________________ अंतर 70 - अभिधानराजेन्द्रः - भाग 1 अंतर पगतौ द्वौ सूर्यों पूर्वस्मात्पूर्वस्मात्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं संक्रामन्तौ एकै कस्मिन्मण्डले पूर्वपूर्वमण्डलगतान्तरपरिमाणापेक्षया पञ्च पश्श योजनानि पश्चत्रिंशतं चैकषष्टिभागान् योजनस्य परस्परमभिवर्द्धयन्तौ नवसूर्यसंवत्सरसत्के अशीत्यधिकशततमे अहोरात्रे प्रथमषण्मासपर्यवसानभूते सर्वबाह्यमण्डलमपसंक्रम्यचारचरतः।(ताजयाणमित्यादि)ततोयदा एतौ द्वौ सूर्यो सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरतस्तदा तावेकं योजनशतसहस्रं षट् शतानिषष्टयधिकानि (100660) परस्परमन्तरं कृत्वा चारं चरतः / कथमेतदवसेयमिति चेत् उच्यते- इह प्रतिमण्डलं पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येत्यन्तरपरिमाणचिन्तायामभिवर्द्वमानं प्रप्यते सर्वाभ्य न्तराच मण्डलात्सर्वबाह्य मण्डलंत्र्यशीत्यधिकशततमंततः पञ्चयोजनानि त्र्यशीत्यधिकेनशतेन गुण्यन्ते जातानि नव शतानि पञ्चदशोत्तराणि योजनानामेकषष्टिभागाश्च पञ्चत्रिंशत्संख्या-स्त्र्यशीत्यधिकेन शतेन गुण्यन्ते जातानि तेषां चतुःषष्टिशतानि पञ्चोत्तराणि (6405) तेषामेकषष्टया भागे हृते लब्धं पञ्चोत्तरंयोजनशतम् (105) एतत्प्राक्तने योजनराशौ प्रक्षिप्यते जातानि दश शतानि विंशत्यधिकानि योजनानि (1020) एतत्सर्वाभ्यन्तरमण्डलगताऽन्तरपरिमाणे नवनवतियोजनसहस्राणि षट् शतानि चत्वारिंशदधिकानि (66640) इत्येवंरूपे प्रक्षिप्यते ततो यथोक्तं सर्वबाह्ये मण्डले अन्तरपरिमाणं भवति / (तया णमित्यादि) तदा सर्वबाह्यमण्डलचारचरणकाले उत्तमकाष्ठां प्राप्ता परमप्रकर्षप्राप्ता उत्कृष्टा अष्टादशमुहर्ता रात्रिर्भवति, जघन्यश्च द्वादशमहा दिवसः। "एस णं पढमे छम्मासे' इत्यादि प्राग्वत् (ते पविसमाणा इत्यादि) तौ ततः सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन्तौ द्वौ सूर्यो द्वितीयषण्मासमाददानी द्वितीयस्य षण्मासस्य प्रथमे अहोरात्रे बाह्याऽनन्तरं सर्वबाह्यान्मण्डलादगिनन्तरं द्वितीयं मण्डल-मुपसंक्रम्य चारं चरतः (ता जया णमित्यादि) तत्र यदा एतौ द्वौ सूर्यो सर्वबाह्यानन्तरभक्तिनं द्वितीयं मण्डलमुपसंक्रम्य चारं चरतस्तदा एकं योजनशतसहस्रं षट् शतानि चतुःपञ्चादशधिकानि (१००६५४)षड्विंशति(२६)चैकषष्टिभागान् योजनस्य परस्परमन्तरं कृत्वाचारंचरतःचरन्तावाख्याताविति वदेत। कथमतावत्तस्मिन्सर्वबाह्यान्मण्डलादाक्तने द्वितीये मण्डले परस्परमन्तरकरणमिति चेत् उच्यते इहैकोऽपि सूर्यः सर्वबाह्यमण्डलगतानष्टाचत्वारिंशदेकषष्टिभागान् योजनस्यापरे च द्वे योजनेअभ्यन्तरं प्रविशन्सर्वबाह्यान्मण्डलादक्तिने द्वितीये मण्डले चार चरति अपरोऽपि ततः सर्वबाह्यगतादन्तरपरिमाणा-दत्रान्तरपरिमाणं पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजन-स्योनं प्राप्यते इति भवति यथोक्तमत्रान्तरपरिमाणम् / (तया णमित्यादि) तदा सर्वबह्यानन्तरादक्तिनद्वितीयमण्डल-चारचरणकाले अष्टादशमुहूर्ता रात्रिर्भवति द्वाभ्यां तु मुहूर्त कषष्टिभागाभ्यामूना, द्वादशमुहुर्तो दिवसो द्वाभ्यां मुहूर्तक-षष्टिभागाभ्यामधिकः / (ते पविसमाणा इत्यादि) ततस्तस्मादपि सर्वबाह्यमण्डलादक्तिनद्वितीयमण्डलादभ्यन्तरं प्रविशन्तौ तौ द्वौ सूर्या द्वितीयस्य षण्मासस्य द्वितीये अहोरात्रे (बाहिरतच्चंति) सर्वबाह्यात मण्डलादक्तिनं तृतीयं मण्डलमुपसंक्रम्य चारं चरतः। (ता