________________ अजा 221 - अभिधानराजेन्द्रः - भाग 1 अजा त्यर्थः / अथवाअनागाढयोगानुष्ठाने वर्तमाने आगाढयोगानुष्ठानं कुर्वन्ति, तथा आगाढयोगानुष्ठानेऽनागाढयोगानुष्ठानं कुर्वन्ति, स्वच्छन्दाः श्रमण्य इति कर्तृपदं पूर्वगाथात आकर्षणीयम् / एवमग्रे तनगाथात्रिकेऽपीति // 11 // अजयाए पकुवंति, पाहुणगाण अवच्छला। चित्तलयाणि असेवंत्ति, चित्ता रयहरणे तहा॥१२०।। अयतनया ईयद्यिशोधनेन प्रकुर्वन्ति गमनादिकमिति शेषः / तथा प्राघूर्णकानां ग्रामान्तराद्यागतसाध्वीनामवत्सला निर्दोषिशुभान्नपानादिना भक्तिं न कुर्वन्तीत्यर्थः / तथा चित्रलानि, सूत्रे च कप्रत्ययः स्वार्थिकः, प्राकृतलक्षणवशात् / चकारः समुच्चये। विचित्राणि वस्त्राणि इति शेषः / सेवन्ते परिदधति, तथा चित्राणि पञ्चवर्णगुल्लादिरचनोपेतानिरजोहरणानि सेवन्तेधारयन्ति। स्वच्छन्दाः श्रमण्य इति, विषमाक्षरेति गाथाच्छन्दः॥१२०|| गइविन्भमाइएहिं अगार-विगार तह पयासंति। जह वुड्डगाण मोहो, समुईरइ किं तु तरुणाणं? // 121 // स्वच्छन्दाः श्रमण्यो गति विभ्रमादि (अगारविगार त्ति) अत्र विभक्तिलोपः प्राकृतत्वात्। तत आकारं मुखनयनस्तनाद्याकृति, विकारं च मुखनयनादिविकृति, यद्वा- आकारस्य स्वाभावि-काकृतेर्विकारो विकृतिस्तं तथा प्रकाशयन्ति प्रकटयन्ति यथा वृद्धानाम्, अपेर्गम्यमानत्वात् स्थविराणामपि, मोहः कामानुरागः, समुदीर्यते समुत्पद्यते, किं पुनस्तरुणानाम् ? तेषां सुतरां समुत्पद्यत एवेत्यर्थः / तुः पुनरर्थे / / 121 // बहुसो उच्छालंती, मुहनयणे हत्थपायकक्खाओ। गिण्हेइ रागमंडल, सोइंदिअ तह य कव्वढे॥१२२।। मुखनयनानि हस्तपादकक्षाश्च बहुशो वारंवारं उच्छालयन्तिस्वछन्दाः श्रमण्यः, तथा रागमण्डलं वसन्तादिरागसमूह अग्रेतनं 'तह यत्ति' पदस्य 'गिण्हेइ' इतिपदेन सह संबन्धात् (तह य गिण्हेइ त्ति) तथैव गृह्णन्ति तथैव कुर्वन्तीत्यर्थः / यथा (कवढे त्ति) कल्पस्थाः समयपरिभाषया बालकास्तेषामपि श्रोत्रेन्द्रियं श्रवणेन्द्रियम्, "गिण्हेइ' इति क्रियाया अत्रापि संबन्धाद् गृह्णन्ति हरन्तीत्यर्थः / अथवा कारणे कार्योपचारात् रागो रागोत्पत्तिहेतुर्वस्तु,यथा- मुखे शृङ्गारगीतादि, नयनेऽञ्जनादि, मस्तके सीमन्तादि, ललाटे तिलकादि, कण्ठे कुसुममालादि, अधरे ताम्बूलरागादि, शरीरे चन्दनलेपादि, तस्य मण्डलं समूह तथा गृह्णन्ति यथा बालानामपि श्रोत्रेन्द्रियमुपलक्षणत्वादन्यदिन्द्रियचतुष्कं मनश्च गृह्णन्ति हरन्ति / अत्रोत्तराद्धे पाठान्तरम्। यथा- गेण्हण रामण मंडण, भोयंति व ताउ कव्वट्ठे / अस्याऽर्थः- गृहस्थबालकानां ग्रहणं कुर्वन्ति, रामणं मञ्चाक्रीडनं, मण्डनं वा प्रसाधनम्, यदि वा ताः कल्पस्थान गृहस्थबालकान् भोजयन्ति। अत्रापिगाथायां विभक्तिलोपविभक्तिव्यत्यवचनव्यत्ययाः प्राकृतत्वादेवेति॥१२२।। अथ साध्वीनांशयनविधिं दर्शयन्नाहजत्थ य थेरी तरुणी, थेरी तरुणी य अंतरे सुयई। गोअम ! तं गच्छवरं, वरनाणचरित्तआहारं / / 123 / / यत्र च गणे स्थविरा, ततस्तरुणी, पुनः स्थविरा, ततस्तरुणीत्येवमन्तरिताः साध्व्यः स्वपन्तीतिभावार्थः। तरुणीनां निरन्तर-शयने हि परस्परजाकरस्तनादिस्पर्शनेन पूर्वक्रीडितस्मरणा - दिदोषः स्यादतःस्थविरान्तरिताएव ताःशेरते। हे गौतम! वरज्ञानचारित्राऽऽधारं | तं गच्छवरं जानीहीति // 123 // अथ या आर्या न भवन्ति, ता गाथात्रयेण दर्शयतिधोअंतिकंठिआओ,पोअंतीतहयदितिपोत्ताणि। गिहिकञ्जचिंतगाओ,नहुअञ्जागोअमा!