________________ अदुपदचिंतण 245 - अभिवानराजेन्द्रः - भाग 1 अट्ठपुप्फी अट्ठपद(य)चिंतण-न०(अर्थपदचिन्तन)अर्यमाणं विचार्यमाणं यत्पदं वाक्यादि, पद्यते गम्यतेऽर्थोऽनेनेति व्युत्पत्तेः / तस्य चिन्तनं भावनं विचारणं, स्वविषये स्थापनमिति यावत् / विचारणीयस्य वाक्यादेरर्थपर्यालोचने, धा अयं भावः- सूक्ष्मेक्षिकया भावनाप्रधानेन सताऽर्थपदं विचारणीयं, विचार्य च बहुश्रुतसकाशात् स्वविषये स्थापयितव्यम् / अर्थपदचिन्तनं विना सम्यग्धर्मश्रद्धानमेव न घटते। तथा च परमार्षे "सुच्चा य धम्म अरहंतभासिअसमाहिअंअट्ठपओवसुद्धं" इत्यादि।तस्मादर्थपदं विचार्य स्वविषये स्थापयितव्यम् / तद्यथा- यदि सूक्ष्मोऽप्यतिचारो ब्राह्मीसुन्दर्यादीना मिव स्त्रीभावहेतुस्तदा प्रमत्तानां साधूना कथं चारित्रं मोक्षहेतुत्वेन घटते ? प्रभूतातिचारवत्त्वात्। अत्रेयं समाधानभावना यः प्रव्रजितः सूक्ष्ममप्यतिचारं करोति, तस्य विपाकोऽतिरौद्र एव, परं प्रतिपक्षाध्यवसायः प्रायस्तस्य क्षपणहेतु लोचनादिमात्रम्, ब्राह्मयादीनामपितद्भावात्। प्रतिपक्षा-ऽध्यवसायश्च-क्रोधादिषु क्षमादिः संवरभावेनोक्तः / एवं च प्रमत्तानामपि प्रत्यतिचारं तुल्यगुणाधिकगुणप्रतिपक्षाध्यवसायवतां धर्मचरणमविरुद्धम् सम्यकृतप्रतीकारस्य विषस्येवातिचारस्य स्वकार्याक्षमत्वात्। नन्वेवं प्रतिपक्षाध्यवसायस्यैवातिचारप्रतीकारत्वे प्रायश्चित्तादिव्यवहार उच्छिद्येतेति चेत्, न, प्रायश्चित्तादियतना-व्यवहारे तुल्यतामप्राप्नुवति प्रतिपक्षाऽध्यवसायस्य विशेषणस्य ध्रौव्यात्। तदुत्कर्षकेणैव च विशेष्यस्य साफल्यात्। विशेष्य विशेषण-भावे विनिगमनाविरहस्तु नयभेदाऽऽयत्तो दुष्परिहर एव / तथाऽ- प्यसकृत् प्रमादाचरणकृतमतिक्रमजातं प्रतिपक्षाध्यवसायेन कथं परिहियेत? असकृत्कृतस्य मिथ्यादुष्कृतस्याऽप्यविषयत्वा-दिति चेत् मैवम् / अत एव तुल्यगुणाधिकगुणाध्यवसायस्यैव ग्रहणात्। एकेनापि बलवता प्रतिपक्षेण परिभूयते बहुलमप्य-नर्थजातं,कर्मजनितात् चाऽतिचारादेरात्मस्वभावसमुत्थस्य स्तोकस्याऽपि प्रतिपक्षाध्यवसायस्य बलवत्त्वमुपदेशपदादि-प्रसिद्धमेव / स्यादेतत्। मनसो विकाराः प्रतिपक्षाऽध्यवसायनिवां भवन्तु, कायिकप्रतिसेवनारूपा अतिचारास्तु कथं तेन निवर्तेरन् ? इति चेत् मैवम्, संज्वलनोदयजनितत्वेनाऽतिचाराणामपि