जया णमित्यादि) तत्र यदा एतौ द्वौ सूर्या सर्वबाह्यात् मण्डलादक्तिनं तृतीयं मण्डलमुपसंक्रम्य चारं चरतः तदा एकं योजनशतसहससं षट् च योजनशतानि अष्टाचत्वारिंशदधिकानि (१००४८)द्विपञ्चाशतं (52) चैकषष्टिभागान् योजनस्य परस्परमन्तरं कृत्वा चारं चरतः। प्रागुक्तयुक्त्या पूर्वमण्डलगतादन्तरपरिमाणादत्रान्तर परिमाणमस्य पञ्चभिर्योजनैः (5) पश-त्रिंशता (35) चैकषष्टिभागैर्योजनस्य हीनतत्वात् / (तया णमित्यादि) तदा सर्वबाह्यान्मण्डलादाक्तनतृतीयमण्डलचार-चरणकाले अष्टादशमुहूर्ता रात्रिर्भवति चतुर्भिर्मुहूर्तः एकषष्टि -भागैरूना / द्वादशमुहुर्ता दिवसश्चतुर्भिरेकषष्टिनागैर्मुहूर्तरधिकः / (एवं खलु इत्यादि) एवमुक्तप्रकारेण खलु निश्चितमेतेनोपायेन एकतोऽप्येकः सूर्योऽभ्यन्तरं प्रविशन् पूर्वपूर्यमण्डलगतादन्तरपरिमाणादनन्तरे विवक्षिते मण्डले अन्तरपरिमाणस्याष्टाचत्वारिंशतमेकषष्टिभागान् द्वे च योजने हापयत्यपरतोऽप्यपरः सूर्य इत्येवंरूपेण एतौ जम्बूद्वीपगतौ सूर्यो तदनन्तरान्मण्डलात्तदनन्तरमण्डलं संक्रामन्तौ एकैकस्मि-न्मण्डले पूर्वपूर्वमण्डलगतादन्तरपरिमाणात् अनन्तरे अनन्तरे विवक्षिते मण्डले पञ्च पश्श योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य परस्परमन्तरपरिमाणं निर्वेष्टयन्तौ हापयन्तावित्यर्थः / द्वितीयस्य षणमासस्य त्र्यशीत्यधिकशततमे अहोरात्रे सूर्यसंवत्सरपर्यवसानभूते सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरतः। (ता जया णमित्यादि) तत्र यदा एतौ द्वौ सूर्यो सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरतः तदा नवनवतियोजनसहस्राणि षट योजनसतानि चत्वारिंशानि चत्वारिंशदधिकानि (96640) परस्परमन्तरं कृत्वा चारंचरतः / अत्र चैवंरूपान्तरपरिमाणे भावना प्रागेव कृता शेषं सुगमम्। सू०प्र०१पाहु०। चं० प्र०। ज्यो०। मं० 0 / (मन्दरात् कियत्याबाधया ज्योतिष्का इत्यादि अबाहा शब्दे) (14) धातकीखण्डस्य द्वाराणामन्तरं यथाधायइसंडस्स णं भंते ! दीवस्स दारस्स य दारस्स य एस णं के वतिय अबाहए अंतरे पण्णते ? गोयमा ! दस जोयणसतसहस्साई सत्तावीसं च जोयणसहस्साई सत्त य पणतीसे जोयणसते तिण्णि य कोसे दारस्स य दारस्सय अबाहाए अंतरे पण्णत्ते। धातकीखण्डस्य भदन्त ! द्वीपस्य द्वारस्य च द्वारस्य च परस्परमेतत् अन्तरं कियत् किंप्रमाणमबाधया अन्तरितत्वाद् (व्याघातेन) व्यवधानेन प्रज्ञप्तं ? भगवानाह- गौतम ! दश योजनशतसहस्राणि सप्तविंशतिसहस्राणि सप्त शतानि पञ्चत्रिंशानि (1027735) द्वारस्य परस्परमन्तरमबाधया प्रज्ञप्तम् / तथाहि एकै कस्य द्वारस्य द्वारशाखाकस्य जम्बूद्वीपद्वारस्येव पृथुत्वं सार्द्धानि चत्वारि योजनानि / ततश्चतुण्णां द्वाराणामेकत्र पृथुत्वपरिमाणमीलने जातान्यष्टादश योजनानि तान्यनन्तरोक्तात्परिखापरिमाणात् (4110661) शोध्यन्ते, शोधितेषु च तेषु जातं शेषमिदमेकचत्वारिंशल्लक्षा दश सहस्राणि नव शतानि त्रिचत्वा-रिंशदधिकानि (4110643) एतेषां चतुर्भिागे हृते लब्धं यथोक्तं द्वाराणां परस्परमन्तरम् / उक्तं च "पणतीसा सत्त सया, सत्तावीसा सहस्स दस लक्खा धायइसंडे दारंतरंतु अवरंचकोसतियं // (1027735 यो०३ कोश)। जी०३ प्रति०। (15) नन्दनवनस्याऽधस्तनाचरमान्तात् सौगन्धिकस्य काण्डस्याऽधस्तनचरमाऽन्तस्याऽन्तरम्। नंदणवणस्सणं हेछिल्लाओ चरमंताओ सोगंधियस्स कंडस्स हेडिल्ले चरिमंते एसणं पंचासीइंजोयणसयाई अबाहाए अंतरे पण्णत्ते।