________________ अंजणग 49 - अभिधानराजेन्द्रः - भाग 1 अंजणग इति विशेषः। ताश्च प्रत्येक प्रत्येकं पद्मवरवेदिकया परिक्षिप्ताः प्रत्येक प्रत्येकं वनखण्डेन परिक्षिप्ताः। अत्रापीदमन्यदधिकं पुस्तकान्तरे दृश्यते "तासिणं पुक्खरिणीणं पत्तेयं पत्तेयं चउद्दिसिं चत्तारिवणसंडा पन्नत्तातं जहा पुरच्छिमेणं दाहिणेणं अवरेण उत्तरेणं पुव्वेणं असोगवणंजाव भूयवणं उत्तरे पासे " एवं शेषाञ्जन-पर्वतसंबन्धिनीनामपि नन्दापुष्करिणीनां वाच्यम्। (तासि णमित्यादि) तासांपुष्करिणीनां बहुमध्यदेशभागे प्रत्येक प्रत्येकं दधिमुखो दधिमुखनामा पर्वतः प्रज्ञप्तः (ते णमित्यादि) ते दधिमुखपर्वताश्चतुःषष्टियोजनसहस्राणि ऊर्ध्वमुचैस्त्वेन एकं योजनसहस्रमुद्वेधेन सर्वत्र समाः पल्यसंस्थानसंस्थिताः / दशयोजनसहस्राणि विष्कम्भेन, एकत्रिंशद्योजनसहस्राणि षत्रयोविंशानि / त्रयोविंशत्यधिकानि षट्योजनशतानि (31,623) परिक्षेपेण प्रज्ञप्ताः / सर्वात्मना स्फटिकमया अच्छा यावत्प्रतिरूपाः प्रत्येकं प्रत्येकं पावरवेदिकया परिक्षिप्ताः प्रत्येकं 2 वनखण्डेन परिक्षिप्ताः(तेसि णमित्यादि) तेषां दधिमुख- पर्वतानामुपरि प्रत्येक बहुसमरमणीयो भूमिभागः प्रज्ञाप्तः। तस्य च वर्णनं तावद्द्वक्तव्यं यावद्वहवो "वाणमन्तरा देवा देवीओ य आसयंति सयंति जाव विहरंति''(तेसि णमित्यादि)तेषां बहुसभरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं सिद्धायतनं प्रज्ञप्तं सिद्धायतन-वक्तव्यता प्रमाणादिका अञ्जनकपर्वतोपरि सिद्धायतनवद्वक्तव्या यावदष्टशतं प्रत्येकं प्रत्येक धूपकडच्छुकानामिति। तत्थणंजे से दक्खिणिल्लेणं अंजणपव्वए, तस्स णंचउद्दिसिं चत्तारिणंदापुक्खरिणीओ पन्नत्ताओ। तंजहा- भद्दाय विसाला य, कुमुया य, पुंडरीगिणी य / तं चेव तहेव दहिमुहपव्वया। तं चेव पमाणं जाव सिद्धायतणे। (तत्थ णं जे से दाहिणिल्ले णं अंजणगपव्वए इत्यादि) दक्षिणाञ्जनकपर्वतकस्यापि पूर्वदिग्भाव्यञ्जनकपर्वतस्येव निरवशेष वक्तव्यं, नवरं नन्दापुष्करिणीनामिमानि नामानि / तद्यथा- पूर्वस्यां नन्दोत्तरा, दक्षिणस्यां नन्दा, अपरस्यामानन्दा, उत्तरस्यां नन्दिवर्द्धना। शेषं तथैव। तत्थ णं जे से पच्चच्छिमेणं अंजणपव्वए, तस्स णं चउद्दिसिं चत्तारि नंदापुक्खरिणीओ पण्णत्ताओ। तं जहा- णंदिसिणा य अमोहाय गोत्थुभाय सुदंसणा यातं चेव सव्वं भाणियव्वं जाव सिद्धाययणं / तत्थ जे से उत्तरिल्ले अंजणपव्वते, तस्स णं चउद्दिसिं चत्तारिनंदापुक्खरिणीओपण्णत्ताओ। तंजहा-विजया वेजयंती जयंती अपराजिता सेसंतहेव जाव सिद्धाययणा सव्वो चेति य वण्णणा णेयव्वा / तत्थ णं बहवे भवण वइवाणमंतरजोतिसवेमाणिया देवा चाउम्मासिय-पडिवएसु संवच्छरेसु य अण्णेसु बहुजिणजम्मण निक्खमणणाणुप्पातपरिणिव्वाणमादिएसु य देव-कन्जेसु य देवसमुदाएसु य देवसमितीसु य देवसम-वाएसु य देवपओयणेसु य एमंतओ संहिया समुवागया समाणा पमुदितपकीलिया अट्ठ हियाओ महामहिमाओ कारेमाणा पालेमाणा सुहं सुहेण विहरंति। कयस्सासहरिवाहणा य तत्थ दुवे देवा महिड्डिया जाव पलिओवमद्वितिया परिवसंति।