मानसविकारत्वात् , द्रव्यरूपकायिकप्रतिसेवनादीनां तु अदूरवि-प्रकर्षेणैव निवृत्तिरिति दिक् / ध०३ अधि। अट्ठपद(य)परू वणया-स्त्री०(अर्थपदप्ररूपणता) अर्थः, त्र्यणुकस्कन्धादि, तद्युक्तं तद्विषयं वा पदमानुपूर्व्यादिकं, तस्य प्ररूपणं कथनं, तद्भावोऽर्थपदप्ररूपणता / इयमानुपादिका संज्ञा, अयं च तदभिधेयस्यणुकादिरर्थः संज्ञी, इत्येवं संज्ञा-संज्ञिसंबन्धकथने, से कि तं गमववहाराणं अणोवणिहिया दव्वाणुपुव्वी? पंचविहा पण्णत्ता। तं जहा- अट्ठपद परूवणया / (इत्यादि सर्वं द्वितीयभागे 131 पृष्ठे 'आणुपुची' शब्दे वक्ष्यामः) अनु०॥ अट्ठपदोवसुद्ध-त्रि०(अर्थपदोपशुद्ध) अर्थपदानि युक्तयो हेतवो वा तैरुपशुद्धमवदातम् / सयुक्तिके, सद्धेतुके च / अर्थरभिधेयैः पदैश्व वाचकैरुप सामीप्येन शुद्धं निर्दोषम् / निर्दोषवाच्यवाचके, “सोचा य धम्मं अरहंतभासिअं, समाहितं अट्ठपदोवसुद्धं''। सूत्र० 1 श्रु० ६अ। अट्ठपिट्ठणिट्ठिया-स्त्री०(अष्टपिष्टनिष्ठिता) अष्टभिः शास्त्रप्रसिद्धः पिष्टैर्निष्ठिताऽष्टपिष्टनिष्ठता। प्रज्ञा०१७ पद०) अष्टवार-पिष्टप्रदाननिष्पन्ने सुराभेदे, जी० 3 प्रति अट्ठपुप्फी-स्त्री०(अष्टपुष्पी) अष्टौ पुष्पाणि पूजात्वेन समाहृतानि अष्टपुष्पी। पूजाऽर्थक पुष्पाऽष्टके, पुष्पाऽष्टक-निष्पाद्यायां पूजायां च / हा। अष्टपुष्पी समाख्याता, स्वर्गमोक्षप्रसाधनी। अशुद्धतरभेदेन, द्विधा तत्त्वार्थदर्शिभिः।।१।। अष्टौ पुष्पाणि कुसुमानि यस्यां पूजायां साऽष्टपुष्पी। नदादि-दर्शनाच्च ईप्रत्ययः / इयं च जघन्यपदमाश्रित्योच्यते, न द्वित्रिचतुःपुष्पाण्यारोपणीयानि / यद्वक्ष्यति-"स्तोकैर्वा बहुभिर्वाऽपि'' इति। अष्टपुष्प्याश्च देवपूजने कारणत्वं वक्ष्यति। द्विधेत्यस्येह संबन्धात् द्वाभ्यां प्रकाराभ्यां द्विधा द्विप्रकारा समाख्याता सम्यगभिहिता, तत्त्वार्थदर्शिभिरितीह संबध्यते। तत्त्वभूता अर्थाजीवादयस्तान्, तत्त्वेन वापरमार्थवृत्त्याऽर्थान्। पश्यन्तीत्येवं-शीलास्तत्त्वार्थदर्शिनस्तैः / कथं द्विधेत्याह- अशुद्धतरभेदेन, अशुद्धा च सावद्यतया, इतरा च निरवद्यतया, अशुद्धतरे, ताभ्यां कृत्वा तयोर्वा भेदो विलक्षणता अशुद्धतरभेदस्तेन, इह चेत-राशब्दस्य पुंवद्भावः, "वृत्तिमात्रे सर्वादीनां पुंवद्भावः" इति