________________ अणवठ्ठप्प 293- अभिधानराजेन्द्रः - भाग 1 अणट्ठप्प एते आसादेंते, पाच्छित्ते मग्गणा होई॥ तीर्थकरप्रवचनं श्रुतम्, आचार्यः, गणधरः, महर्द्धिकश्चेति / एतान् आशातयतः प्रायश्चित्तमार्गणा भवति / अमीषां चाशातनाः पाराञ्चिकवद्भावनीयाः / प्रायश्चित्तमार्गणा पुनरियम् - पढमबितिएसुनवमं, सेसे एक्कक्के चउगुरू होति। सव्वे आसादेतो, अणवट्ठप्पो उ सो होइ॥ प्रथमद्वितीयायास्तीर्थक रसङ्घाऽऽशातनायारुपाध्यायस्य नवममनवस्थाप्यं भवति, शेषेषु श्रुतादिषु प्रत्येकमेकै कस्मिन् | आशात्यमाने चतुर्गुरवो भवन्ति / अथ सर्वाणि चतुर्थेष्वपि श्रुतादीनि आशातयति, ततोऽसावनवस्थाप्यो भवति / उक्त आशातना- / नवस्थाप्यः। अथ प्रतिसेवनाऽनवस्थाप्यमाह - पडिसेवणअणवट्ठो, तिविहो सो होइ आणुपुव्दीए। साहम्मियऽण्णधम्मिय, हत्थादालंद दलमाण / / यः प्रतिसेवनाऽनवस्थाप्यः सूत्रे साक्षादुक्तः स आनुपूर्व्या त्रिविधो भवति- साधर्मिकस्तैन्यकारी, अन्यधार्मिकस्तैन्यकारी, हस्तातालं ददत्। तत्र साधर्मिकस्तैन्यं तावदाह - साहम्मि तेण्ण उवधि-वावारणझामणा य पट्ठवणा। सेहे आहारविही, जा जहि आरोवणा भणिता॥ साधर्मिकाणामुपधेर्वस्त्रपात्रादिलक्षणस्य स्तैन्यं करोति (वावारण त्ति) गुरुभिरुपधेरुत्पादनाय व्यापारणा प्रेषणा कृता, अतस्तमुत्पाद्य गुरूणामनिवेद्यान्तराले स्वयमेवाधितिष्ठति (झामणा य त्ति) उपकरणं सद्भावेनाऽसद्भावेन वाध्यामितं दग्धं भवेत्, तद्व्याजेन श्रावकमभ्यर्थ्य वस्वादिकं गृहीत्वा स्वयमेव भुक्त(पट्ठवण त्ति) केनाप्याचार्येण कस्यापि संयतस्य हस्ते ऽपराचार्यस्य ढौकनाय प्रतिग्रहः प्रेषितस्तमसावन्तरा स्वयमेव स्वीकरोति (सेह त्ति) शैक्षविषयं स्तैन्यं करोति (आहारविहि त्ति) दानश्रद्धादिषु स्थापनाकुलेषु गुरुभिरननुज्ञात आहारविधिमशनादिकमाहारप्रकरं गृह्णाति / एतेषु स्थानेषु साधर्मिकस्तैन्यं भवति। अत्र च या यत्र स्थाने आरोपणा प्रायश्चित्तापरपर्याया भणिता, सा तत्र वक्तव्या / एष नियुक्तिगाथा संक्षेपाऽर्थः / साम्प्रतमेनामेव विवरीषुराहउवहिस्स आसियावण सेहमसेहे य दिट्ठदिवे य। सेहे मूलं भणितं, अणवठ्ठप्पा य पारंची। इहोपधेः, 'आसियावणं' स्तन्यमित्येकार्थः। तच्च शैक्षो वा कुर्यादशैक्षौ / वा / उभावपि-दृष्टं वा स्तैन्यं कुर्यात् , अदृष्ट वा / तत्र शैक्षे मूलं यावत्प्रायश्चित्तं भणितम्, उपाध्यायस्याऽनवस्थाप्यपर्यन्तम्, आचार्यस्य पाराञ्चिकान्तम्। एतदेव भावयतिसेहो त्ति अगीयत्थो, जो वा गीतो अणिविसंपन्नो। उवही पुणवत्थादी, सपरिम्गह एतरो तिविहो। शैक्ष इतिपदेनागीतार्थो भण्यते / यो वा गीतार्थोऽपि अनृद्धि-संपन्न आचार्यपदादिसमृद्धिमप्राप्तः, सोऽपि शैक्ष इहोच्यते / उपधिः पुनर्वस्त्रादिकः, आदिशब्दात् पात्रपरिग्रहस्तत् परिगृहीतः स्यात्, इतरो वाऽपरिगृहीतः स्यात्। पुनरेकैकस्त्रिविधः - जघन्यो मध्यम उत्कृष्टश्च / अथ 'सेहे मूलं' इत्यादि पश्चाऽधं