________________ अणुट्ठाण 377- अभिधानराजेन्द्रः-भाग 1 अणुट्ठाण सुन्दरमनुष्ठानं यमनियमादिरूपमित्यनेन प्रकारेणोक्तं, शास्त्रेषु सानुबन्धमुत्तरोत्तरानुबन्धवद् महर्षिभिः परममुनिभिः, शुद्धाधिकारिसमारब्धत्वात्तस्य // 243 / / अत एव - अन्तर्विवेकसंभूतं,शान्तदान्तमविप्लुतम्। नाऽग्रोद्भवलताप्रायं, बहिश्चेष्टाऽधिमुक्तिकम्॥२४॥ अन्तर्विवेकसंभूतम्, अन्तर्विवेकेन तत्त्वसंवेदननाम्ना संभूतं प्रवृत्तं, शान्तदान्तं, शान्तदान्तपुरुषारब्धत्वाद्, अत एवाविप्लुतं सर्वथा विप्लवरहितम्। व्यवच्छेद्यमाह-न, नैव, अग्रोद्भवलता-प्रायम्-अग्राद् वृक्षप्रान्तादुद्भवो यस्याः, सा चाऽसौ लता च तत्प्रायम् / सा हि लता अग्रोद्भवत्वेननलतान्तरमनुबधु क्षमा। इदं चाऽनुष्ठानमनुत्तरोत्तरानुबन्धप्रधानमित्यत उक्तंनाऽग्रोद्भवलता-प्रायमिति। तथा बहिश्चेष्टायां चैत्यवन्दनादिलपायामधिमुक्तिः शुद्धा यत्र तत्तथा // 244 // इत्थं विषयस्वरूपानुबन्धशुद्धिप्रधानमनुष्ठानत्रयमभिधाय साम्प्रतं त्रयस्याऽप्यवस्थाभेदेन संमतत्वमाविश्चिकीर्षुराहइष्यते चैतदप्यत्र, विषयोपाधि संगतम्। निदर्शितमिदं तावत् पूर्वमत्रैव लेशतः // 255 / / इष्यते मन्यते मतिमभिः / चः समुच्चये / एतदपि प्रागुक्तमत्र योगचिन्तायां, विषयोपाधिर्विषयशुद्धमनुष्ठानं, किंपुनः ? स्वरूपशुद्धानुबन्धशुद्धे इत्यपिशब्दार्थः / कीदृशमित्याह-संगतं युक्तमेव, निदर्शितं निरूपितमिदं संगतत्वम्, तावच्छब्दः क्रमार्थः, पूर्व प्रागत्रैव शास्त्र लेशतः संक्षेपेण "मुक्ताविच्छाऽपिया श्लाघ्या, तमःक्षयकरी मता" इत्यादिना ग्रन्थेन। विस्तरतस्तु विशेष-ग्रन्थादवसेयमिति॥२४५।। अथ प्रस्तुतमनुष्ठानं यस्य भवति, तमधिकृत्याऽऽहअपुनर्बन्धकस्यैवं, सम्यग्-रीत्योपपद्यते / तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात // 246 // कापिलसौगतादिशास्त्रप्रणीतं मुमुक्षुजनयोग्यमनुष्ठानमखिलं समस्तम् / कुत इत्याह-अवस्थाभेदसंश्रयात् / अपुनर्बन्धकस्याऽने कस्वरूपाऽङ्गीकरणात् / अनेकस्वरूपाभ्युपगमे हि अपूर्वबन्धकस्य किमप्यनुष्ठानं कस्यामप्यवस्थायामवतरतीति // 246 / / यो० बिं० प्रीतिभक्त्यनुष्ठानादिभेदाःसूक्ष्माश्च विरलाश्चैवाऽतिचारा वचनोदये। स्थूलाश्चैव घनाश्चैव, ततः पूर्वममी पुनः // 6 // (सूक्ष्माश्चेति) सूक्ष्माश्च लघवः, प्रायशः कादाचित्कत्वात्। विरलाश्चैव सन्तानाभावात् / अतिचारा अपराधा वचनोदये भवन्ति, ततो वचनोदयात् / पूर्वममी अतिचाराः, पुनः स्थूलाश्च बादराश्च, धनाश्च निरन्तराश्च भवन्ति / तदुक्तम् - "चरमाद्यायां सूक्ष्माः, अतिचाराः प्रायशो ऽतिविरलाश्च / आद्यत्रये त्वमी स्युः, स्थूलाश्च तथा घनाश्चैव" |द्वा०२८ द्वारा सदनुष्ठानमतः खलु, बीजन्यासात् प्रशान्तवाहितया। संजायते नियोगात्, पुंसां पुण्योदयसहायम् // 1 // तत्प्रीतिमक्तिवचनाऽसंगोपपदं चतुर्विधं गीतम्। तत्त्वाऽमिज्ञैः परमं, पदसाधनं सर्वमेवैतत्॥