________________ अणुभाग 398 - अभिधानराजेन्द्रः - भाग 1 अणुभाग प्रश्नसूत्र प्रायति - ( इविपाकस्य प्रश्नसूत्रं प्राग्वत् / निर्वचनम् - चतुर्दशविधोऽनुभावः / तदेव चतुर्दशविधत्वं दर्शयति - (इट्ठा सद्दा इत्यादि) एते शब्दादय आत्मीया एव परिगृह्यन्ते, नामकर्म विपाकस्य चिन्त्यमानत्वात् / तत्र वादित्राद्युत्पादिता इत्येके / तदयुक्तम् / तेषामन्यकर्मोदयनिष्पाद्यत्वात् / इष्टा गतिमत्तवारणाद्यनुकारिणी शिविकाधारोहणतश्चेति एके। इष्टा स्थितिः सहजा, सिंहासनादौ च अन्ये / इष्टं लावण्यं छायाविशेषलक्षणं, कुङ कुमाद्यनुलेपनजमिति अपरे / इष्टा यशःकीर्तिर्यशसा युक्ता कीर्तिः / यशःकीयोश्चाऽयं विशेषः- दानपुण्यकृता कीर्तिः, पराक्रमकृतं यशः। (इटे उट्ठाणकम्मबलवीरियपुरिसक्कारपरिक्कमे इति) उत्थानं देहचेष्टाविशेषः, कर्म रेचनभ्रमणादि, बलं शारीरसामादिविशेषः, वीर्य जीवप्रभवः, स एव पुरुषाकारोऽभिमानविशेषः, स एव निष्पादितस्वविषयपराक्रमः। इष्टस्वरता वल्लभस्वरता। तत्र इष्टाःशब्दाः इति सामान्योक्तावियं, विशेषोक्तिस्तदन्यबहुमतत्वापेक्षाऽवगन्तव्या / कान्तस्वरतेति कान्तः कमनीयः सामान्यतो-ऽभिलषणीय इत्यर्थः। कान्तः स्वरो यस्य सः, तथा तद्भावः कान्तस्वरता 1 प्रियस्वरतेति / प्रियो भूयोऽभिलषणीयः, प्रियः स्वरो यस्य स तथा तद्भावः प्रियस्वरता / (मणुन्नस्सरया इति) उपरतभावोऽपि स्वालम्बनप्रीतिजनको मनोज्ञः, स स्वरो यस्य स मनोज्ञस्वरता (जं वेएइ इत्यादि) यं वेदयते पुद्गलं वीणावर्णकगन्धताम्बूलपट्टशिविकासिंहासनकुङ्कुमदानराजयोगगुलिकादिलक्षणम्। तथा च वीणादिसम्बधाद् भवन्तीष्टाः शब्दादय इति परिमावनीयमेतत् सूक्ष्मधिया मार्गानुसारिण्या। (पुग्गले वा इति) यतो बहून् पुद्गलान् वेणुवीणादिकान् वेदयतो यं पुद्गलपरिणामं ब्राह्मयाद्याहारपरिणाम विस्रसया वायं पुद्गलानां परिणामं शुभजलदादिकं तथा चोन्नतान् कन्जलसमप्रभान मेघानवलोक्य प्रहर्षमनसो गायन्ति मत्तयुवतयो रेल्लुकानिष्टस्वरानित्यादि, तत्प्रभावात् शुभनामकर्म वेदयते, शुभनामकर्मफलमिष्टस्वरतादिकमनुभवतीति भावः / एतावता परत उक्तः। इदानीं स्वतस्तमाह - (तेसिं वा उदएणं ति) तेषां वा शुभानां कर्मपुद्गलानामुदयेन इष्टशब्दादिकं वेदयते। "एस णं गोयमा !" इत्याद्युपसंहारवाक्यम् / उक्तोऽष्ट विधसातवेदनीयस्याऽनुभावः / परतः सातवेदनीयस्योदयमुपदर्शयति- (जं वेएइ पुग्गलमित्यादि) यद् वेदयते पुद्गलं स्रक्चन्दनादियान् वा वेदयते पुद्गलान् बहून् सक्चन्दनादीन्, यं वा वेदयते पुद्गलपरिणाम देशकालवयोवस्थाऽनुरूपाहारपरिणामम् (वीससा वा पुग्गलाण परिणाम) विस्रसया वा यं पुद्गलानां परिणामकामेऽभिलषितं शीतोष्णादिवेदनाप्रतीकाररूपं, तेन मनसः समाधानसम्पादनात् सातवेदनीयं कर्माऽनुभवति / सातवेदनीयकर्मफलं सातं वेदयते इत्यर्थः / उक्तः परत उदयः। सम्प्रति स्वत उदयमाह (तेसिं वा उदएणं ति) तेषां वा सातवेदनीयपुद्गलानामुदयेन मनोज्ञशब्दादिव्यतिरेके णाऽपि कदाचित्सुखं वेदयते, यथा नैरयिकास्तीर्थकरजन्मादिकाले। "एस णं गोयमा!" इत्याधुपसंहार-वाक्यम् / प्रश्नसूत्रं सुगम, निर्वचनं पूर्ववत्। तथा चाऽऽह - "तहेव पुच्छा, उत्तरंच, नवरं" इत्यादिना पूर्वसूत्रादस्य