वचनात्। फलतस्तां निरूपयन्नाह - स्वर्गमोक्षप्रसाधनी, आधा देवलोकसाधनी, द्वितीया तु निर्वाणसाधनीत्यर्थः। पाठान्तरे तुस्वर्गमोक्षप्रसाधनाद् हेतोर्द्विधा / एतदेव कथम् ? अशुद्धतरभेदेन इत्येवं पदयोजना कार्येति // 1 // अशुद्धां श्लोकद्वयेन तावदाहशुद्धागमैर्यथालाभं, प्रत्यग्रैः शुचिभाजनैः। स्तोकैर्वा बहुमिर्वाऽपि, पुष्पैर्जात्यादिसंभवैः / / 2 / / अष्टापायविनिर्मुक्त-तदुत्थगुणभूतये / दीयते देवदेवाय, या सा शुद्धत्युदाहृता / / 3 / / शुद्धो निर्दोष आगमः प्राप्त्युपायो येषां तानि शुद्धागमानि, न्यायोपात्तवित्तेनाचौर्येण वा गृहीतानीत्यर्थः / पुष्पैर्दीयते देवदेवाय या साशुद्धत्युदाहृतेतिसंबन्धः / कथं दीयत इत्याह- लाभस्याऽ- नतिक्रमेण यथालाभ, प्रवचनप्रभावनार्थमुदारभावेन मालिकाद् यथालाभगृहीतैर्देशकालापेक्षया चोत्तममध्यमजघन्येषु यानि लब्धानि तैःपुष्पैरिति भावना / प्रत्यगुरपरिम्लानः, शुचिभाजनैः पवित्रपटलकाद्याधारैः, इतरथा स्नानादिशौचमपि न मनोनिवृत्तिमापादयेदिति, स्तौकैरल्पैः, प्रत्यपायापगमं पुष्पदाना दष्टमिरित्यर्थः / बहुभिर्भूरिभिस्तदुद्देशेनादानात् / वाशब्दौ स्तोकबहुपुष्पपूजयोर्बहुमानप्रधानस्य फलं प्रत्यविशेषप्रति-पादनार्थों / अपिशब्दस्तु समुच्चयार्थ इति / पुष्पैः कुसुमैः जात्यादिसंभवैर्मालतीप्रभृतिप्रभवैः, आदिशब्दाद् विचकिला दिपरिग्रहः / इह कश्चिदाहजात्यादिग्रहणं सुवर्णादिसुमनसा निषेधार्थम् / जात्यादिकुसुमानि हि सकृदारोपितानि निर्माल्यमिति कृत्वा न पुनः पुनरारोप्यन्ते, सौवर्णादीनि तु पुनः पुनरारोपणीयानि भवन्ति, निर्माल्यारोपणदोषश्चैवं प्रसज्यत इति / एतचाऽयुक्तम्-"कंचणमोत्तियरयणाइदामएहिं च विविहेहिं' इत्यनेन तेषा- मनुज्ञातत्वात् / पुनरारोपणनिषेधे तु कः किमाह ? किन्तु यदा नोत्तार्यन्ते तदा निर्माल्यारोपणदोषोऽपि न स्यात् / जात्या-दिकुसुमानि हि कालातिक्र मेण विगन्धानि भवन्तीत्यवश्य-मुत्तारणीयानि स्युः / सौवर्णादीनि तु न तथेति नाऽवश्य-मुत्तारणीयानि, तथाविधविगन्धत्वाभावादेव। तेषां पुनरारोपणेऽपि न तथाविधो दोष इति मन्यते / यदपि कैश्चिदुच्यते - अलङ्कारारोपणमयुक्तं, वीतरागाकारस्याभावप्राप्तेः। तदपिन युक्तम्। पुष्पारोपणेऽपि तथाप्रसङ्गात् / यथा हि आभरणानि