२॥ यत्राऽऽदरोऽस्ति परमः,प्रीतिश्च हितोदया भवति कर्तुः। शेषत्यागेन करोति, यच तत् प्रीत्यनुष्ठानम् // 3 // गौरवविशेषयोगाद, बुद्धिमतो यद्विशुद्धितरयोगम् / क्रिययेतरतुल्यमपि, ज्ञेयं तद् मक्त्यनुष्ठानम् // 4 // (सदनुष्ठानमित्यादि) सदनुष्ठानं प्रागुक्तमतः खलु बीजन्या-सादस्मात् पुण्यानुबन्धिपुण्यनिक्षेपात्, प्रशान्तवाहितया प्रशान्त वोढुं शीलं यस्य तत् प्रशान्तवाहि, तद्भावस्तया चित्तसंस्कार रूपया, संजायते निष्पद्यते / नियोगान्नियमेन, पुसा मनुष्याणां, पुण्योदयसहायं पुण्यानुभावसहितम्॥१॥ तदेवभेदद्वारेणाह-(तदित्यादि) तत् सदनुष्ठानं प्रीतिश्च भक्तिश्च वचनं चाऽसङ्गश्चैते शब्दा उपपदमुपोचारिपदं यस्य सदनुष्ठानस्यतत्तथा, चतुर्विधंचतुर्भेद,गीतं शब्दितं, प्रीत्यनुष्ठानम्॥२॥ आदरः प्रयत्नातिशयोऽस्तिपरमः,प्रीतिश्चाऽभिरुचिरूपा, हितोदया हित उदयो यस्याः सा तथा भवति / कर्तुरनुष्ठातुः, शेषत्यागेन शेषप्रयोजनपरित्यागेन, तत्काले करोति यच्चाऽऽतीव धर्मादरात् / तदेवंभूतं प्रीत्यनुष्ठानं विज्ञेयम् // 3 // द्वितीयस्वरूपमाह-गौरवेत्यादि। गौरवविशेष-योगात्, गौरवं गुरुत्वं पूजनीयत्वंतद्विशेषयोगात् तदधिकसंबन्धात्, बुद्धिमतःपुंसो यदनुष्ठानं विशुद्धतरयोग विशुद्ध-तरव्यापारं, क्रियया करणेन, इतरतुल्यमपि प्रीत्यनुष्ठानतुल्यमपि, ज्ञेयं तदेवंविधं भक्त्यनुष्ठानम्॥४॥ आह-कः पुनः प्रीतिभक्त्योर्विशेषः? उच्यतेअत्यन्तवल्लभा खलु, पत्नी तद्वदि हिता च जननीति। तुल्यमपि कृत्यमनयोतिं स्यात् प्रीतिभक्तिगतम् // 5 // (अत्यन्तेत्यादि) अत्यन्तवल्लभाखलु अत्यन्तवल्लभैव, पत्नी भार्या, तद्वत् पत्नीवदत्यन्तेष्टव हिताच हितकारिणीति कृत्वा जननी प्रसिद्धा, तुल्यमपि सदृशमपि, कृत्यं भोजनाच्छादनादि, अनयोर्जननीपत्न्योतिमुदाहरणं स्यात्, प्रीतिभक्तिगतं प्रीति-भक्तिविषयमिदमुक्तं भवति, प्रीत्या पत्न्या क्रियते, भक्त्या मातुरितीयान् प्रीतिभक्त्योर्विशेषः // 5 // तृतीयस्वरूपमाहवचनात्मिका प्रवृत्तिः, सर्वत्रौचित्ययोगतो या तु। वचनानुष्ठानमिदं, चारित्रवतो नियोगेन।।६।। (वचनेत्यादि) वचनात्मिका आगमात्मिका, प्रवृत्तिः क्रियारूपा सर्वत्र सर्वस्मिन् धर्मव्यापारेक्षान्तिप्रत्युपेक्षादौ, औचित्य-योगतो या तु देशकालपुरुषव्यवहाराद्यौचित्येन वचनानुष्ठानमिदमेवं प्रवृत्तिरूपं चारित्रवतः साधोर्नियोगेन नियमनं नाऽन्यस्य भवतीति // 6 // तुर्यस्वरूपमाहयत्त्वम्यासातिशयात्, सात्मीभूतमिव चेष्ट्यते सदिभिः / तदसङ्गानुष्ठानं, भवति त्वेतत्तदा वैधात्॥७॥ (यत्त्वित्यादि, यत्तु, यत् पुनरभ्यासातिशयादभ्यासप्रकर्षाद् भूयो भूयस्तदासेवनेन, सांत्मीभूतमिवात्मसाद्भूतमिव, चन्दन-गन्धन्यायेन चेष्ट्यते क्रियते, सद्भिः सत्पुरुषैर्जिनकल्पिका दिमिस्तदेवंविधमसङ्गानुष्ठानं भवति, त्वेतज्जायते, पुनरेतत्तदा वैधाद् वचनवैधादागमसंस्कारात् // 7 // वचनाऽसङ्गाऽनुष्ठानयोर्विशेषमाह