ताओ॥१२४|| कण्ठिका गलप्रदेशान् धावन्ति नीरेण क्षालयन्ति, तथा (पोअंतित्ति) मुक्ताफलविद्रुमादीनि प्रोतयन्ति, गृहस्थानामिति गम्यते / तथा च (पोत्ताणि त्ति) बालकाद्यर्थं वस्त्राणि ददति, चकारादीषद् धजटिकादिकमपि ददति। अथवा 'पोत्ताणि त्ति' जलाद्रीकृत-वस्त्राणि ददति, मलस्फोटनाय शरीरे घर्षयन्तीत्यर्थः। तथा गृहिकार्यचिन्तिका अगारकृत्यकारणतत्पराः, हे इन्द्रभूते ! ता आर्या 'नहु' नैव भवन्तीति गाथार्थः / / 124|| खरघोडाइट्ठाणे, वयंति ते वा वि तत्थ वचंति। वेसत्थीसंसग्गी, उवस्सयाओ समीवम्मि॥१२५|| खरा गर्दभाः, घोटकास्तुरङ्गमाः, आदिशब्दाद्, हस्त्यादयः, तेषा स्थाने या व्रजन्ति / उक्तं च व्यवहारभाष्यसप्तमोद्देशके "तह चेव हत्थिसाला, घोडगसालानचेव आसन्ना।जंतितहजंतसाला, कोहीयत्त चकुव्वन्ति" ||1|| अथवा (खर ति) खरका दासाः,घोटा भट्टाः, अयं चानयो: शब्दयोरर्थः, आदिशब्दात्द्यूतकारादयः, तेषां स्थानेव्रजन्ति, ते वा गर्दभाश्चादयो दास-भट्टादयो वा, तत्राऽऽर्यिकोपाश्रये व्रजन्ति समायान्तीत्यर्थः / श्री- व्यवहारभाष्यसप्तमोद्देशके त्विदं प्रथमपदस्य पाठान्तरम्-'थलिघोडाइट्ठाणे त्ति' तत्र स्थाल्या देवद्रोण्यः, तत्र घोटा डिङ्गराः, अत्रादिशब्दस्तेषामेव देवडिङ्गराणामनेकभेदख्यापनार्थः तेषां स्थाने व्रजन्ति। तथा स्थलीघोटादेवडिङ्गरापरपर्यायास्त-त्रार्यिकोपाश्रये व्रजन्ति / तथा वेश्यास्त्रीसंसर्गी पुमान् सदैव यासां समीपे वसति, यदि वा वेश्यागृहसमीपे यासामुपाश्रयः, ता आर्यिका न भवन्तीति शेषः॥१२५॥ सज्झायमुक्कजोगा, धम्मकहाविकहपेसण गिहीणं। गिहिनिस्सिजं वाहिंति संथवं तह करतीओ।।१२६|| स्वाध्यायेन मुक्तो योगो व्यापारो यासां ताः स्वाध्यायमुक्त-योगाः / 'छक्कायजोग त्ति' पाठे तु षट्कायेषु मुक्तो योगो यतनालक्षणो व्यापारो याभिस्ताः षट्कायमुक्तयोगास्तथाभूताः सत्योगृहिणा धर्मकथानामाख्याने, विकथानां च स्त्रीकथादीनां करणे, प्रेषणे प्रेरणेचनानारूपे गृहिणामुक्ताः। तथा या गृहिनिषद्यां वाधन्ते गृहे निषद्यामुपविशन्तीत्यर्थः / तथा याः संस्तवं परिचयं गृहस्थैः सह कुर्वन्त्यो वर्तन्ते, ताः साध्व्यो न भवन्तीति / / 126 / / ग०३ अधिo/ अथ गाथात्रयेण वचनगुप्तिमाश्रित्य साध्व्याचारं दर्शयतिजत्थुत्तरपडिउत्तर, वुड्ढिआ अजा उ साहुणा सद्धिं / पलवंति सुरुट्ठा वा, गोयम! किं तेण गच्छेण ? ||126|| यत्र गणे आर्या साधुना सार्द्धमुत्तरं प्रत्युत्तरं वा (बुड्ढिअत्ति) वृद्धा अपि ताः, अप्यर्थस्यात्र योजनात्, तथा सुरुष्टा अपि भृशंसरोषा अपिप्रलपन्ति प्रकर्षण वदन्ति। हे गौतम! तेन गच्छेन किम् ?,न किमपीत्यर्थः / / 126 / / जत्थ य गच्छे गोयम! उप्पण्णे कारणम्मि अजाओ। गणिणीपिद्विठिआओ, मासंती मउअसद्देण॥१३०॥ हे गौतम ! यत्र च गच्छे ज्ञानादिकारणे उत्पन्ने (अज्जाओ त्ति) आर्याः साध्व्यो गणिनीपृष्टिस्थिता मृदुकशब्देन भाषन्ते, स गच्छः स्यादिति शेषः॥१३०॥