विशेषमुपदर्शयति- (अमणुन्ना सद्दा इत्यादि) अमनोज्ञाः शब्दाः खरोष्ट्राऽश्वादि-सम्बधिन आगन्तुकाः, अमनोज्ञा रसाः स्वस्याऽप्रतिभासिनो दुःखजनकाः, अमनोज्ञा गन्धा गोमहिषादिमृतकलेवरादिगन्धाः, अमनोज्ञानि रूपाणि स्वगतस्वीगतादीनि, अमनोज्ञाः स्पर्शाः कर्कशादयः। (मणोदुहिया इति) दुःखितं मन इति (वयदुहिया इति) अभव्या वागिति भावार्थः / (कायदुहिया इति) काये दुःखं यस्याऽसौ कायदुःखस्तभावः। कायदुःखिता, दुःखितं काय इत्यर्थः। (जं वेएइ इत्यादि) यं वेदयते पुद्गलं विषशस्त्रकण्टकादि, (पुग्गले वा इति) यान् वा पुद्गलान् बहून् विषशस्त्रकण्टकादीन् वेदयते, यं वा वेदयते पुद्गलपरिणाममत्याहारलक्षणं, विस्रसया वा वं वेदयते पुद्गलपरिणाममकालेऽनभिलषितं शीतोष्णादिपरिणाम, तेन मनसोऽसमाधानसम्पादनात् असातवेदनीयं कर्माऽनुभवति / असातवेदनीयकर्मफलमसातं वेदयत इति भावः। एतेन परत उदय उक्तः। सम्प्रति स्वत उदयमाह- (तेसिं वा उदएणं ति) तेषां वा असातवेदनीयकर्मपुद्गलानामुदयेनाऽसातं वेदयते / 'एस णं गोयमा' इत्याधुपसंहारवाक्यम्। अशुभनाम्नः - दुहनामस्सणं भंते ! पुच्छा गोयमा ! एवं चेव, नवरं अणिट्ठा सद्दा जावहीणस्सरतादीणस्सरता अणिट्ठस्सरता अकंतस्सरताजं वेदेइ, सेसं तं चेव जाव चउद्दसविहे अणुभावे पण्णत्ते। प्रश्नसूत्रं प्राग्वत् / निर्वचनसूत्रं प्रागुक्तार्थवैपरीत्येन भावनीयम् / गोत्रं द्विधा-उर्गोत्रं वा नीचैर्गोत्रं वा। तत्रोचैर्गोत्रविषयं सूत्रमाहउचागोयस्स णं मंते ! कम्मस्स जीवेणं पुच्छा गोयमा ! उच्चागोयस्स कम्मस्स जीवेणं बद्धस्स जाव अट्ठविहे अणुभावे पण्णत्ते / तं जहा-जातिविसिट्ठता कुल-विसिट्ठता बलविसिट्ठता रूवविसिट्ठता तवविसिट्ठता सुयविसिहता लाभविसिट्ठया इस्सरियविसिट्ठया, जं वेदेइपोग्गलं वा पोग्गले वा पोग्गलपरिणाम वा वीससा वा पोग्गलाणं परिणाम, तेसिं वा उदएणं जाव अट्ठविहे अणुभावे पण्णत्ते। . प्रश्नसूत्रं प्राग्वत् / निर्वचनम् - अष्ट विधो ऽनुभावः प्रज्ञप्तः / तदेवाऽष्टविधत्वं दर्शयति- (जाइविसिट्ठया इत्यादि) जात्यादयः सुप्रतीताः। शब्दार्थस्त्वेवम् - जात्या विशिष्टो जातिविशिष्ट-स्तद्भावो जातिविशिष्टता इत्यादिकम् / वेदयते पुद्गलं बाह्य-द्रव्यादिलक्षणम्। तथाहि- द्रव्यसम्बन्धाद् राजादिविशिष्ट-पुरुषसम्परिग्रहाद्वा नीचजातिकुलोत्पन्नोऽपि जात्यादिसम्पन्न इव जनस्य मान्य उपजायते। बलविशिष्टताऽपि मल्लानामिव लकुटिभ्रमणवशाद् / रूपविशिष्टता प्रतिविशिष्टवस्त्राऽलङ्कार-सम्बन्धात्। तपोविशिष्टता गिरिकूटाद्यारोहणेनाऽऽतापनां कुर्वतः / श्रुतविशिष्टता मनोज्ञभूदेशसंबन्धात् स्वाध्याय कुर्वतः / लाभ-विशिष्टता प्रतिविशिष्टरत्नादियोगात् / ऐश्वर्यविशिष्टता धनकन-कादिसम्बन्धादिति / (पुग्गले वा इति) यान बहून् पुद्गलान् वेदयते, पुदगलपरिणामं दिव्यफलाद्याहारपरिणामरूपं विखसया वा यं पुद्गलानां परिणाममकस्मादभिहितजलदागमसंवादादिलक्षणं तत्प्रभावादुचैर्गोत्रं वेदयते उचैर्गोत्रं कर्मफलं जातिविशिष्ट-त्वादिकं वेदयते / एतेन परत उदय उक्तः। सम्प्रति स्वतस्तमाह - (तेसिं वा उदएणं ति) तेषां वा उद्यैर्गोत्रकर्मपुद्गलानामुदयेन जातिविशिष्टत्वादिकं भवति / "एस णं गोयमा ! इत्याधुपसंहारवाक्यम्।