________________ अण्णउत्थिय 455 - अभिधानराजेन्द्रः- भाग 1 अण्णउत्थिय अण्णउत्थिए एवं पडिहणइ / पडिहणइत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता समणं भगवं महावीरं वदंइणमंसइ णचासणे जाव पञ्जवासइ गोयमादि समणे भगवं महावीरे भगवं गोयम एवं वयासी- सुतु णं तुम्ह गोयमा ! ते अण्णउत्थिए एवं वयासी-साहुणं तुमंगोयमा ! ते अण्णउत्थिए एवं क्यासी- अत्थि णं गोयमा ! ममं बहवे अंतेवासी समणा णिग्गंथा छउमत्था जे णं णो पभू एयं वागरणं वागरेत्तए जहा णं तुमं तं सुठु णं तुम गोयमा ! ते अण्णउत्थिए एवं वयासीसाहुणं तुमं गोयमा ! ते अण्णउत्थिए एवं वयासी। (पेचेह त्ति) आक्रामथ (कायं च त्ति) देहं प्रतीत्य व्रजाम इति योगः / देहश्चेद्रमनशक्तो भवति, तदा व्रजामो नान्यथा, अश्वशकटादिनेत्यर्थः / योगं च संयमव्यापारं ज्ञानाद्युपष्टम्भकम्, प्रयोजनं मिक्षाऽटनादि, न तं विनेत्यर्थः। (रीयं च त्ति) गमनं च अत्यरितादिकं गमनविशेषं प्रतीत्याश्रित्य कथमित्याह- (दिस्सा दिस्स त्ति) दृष्ट्या दृष्ट्वा / (पदिस्सा पदिस्स त्ति) प्रकर्षेण दृष्ट्वा दृष्ट्वा / भ०१८ श० 8 उ० (7) श्रमणानां कृता क्रिया क्रियेत? नवा ? इत्यत्र विवादः - अण्णउत्थियाणं भंते ! एवमाइक्खइ, एवं भासेइ, एवं परूवेइकहण्णं समणा णं निम्गंथा णं किरिया कजंति ? तत्थ जा सा कडा कलइ णो तं पुच्छंति 1, तत्थ जा सा कडा णो कज्जइणो तं पुच्छंति 2, तत्थ जा सा अकडा कञ्जइ तं पुच्छंति 3, तत्थ जा सा अकडाणो कज्जइणोतं पुच्छंति से एवं वत्तव्वं सिया अक्किचं दुक्खं, अफुसं दुक्खं, अकज्जमाणकडं दुक्खं, अकटु अकट्टु पाणा भूया जीवा सत्ता वेयणं वेयंति, वत्तव्वं जे ते एवमाहंसु / ते मिच्छा। अहं पुण एवमाइक्खामि, एवं मासामि, एवं पन्नवेमि, एवं परूवेमि-किच्चं दुक्खं किज्जमाणं कडं दुक्खं कटु कट्टु पाणा भूया जीवा सत्ता वेयणं वेयंति त्ति वत्तव्वं सिया। "अन्नउत्थियेत्यादि" प्रायः स्पष्टम्, किन्त्यन्यतीर्थिका इह तापसा विभङ्ग ज्ञानवन्त एवं वक्ष्यमाणप्रकारमाख्यान्ति सामान्यतो भाषन्ते, विशेषतः क्रमेणैतदेव प्रज्ञापयन्ति प्ररूपयन्तीति पर्यायरूपपदद्वयेनोक्त मिति / अथवाऽऽख्यान्तीषद्भाषन्ते, व्यक्तभाषया प्रज्ञापयन्ति, उपपत्तिभिर्बोधयन्ति प्ररूपयन्ति प्रभेदादिकथनत इति / किं तदित्याह- कथं केन प्रकारेण श्रमणानां निर्ग्रन्थानां मत इति शेषः / क्रियत इति क्रिया कर्म, सा क्रियते भवति दुःखायेति विवक्षेति प्रश्नः / इहचत्वारो भङ्गाः। तद्यथा-कृता क्रियते विहितं सत्कर्म दुःखाय भवतीत्यर्थः (1) एवं कृतान कियते (2) अकृता क्रियते ((3) अकृता न क्रियत इति (4) / एतेष्वनेन प्रश्नेन यो भङ्गः प्रष्टुमिष्टस्तं शेषभङ्ग निराकरणपूर्व-कमभिधातुमाह- (तत्थ त्ति) तेषु चतुर्षु भङ्ग केषु मध्ये प्रथम द्वितीयं चतुर्थं च न पृच्छन्ति / एतत्त्रयस्यात्यन्तरुचेरविषयता तत्प्रश्नस्याप्यप्रवृत्तेरिति / तथाहि-याऽसौ कृता क्रियते यत्तत्कर्म कृतं न भवति नो तत् पृच्छन्ति, अत्यन्तविरोधेनासम्भवात्। तथाहि- कृतं चेत्कर्म कथंन भवतीति ? उच्यते। न भवति चेत्कथं कृतं तदिति, कृतस्य