________________ अणुभाग 397 - अभिधानराजेन्द्रः - भाग 1 अणुभाग __सातासातावेदनीयस्यसातावेयणिज्जस्स णं भंते ! कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प कतिविहे अणुभावे पण्णत्ते ? गोयमा ! सायावेयणिज्जस्स कम्मस्स जीवेण बद्धस्स जाव अट्ठविहे अणुभावे पण्णत्ते। तं जहा- मणुन्ना सद्दा, मणुन्ना रूवा, मणुन्ना गंधा, मणुन्ना रसा, मणुन्ना फासा, मणोसुहता, वयसुहता, कायसुहता।जं वेएइ पोग्गलं वा पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणाम,तेसिंवा उदएणं सातावेदणिज्जं कम्मं वेदेइ / एस णं गोयमा ! सातावेयणिज्जे कम्मे, एस णं गोयमा ! सायावेयणिजस्स जाव अट्ठविहे अणुभावे पण्णत्ते / असायावेयणिज्जस्स णं भंते ! कम्मस्स जीवेणं तहेव पुच्छा, उत्तरंच, नवरं अमणुन्ना सद्दा जाव कायदुहिता एसणं गोयमा! असाता-वेयणिजस्स जाव अट्ठविहे अणुभावे। प्रश्नसूत्रं प्राग्वत् / निर्वचनमाह - गौतम ! अष्टविधोऽनुभावः प्रज्ञप्तः। अष्टविधत्वमेव दर्शयति- (मणुन्ना सद्दा इत्यादि) मनोज्ञाः शब्दा आगन्तुका वेणुवीणादिसंबन्धिनः / अन्ये 'आत्मीया' इत्याहुः। तदयुक्तम्। आत्मीयशब्दानां वाक्-सुखेनेत्यनेनैव गृहीतत्वात्। मनोज्ञा रसा इक्षुरसप्रभृतयः, मनोज्ञा गन्धाः कर्पूरादिसम्बन्धिनः, मनोज्ञानि रूपाणि स्वगतस्व-स्त्रीचित्रादिगतानि, मनोज्ञाः स्पर्शाः हंसतूल्यादिगताः, (मणो-सुहया इति) मनसि सुखं यस्याऽसौ मनःसुखस्तस्य भावो मनःसुखिता, सुखितं मन इत्यर्थः / वाचि सुखं यस्याऽसौ वाक् सुखस्तस्य भावो वाक्सुखिता / सर्वेषां श्रोत्रमनःप्रह्लादकारिणी वागिति तात्पर्यार्थः / काये सुखं यस्याऽसौ कायसुखस्तद्भावः कायसुखिता, सुखितः काय इत्यर्थः / एते चाऽष्टौ पदार्थाः सातावेदनीयस्योदयेन प्राणिनामुपतिष्ठन्ते। मोहनीस्य - मोहणिजस्स णं भंते ! कम्मस्स जीवेणं बद्धस्स जाव कइविहे अणुभावे पण्णत्ते ? गोयमा ! मोहणिज्जस्स कम्मस्स जीवेणं बद्धस्स जाव पंचविहे अणुभावे पण्णत्ते / तं जहा-सम्मत्तवेयणिज्जे मिच्छत्तवेयणिज्जे सम्मामिच्छत्तवेयणिज्जे कसायवेयणिज्जे नोकसायवेयणिज्जे, जं वेदेइ पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलपरिणाम, तेसिं वा उदएणं मोहणिज्जं कम्म वेदेइ, एस णं गोयमा ! मोहणिज्जकम्मे, एस णं गोयमा! मोहणिजस्स जाव पंचविहे अणुभावे पण्णत्ते। प्रश्नसूत्रं प्राग्वत् / निर्वचनम् - पञ्चविधोऽनुभावः प्रज्ञप्तः / तदेव पञ्चविधत्वं दर्शयति-सम्यक्त्ववेदनीयमित्यादि। सम्यक्त्व-रूपेण यद्वेद्यं तत्सम्यक्त्ववेदनीयम् / एवं शेषपदेष्वपि शब्दार्थो भावनीयः / भावार्थस्त्वयम्- यदिह वेद्यमानं प्रशमादिपरिणामं करोति तत्सम्यक्त्ववेदनीयं, यत् पुनरदेवादिबुद्धिहेतुस्तन्मिथ्यात्ववेदनीयं मिश्रपरिणामहेतुः / सम्यमिथ्यात्ववेदनीयं क्रोधादिपरिणामकारण। कषायवेदनीयं हास्यादिपरिणामकारणम्।