व्याख्यानयतिअंतो बहिं निवेसण-वाडगमुजाणसीमतिकते। मास चउ च्छ लहु गुरू, छेदो मूलं तह दुगं वा। अन्तः प्रतिश्रयाभ्यन्तरे साधर्मिकाणामुपधिमदृष्ट शैक्षःस्तेनयति, तदा मासलघु / वसतेर्बहिरदृष्टमेव स्तेनयति, तदा मासगुरु / निवेशनस्यान्तसिगुरुकं, बहिश्चतुर्लघुकं, वाटकस्यान्तश्चतुर्लघुकम् . बहिश्चतुर्गुरुकम्, उद्यानस्याऽन्तः षट् लघु, बहिः षड्गुरु, सीमाया अन्तः षट्गुरु, अतिक्रान्तायां तु तस्यां बहिः छेदः। (मूलं तह दुर्ग व त्ति) मूलं, तथा द्विकं वा, अनवस्थाप्य-पाराञ्चिकयुगम् / एतदेव भावयति - एवं ताव अदिद्वे, दिढे पढमं पदं परिहवेत्ता। तं चेव असेहे वी, अदिट्ट दिढे पुणो एवं // एवं तावददृष्ट स्तैन्ये क्रियमाणे शैक्षस्य प्रायश्चित्तमुक्तम् / दृष्ट तु प्रथम मासलघुलक्षणं पदं परिहाप्य परिहृत्य मासगुरुकादारब्धं मूलं यावद्वक्तव्यम्। अशैक्ष उपाध्यायस्तस्यापि अदृष्ट तान्येवमासगुरुकादीनि मूलान्तानि प्रायश्चितस्थानानि भवन्ति। दृष्ट पुनरेकं मासगुरुलक्षणं पदं हसति, चतुर्लघुकादारब्धमनवस्थाप्ये निष्ठां यातीत्यर्थः / आचार्यस्याऽप्यदृष्टे ऽनवस्थाप्यान्तमेव / दृष्ट तु चतुर्गुरुकादारब्धं पाराञ्चिके तिष्ठति / गतं साधर्मिकोपधिस्तैन्य-द्वारम् / अथ व्यापारणाद्वारमाहवावारिय अणेहा, बाहिं घेदूण उवहि गिण्हंति। लहुणा आदात लहुगा, अणवट्ठप्पो य आदेसा।। व्यापारिता नाम गुरुभिः प्रेषिताः, यथा-(आणेह त्ति) उपधिमुत्पाद्यानयत / ते चैवमुक्ता अनेकविधमुपधि गृहिभ्यो गृहीत्वोत्पाद्य बहिरेवाऽऽचार्यसमीपमप्राप्ता उपधिं गृह्णन्ति- इदं तव, इदं ममेति विभज्य स्वयमेव स्वीकुर्वन्तीत्यर्थः। एवं गृह्णतां मासलघु, आगता आचार्यस्य न ददति, तदा चतुर्लघवः। प्रस्तुतसूत्रादेशाद्वा स स्वच्छन्दवस्तुग्राहकः साधुवर्गोऽनवस्थाप्यो भवति। गतंव्यापारणाद्वारम्। अथध्यामनाद्वारम्साचध्यामना द्विविधा- सती, असती च। तत्र सती तावदाह - दुट्तु निमंतण लुद्धो-ऽणापुच्छा तत्थ गंतु तं भणति। झोमिय उवधी अहमउ, तेहिं पेसितो गहित णातो य॥ आचार्याः केनापि विरूपरूपैर्वस्वैर्निमन्त्रितास्तैश्च तानि प्रतिषिद्धानि, एकश्च साधुस्तां निमन्त्रणां श्रुत्वा तानि च सुन्दराणि वस्त्राणि दृष्ट्वा लुब्धो लोभंगतः। तत आचार्यमनापृच्छ्य (तमिति) तं श्रावकंतत्र गत्वा भणतिअस्माकमुपधिः ध्यामितो दग्धः, ततो-ऽहं तैराचार्यैर्युष्माकं सकाशे वस्त्रार्थ प्रेषितः, एवमुक्ते दत्तस्तेनोपधिः, स च गृहीत्वा गतः, अन्ये च साधव आगताः / श्राद्धेन भणितम्- युष्माकमुपधिर्दग्ध इति कृत्वा यो भवद्भिः साधुः प्रेषितस्तस्य नूतनोपधिर्दत्तो विद्यते, यदि न पर्याप्तं ततो भूयोऽपि ददामीति / साधवो ब्रुवते- नाऽस्माकमुपधिर्दग्धः, न वा वयं कमपि प्रेषयामः, एवं स लोभाभिभूतः साधुस्तेन श्रावकेण ज्ञातः यथागुरूणां पृच्छामन्तरेणाऽयं गृहीतवान्। ततश्च किं भवतीत्याह - लहुगा अणुग्गहम्मी, गुरुगा अप्पित्तियम्मि कायव्वा।