से तेणटेणं गोयमा ! जाव निचे जोतिसं संखेनं। पूर्वदिग्भाव्यञ्जनकपर्वतस्येव पश्चिमदिग्भाव्यञ्जनकपर्वत-स्यापि वक्तव्यं यावत्प्रत्येक प्रत्येकमष्टशतं धूपकडुच्छुकानां नवरं नन्दापुष्करिणीनां नामनानात्वं, तद्यथा- पूर्वस्यां भद्रा दक्षिणस्यां विशाला अपरस्यां कुमुदा उत्तरस्यां पुण्डरीकिणी / शेषं तथैव / एवमुत्तरदिग्भाव्यञ्जनकपर्वतेऽपि वक्तव्यं नवरमत्राऽपि नन्दापुष्करिणीनां नामनानात्वं, तद्यथा- पूर्वस्यां दिशि विजया दक्षिणस्यां वेजयन्ती अपरस्यां जयन्ती उत्तरस्यामपराजिता शेषं तथैव यावत्प्रत्येक प्रत्येकमष्टशतं धूपकडुच्छुकानामिति / षोडशानामपि चामूषां वापीनामपान्तराले प्रत्येक प्रत्येकं रतिकरपर्वती जिनभवनमण्डितशिखरौ शास्त्रान्तरे अभिहिता-विति / सर्वसंख्यया नन्दीश्वरद्वीपे द्वापञ्चाशत्सिद्धायतनानि (तत्थ णमित्यादि) तत्र तेषु सिद्धायतनेषु णमिति पूर्ववत् बहवो भवनपतिवाणमन्तराज्योतिष्कवैमानिका देवाश्चातुर्मासिकेषु पर्युषणायामन्येषु च बहुषु जिनजन्मनिष्क्रमणज्ञानोत्पाद-परिनिर्वाणादिषु देवकार्येषु देवसमितिषु, एतदेव पर्यायद्वयेन व्याचष्टे- देवसमवायेषु देवसमुदायेष्वागताः प्रमुदितप्रक्रीडिता अष्टाहिकारूपा महामहिमाः कुर्वन्तः सुखं सुखेन विहरन्ति, आसते। (अङ्गुत्तरं चणं गोयमा ! इत्यादि) अथाऽन्यत् गौतम ! नन्दीश्वरवरद्वीपे चक्रवालविष्कम्भेन बहुमध्यदेशभागे चतसृषु दिक्षु एकैकस्यां विदिशि एकैकभावेन चत्वारो रतिकरपर्वताः प्रज्ञप्ताः। तद्यथाएक उत्तरपूर्वस्यां, द्वितीयो दक्षिणपूर्वस्या, तृतीयो दक्षिणा-ऽपरस्यां, चतुर्थ उत्तराऽपरस्याम् / ते णं इत्यादि, ते रतिकरपर्वता दशयोजनसहस्राणि ऊर्ध्वमुच्चैस्त्वेन एकयोजनसहस्रसमुद्वेधेन सर्वत्र समा झल्लरीसंस्थानसंस्थिता दशयोजनसहस्राणि विष्कम्भेन एकत्रिंशद्योजनसहस्राणि षट्त्रिंशानि योजनशतानि (31,630) परिक्षेपेण सर्वात्मना रत्नमया अच्छा यावत् प्रतिरूपाः / तत्र योऽसावुत्तरपूर्वो रतिकरपर्वतस्तस्य चतुर्दिशि चतसृषु दिक्षु एकैक राजधानीभावेन ईशानस्य देवेन्द्रस्य देवराजस्य चतसृणा-मग्रमहिषीणा जम्बूद्वीपप्रमाणाः चतस्रो राजधान्यः प्रज्ञप्तास्तद्यथा- पूर्वस्यां दिशि नन्दोत्तरा दक्षिणस्यां नन्दा पश्चिमायामुक्तरकुरा उत्तरस्यां देवकुरा / तत्र कृष्णायाः कृष्णनामिकाया अग्रमहिष्या नन्दोत्तरा, कृष्णराज्या नन्दा, रामाया उत्तरकुरा, रामरक्षिताया देवकुरा / तत्र योऽसौ दक्षिणपूर्वो रतिकरपर्वतस्तस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमाणा-श्वतस्रो राजधान्यः प्रज्ञप्तास्तद्यथा- पूर्वस्यां सुमनाः,दक्षिणस्यां सौमनसा,अपरस्यामर्चिमाली, उत्तरस्यां मनोरमा / तत्र पद्मायाः पद्मनामिकाया अग्रमहिष्याः सुमनाः, शिवायाः सौमनसा, सोमाया अर्चिमाली, अञ्जुकाया मनोरमा / तत्र योऽसौ दक्षिणपश्चिमो रतिकरपर्वतस्तस्य चतुर्दिशि शक स्य देवराजस्य / चतसृणा-मग्र महिषीणां जम्बूद्वीपप्रमाणमात्रा-श्वतस्रो राजधान्यः प्रज्ञप्ता-स्तद्यथा- पूर्वस्यां दिशि भूता, दक्षिणस्या भूतावतंसा, अपरस्यां गोस्तूपा, उत्तरस्यां सुदर्शना / तत्र अमलाया अमल-नामिकाया अगृमहिष्या भूता राजधानी, अप्सरसोभूता-वसन्तिका, नवमिकायार्गा स्तूपा, रोहिण्याः सुदर्शना। तत्र योऽसावुत्तरपश्चिमो रतिकरपर्वतस्तस्य चतुर्दिशि ईशानस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राजधान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि रत्ना, दक्षिणस्यां रत्नोचया, अपरस्यां सर्वरत्ना,उत्तरस्यां रत्नसञ्चया। तत्र