कर्मणोऽभवनाभावात्। तत्र तेषु याऽसावकृता यत्तदकृतं कर्म नो क्रियते, न भवति, नो तां पृच्छन्ति अकृतश्चासतश्च कर्मणः खरविषाणकल्पत्वादिति / अमुमेव च भङ्गत्रयं निषेध-माश्रित्यास्य सूत्रस्य त्रिस्थानकावतार इति संभाव्यते। तृतीय-भङ्गकस्तु तत्सम्मत इति तं पृच्छन्ति / अत एवाह - तत्र यासावकृता क्रियते यत्तदकृतं पूर्वमविहितं कर्म भवति दुःखाय सम्पद्यते, तां पृच्छन्ति पूर्वकालकृतत्वस्याप्रत्यक्षतयाऽसत्त्वेन दुःखानुभूतेश्च प्रत्यक्षतया सत्त्वेनाकृतकर्मभवनपक्षस्यासम्मतत्वादिति। पृच्छतां चायमभिप्रायः - यदि निर्ग्रन्था अपि अकृतमेव कर्म दुःखायदेहिनां भवतीति प्रतिपद्यन्ते, ततः सुष्टुशोभनं अस्मत्स-मानबोधत्वादिति / शेषान्न पृच्छन्तस्तृतीयमेव पृच्छन्तीति भावः / (सेत्ति) अथ तेषामकृतकर्माभ्युपगमवतामेवं वक्ष्यमाणप्रकार वक्तव्यमुल्लापः स्यात्।त एववा एवमाख्यान्ति परान् प्रति यदुत अथैव वक्तव्यं प्ररूपणीयं तत्त्ववादिनां स्याद्भवेत्, अकृते सति कर्मणि दुःखाभावात् / अकृत्यमकरणीयमबन्धनी-यमप्राप्तव्यमनागते काले जीवानामित्यर्थः / किं दुःखं ? दुःख-हेतुत्वात्कर्म (अफुसंति) अस्पृश्यं कर्माकृतत्वादेव, तथा क्रियमाणं च वर्तमानकाले बध्यमानं कृतं याऽतीतकाले बद्ध क्रियमाणम् / द्वन्द्वैकत्वं कर्मधारयो वा / न क्रियमाणकृतम-क्रियमाणकृतम् / किं तद्, दुःखम् ? ''अकिचं दुक्खमित्यादि" पदत्रयं (तत्थजा सा अकडा कज्जइ) तं पृच्छतीत्यन्यतीर्थिकमताश्रितं कालत्रयालम्बनमाश्रित्य त्रिस्थानकावतारोऽस्य द्रष्टव्यः। किमुक्तं भवतीत्याह-अकृत्वा अकृत्या कर्म। प्राणा द्वीन्द्रियादयः, भूतास्तरयः, जीवाः पञ्चेन्द्रियाः, सत्त्वाः पृथिव्यादयः / यथोक्तम्"प्राणा द्वित्रिचतुःप्रोक्ताः, भूतास्तु तरवः स्मृताः / जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः" ||1| वेदनां पीडां वेदयन्तीति वक्तव्यमित्ययं तेषामुल्लापः। एतद्वा ते अज्ञानोपहतबुद्धयो भाषन्ते परान् प्रति यदुत एवं वक्तव्यं स्यादिति प्रक्रमः / एवमन्यतीर्थिकमतमुपदर्य निराकुर्यन्नाह-(जे ते इत्यादि) य एते अन्यतीर्थिका एवमुक्तप्रकारमाहुः (सुत्ति) उक्तवन्तो मिथ्या असम्यक् तेऽन्यतीर्थिका एवमुक्तवन्तः, अकृतायाः क्रिया-त्वानुपपत्तेः। क्रियते इति क्रिया यस्यास्तु कथञ्चनापि करणं नास्ति, साकथं क्रियेति ? अकृतकर्मानुभवने हि बद्धमुक्तसुखितदुःखितादिनियतव्यवहाराभावप्रसङ्ग इति स्वमतमाविष्कुर्वन्नाह(अहमित्यादि) अहमित्यहमेव नान्यतीर्थिकाः, पुनःशब्दो विशेषणार्थः / स च पूर्ववाक्यार्थादुत्तरवाक्यार्थस्य विलक्षण-तामाह (एवमाइक्खामीत्यादि) पूर्ववत्। कृत्यं करणीय-मनागतकाले दुखः तद्धेतुत्वात्, कर्म स्पृश्यं स्पृष्टलक्षण-बन्धावस्थायोग्यम्, क्रियमाणं वर्तमानकाले कृतमतीते अकरणं नास्ति कर्मणः कथञ्चनापीति भावः / स्वमतसर्वस्वमाह -कृत्वा कृत्वा, कर्मेति गम्यते / प्राणादयो वेदना कर्मकृतशुभाशुभानुभूतिं वेदयन्त्यनुभवन्तीति वक्तव्यं, स्यात् सम्यग्वादिनाम् ।स्था०३ ठा०२ उ०। (जीवजीवात्मानौ) तत्र अतीन्द्रियस्य जीवस्य सिद्धिं 'मंडक' शब्दे मण्डुकः करिष्यते)