नो कषाय-वेदनीयम्। (जं वेदेइ पुग्गलमित्यादि) यं वेदयते पुद्गलं विषय-प्रतिमादिकं पुद्गलान् / वा यान् वेदयते बहून् प्रतिमादीन् / यं पुद्गलपरिणाम | देशाधनुरूपाऽऽहारपरिणामं कर्म पुद्गल-विशेषोपादानसमर्थ भवति, आहारपरिणामविशेषादपि कदा-चित्कर्मपुद्गलविशेषो, यथाब्राहयोषधाद्याहारपरिणामात् ज्ञानावरणीयकर्मपुद्गलानां प्रतिविशिष्टः क्षयोपशमः। उक्तञ्च - "उदयक्खयखउवसमोवसमाविजयं च कम्मणो भणिया।दव्वं खेत्तं कालं, भवं च भावं च संपप्प" ||१विस्रसयावा यत् पुद्गलानां परिणाममभ्रविकारदिकं, यद्दर्शनादेवं विवेक उपजायते - आयुः शरञ्जलधरप्रतिमं नराणां, संपत्तयः कुसुमितद्रुमसारतुल्याः / स्वप्नोपभोगसदृशा विषयोपभोगाः, संकल्पमात्ररमणीयमिदं हि सर्वम् / / 1 / / इत्यादि / अन्यं वा प्रशमादिपरिणामनिबन्धनं यं वेदयते, तत्सामर्थ्यात् मोहनीयं सम्यक्त्ववेदनीयादिकं वेदयते, सम्यक्त्ववेदनीयादिकर्मफलं प्रशमादिवेदयते इति भावः। एतावता परत उदय उक्तः / सम्प्रति स्वतस्तमाह - (तेसिं वा उदएणं ति) तेषां च सम्यक्त्ववेदनीयादिकर्म-पुद्गलानामुदयेन प्रशमादि वेदयते, 'एसणं' इत्याद्युपसंहारवाक्यम्। आयुषःआउयस्स णं भंते ! कम्मस्स जीवेणं तहेव पुच्छा / गोयमा ! आउयस्स णं कम्मस्स जीवेणं बद्धस्स जाव चउविव्हे अणुभावे पण्णत्ते / तं जहा-नेरइयाउए तिरियाउए मणुयाउए देवाउए जं वेदेइ, पोग्गलं वा पोग्गले पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणाम वा, तेसिं वा उदएणं आउयं कम्मं वेदेइ, एस णं गोयमा ! आउयस्स कम्मस्स जाव चउविहे अणुभावे पण्णत्ते। प्रश्नसूत्रं प्राग्वत् / निर्वचनम् - चतुर्विधोऽनुभावः प्रज्ञप्तः / तदेव चतुर्विधत्वं दर्शयति - (नेरइयाउए इत्यादि) सुगमम्। 'जं वेएइ पुग्गलं वा' इत्यादि, यं वेदयते पुद्गलं शस्त्रादिकमायुरपवर्तनसमर्थं बहून पुद्गलान् शस्त्रादिरूपान्, यान् वेदयते / यं वा पुद्गगलपरिणाम विषाऽन्नादिपरिणामरूपं, विस्रसया वा यं पुद्गलपरिणामं शीतादिकमेवाऽऽयुरपवर्तनक्षम, तेनोपयुज्यमानभवायुषोपवर्तनात् नारकाद्यायुःकर्म वेदयते। एतावता परत उदयोऽभिहितः। स्वत उदयस्य सूत्रमिदम् - (तेसिंवा उदएणं ति) तेषां वा नारकायुःपुद्गला-नामुदयेन नारकाद्यायुर्वेदयते, 'एसणं' इत्याधुपसंहारवाक्यम्। तत्र नामकर्म द्विधा-शुभनामकर्म, अशुभनामकर्म च। तत्र शुभनामकर्माऽधिकृत्य सूत्रमाहसुभणामस्स णं भंते ! कम्मस्स जीवेणं पुच्छा / गोयमा! सुभनामस्स णं कम्मस्स जीवेणं बद्धस्स जाव चउद्दसविहे अणुभावे पण्णत्ते / तं जहा- इट्ठा सद्दा, इट्ठा रूवा, इट्ठा गंधा, इट्ठा रसा, इट्ठा फासा, इट्ठा गई, इट्ठा ठिई, इटुं लावन्नं, इट्ठा जसोकित्ती, इट्टे उट्ठाणकम्म-बलवीरियपुरिसक्कारपरक्कमे, इट्ठस्सरता, कंतस्सरता, पियस्सरता,मणुन्नस्सरता। जं वेदेइ पोग्गलं वा पोग्गले वा पुग्गलपरिणामं वा, वीससा वा पोग्गलाणं परिणाम, तेसिंवा उदएणं सुभनामं कम्मं वेदेइ, एस णं गोयमा ! सुभनामकम्मे, एस णं गोयमा ! सुभनामस्स कम्मस्स जाव चउद्दसविहे अणुभावे पण्णत्ते।