसाध्याविनाभूतादर्थादर्थप्रतिपत्तेरविशेषादनुमानादपित्तेः कथंनाऽभेदः? सम्म० अपित्तिरपि प्रमाणान्तरम्, यतस्तस्या लक्षणम्- दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टार्थकल्पनम्। कुमारिलोऽप्येत-देव भाष्यवचन विभजन्नाहप्रमाणषट्कविज्ञातो, यत्रार्थो नान्यथा भवेत्। अदृष्ट कल्पयत्यन्तं, साऽपित्तिरुदाहृता / / 1 / / दृष्टा पञ्चभिरप्यस्माद्, भेदेनोक्ता श्रुतोद्भवा। प्रमाणग्राहिणीत्वेन, यस्मात्पूर्वविलक्षणा // 2 // प्रत्यक्षादिभिः षड्भिः प्रमाणैः प्रसिद्धो योऽर्थः स येन विना नोत्पद्यते तस्यार्थस्य प्रकल्पनमर्थापत्तिः। यथाऽग्नेर्दाहकत्वम्, तत्र प्रत्यक्षपूर्विकाऽर्थापत्तिः। यथाऽग्नेः प्रत्यक्षेणोष्णस्पर्श-मुपलभ्य दाहकशक्तियोगोऽ पित्त्या प्रकल्प्यते / न हि शक्ति-रध्यक्षपरिच्छेद्या; नाऽप्यनुमानादिसमधिगम्या; प्रत्यक्षेणाऽर्थेन शक्तिलक्षणेन कस्यचिदर्थस्य संबन्धाऽसिद्धः। अनुमान-पूर्विका त्वर्थापत्तिर्यथाऽऽदित्यस्य देशान्तर प्राप्त्या देवदत्तस्येव गत्यनुमानम् / ततो गमनशक्तियोगोऽर्थापत्त्याऽवसीयते / उपमानपूर्विका त्वर्थापत्तिर्यथा- गवयवद् गौरित्युक्तेराद् वाहदोहादिशक्तियोगस्तस्याः प्रतीयते, अन्यथा गोत्वस्यैवाऽयोगात् / शब्दपूर्विकाऽर्थापत्तिर्यथा- शब्दादर्थप्रतीतेः शब्दस्यार्थेन संबन्धसिद्धिः। अर्थापत्तिपूर्विकाऽर्थापत्तिर्यथोक्तप्रकारेण शब्दस्याऽर्थेन संबन्धसिद्धावर्थनित्यत्वसिद्धिः, पौरुषेयत्वे शब्दस्य संबन्धाऽयोगात्। अभावपूर्विकाऽर्थापत्तिर्यथाजीवतो देवदत्तस्य गृहेऽदर्शनादर्थाद् बहिर्भावः / अत्र चतसृभिरर्थापत्तिभिः शक्तिः साध्यते। पञ्चम्यां नित्यता। षष्ठ्यां गृहाबहिर्भूतो देवदत्त एव साध्यते। इत्येवं षट्-प्रकाराऽर्थापत्तिः / अन्ये तु- श्रुतार्थापत्तिमन्यथोदाहरन्ति 'पीनो देवदत्तो दिवा न भुक्ते' इति वाक्यश्रवणाद् रात्रिभोजनवाक्यप्रतिपत्तिः श्रुतार्थापत्तिः / गवयोपमिताया गोस्तज्ज्ञानग्राह्यताशक्तिरुपमान-पूर्विकाऽर्थापत्तिः / तदुक्तम्तत्र प्रत्यक्षतो ज्ञानात, तदा दहनशक्तिता। वढेरनुमिता सूर्ये, यानात्तच्छक्तियोगिता / / 1 / / पीनो दिवा न भुङ्क्ते इत्येवं प्रतिवचःश्रुतौ ! रात्रिभोजनविज्ञानं, श्रुतार्थापत्तिरुच्यते // 2 // गवयोपमिताया गोस्तज्ज्ञानग्राह्यशक्तिता। अभिधानप्रसिद्ध्यर्थमर्थापत्त्याऽवबोधितात् // 3 //
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy