________________ अइसेस 32 - अभिधानराजेन्द्रः - भाग 1 अइसेस देवाविति विंशतितमः २०,बृहद्वाचनायामनन्तरोक्तमतिशय-द्वयं नाधीयते अतस्तस्यां पूर्वेऽष्टादशैव अमनोज्ञानां शब्दादीनामपकर्षोऽभाव इत्येकोनविंशतितमः 16, मनोज्ञानां प्रादुर्भाव इति विंशतितमः 20, (पव्वाहरओत्ति ) प्रव्याहरतो व्याकुर्वतो भगवतः (हिययगमणीउत्ति)हृदयङ्गमः(जोयणनीहारीत्ति)योजनाति-क्रमी स्वर इत्येकविंशः२१, (अद्धमागहीएत्ति) प्राकृतादीनां षण्णां भाषाविशेषाणां मध्ये या मागधी नाम भाषा) 'रसोलसौ' मागध्यामित्यादिलक्षणवती सा असमाश्रितस्वकीयसमग्र-लक्षण्यर्द्धमागधीत्युच्यते तया धर्ममाख्याति तस्या एवा-ऽतिकोमलत्वादिति द्वाविंशः२२,(भासिज्जमाणीत्ति) भगवता ऽभिधीयमाना (आरियमणारियाणंति)आर्याऽनार्य-देशोत्पन्नानां द्विपदा मनुष्याश्चतुष्पदा गवादयः मृगा आटव्याः पशवो ग्राम्याः पक्षिणः प्रतीताः सरीसृपा उरःपरिसप्पा भुजपरिसप्पश्चेिति तेषां किमात्मन आत्मतया आत्मीयया इत्यर्थः भाषा, तया भाषाऽभावेन परिणमतीति संबन्धः / किं भूताऽसौ भाषा ? इत्याह- हितमभ्युदयः शिवं मोक्षः सुखं श्रवणकालोद्भवमानन्दंददातीति हितशिवसुखदेति त्रयोविंशः 23, पूर्व भवान्तरेऽनादिकाले वा जातिप्रत्ययबद्ध निकाचितं वैरममित्रभावो येषां ते तथा तेऽपि च आसतां मध्ये देवा वैमानिका असुरा नागाश्च भवनपतिविशेषाः सुवर्णाः शोभनवर्णा एते च ज्योतिष्का यक्षराक्षसकिन्नराः किंपुरुषाः व्यन्तरभेदाः गरुडा गरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः गन्धर्वा महोरगाश्वव्यन्तरविशेषा एवएतेषां द्वन्द्वः (पसंतचित्तमाणसत्ति ) प्रशान्तानि समङ्गतानि चित्राणि रागद्वेषाद्यनेकविधविकारयुक्ततया विविधानि मानसान्यन्तःकरणानि येषां ते प्रशान्तचित्रमानसा धर्म निशामयन्ति इति चतुर्विशः२४,वृद्धवादतया इदमन्यदतिशयद्वयमधीयते यदुत अन्यतीर्थिकप्रावचनिका अपि च णं वन्दन्तो भगवन्तमिति गम्यते इति पञ्चविंशः 25, आगताः सन्तोऽर्हतः पादमूले निष्प्रतिवचना भवन्ति इतिषविंशः २६.(जओ जओ वि यणंति)यत्र यत्राऽपि च देशे (तओ तओ त्ति) तत्र तत्राऽपि च पञ्चविंशतियोजनेषु न भवति ईतियाध्याद्युपद्रवकारी प्रचुरमेषकादिप्राणिगण इति सप्तविंशः 27, न भवति मारिर्जनमारक इत्यष्टाविंशः 28, स्वचक्रं स्वकीयराज-सैन्यं तदुपद्रवकारि न भवतीति एकोनत्रिंशः 26, एवं न भवति परचक्रं परराजसैन्यमिति त्रिंशः 30, न भवति अतिवृष्टिरधिक-वर्ष इत्येकत्रिंशः 31, न भवति अनावृष्टिवर्षणाभाव इति द्वात्रिंशः ३२,न भवति दुर्भिक्ष दुष्काल इति त्रयस्त्रिंशः३३,(उप्पाइया-वाहित्ति)उत्पाता अनिष्टसूचका रुधिरवृष्ट्यादयः,तद्धेतुका ये-उनास्ते औत्पातिकास्तथा व्याधयो ज्वराद्याः, तदुपशमोऽभाव इति चतुस्त्रिशत्ततमः 34 / अन्यच "पव्याहरओ' इत आरभ्य येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृताः शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति एते च यदन्यथाऽपि दृश्यन्ते तन्मतान्तरमेव मन्तव्य-मिति। स०३४ सम०। इदमत्र निगमनं चत्वारो जन्मप्रभृतित एकोनविंशतिः देवकृताः एकादश घाति-कर्मणां क्षयाद् भवन्तीति चतुस्त्रिंशदतिशयाः उक्ताः। दर्शका सत्यवचनस्य पञ्चत्रिंशदतिशयाः,यथापणतीसं सचवयणाइसेसा पण्णत्ता। पञ्चत्रिंशत् स्थानकं सुगम, नवरं सत्यवचनाऽतिशया आगमे न दृष्टाः। एते तु ग्रन्थान्तरे दृष्टाः संभावितवचनं हि गुणवद् वक्तव्यं, तद्यथासंस्कारवत् 1, उदात्तं 2, उपचारोपेतं 3, गम्भीर-शब्दम् 4, अनुनादि | 5, दक्षिणम् 6, उपनीतराग७, महार्थं 8, अव्याहतपौर्वापर्यम्, शिष्टम् | 10, असंदिग्धम् ११,अप-हृताऽन्योत्तरम् 12, हृदयग्राहि 13, देशकालाव्यतीतम् 14, तत्त्वाऽनुरूपम् 15, अप्रकीर्णप्रसृतम् 16, अन्योऽन्यप्रगृहीतम् 17, अभिजातम् 18, अतिस्निग्धमधुरम् 16, अपरमर्मविद्धम् 20, अर्थधर्माऽभ्यासानपेतम् 21, उदारम् 22, परनिन्दाऽऽत्मो-त्कर्षविप्रयुक्तम् 23, उपगतश्लाघम् 24, अनपनीतम् 25, उत्पादिताच्छिन्नकौतूहलम् 26, अद्भुतम् 27, अनतिविलम्बितम् 28, विभ्रमविक्षेपकिलिकिञ्चितादिविमुक्तम् 26, अनेकजातिसंश्रया विचित्रम् 30, आहितविशेषम् 31, साकारम् 32, सत्त्वपरिग्रहम् 33, अपरिखेदितम् 34, अव्युच्छेदम् 35, चेतिवचनं महानुभावैर्वक्तव्यमिति। तत्र संस्कारवत्त्वं संस्कृताऽऽदिलक्षणयुक्तत्वम् 1, उदात्त-त्वमुचैर्वृत्तिता 2, उपचारोपेतत्वमग्राम्यता 3, गम्भीरशब्दं मेघस्येव 4, अनुनादित्वं प्रतिरवोपेतता 5, दक्षिणत्वं सरलत्वं 6, उपनीतरागत्यं मालकोशादिग्रामरागयुक्तता 7. एते सप्त शब्दाऽपेक्षा अतिशयाः। अन्ये त्वर्थाऽऽश्रयाः, तत्र महाऽर्थत्वं, बृहदभिधेयता 8, अव्याहतपौर्वापर्यत्वम्, पूर्वाऽपरवाक्याऽविरोधः 6, शिष्टत्वम् अभिमतसिद्धान्तोक्ताऽर्थता वक्तुः शिष्टतासूचकत्वंवा 10, असंदिग्धत्वम् असंशयकारिता 11, अपहृतान्योत्तरत्वम् परदूषणाविषयता 12, हृदयग्राहित्वम् श्रोतृमनोहरता १३.देश-कालाऽव्यतीतत्वं, प्रस्तावोचितता 14, तत्त्वाऽनुरूपत्वम् विवक्षितवस्तुस्वरूपानुसारिता 15, अप्रकीर्णप्रसृतत्वम् सुसंबन्धस्य सतःप्रसरणं, अथवाऽसंबद्धाऽधिकारित्वाऽतिविस्तरयोरभावः 16, अन्योऽन्यप्रगृहीतत्वं, परस्परेण पदानां वाक्यानां वा सापेक्षता 17, अभिजातत्वं चक्षुःप्रतिपाद्यस्येव भूमिकानुसारिता 18, अतिस्निग्ध-मधुरत्वम् घृतगुडादिवत् सुखकारित्वम् १६,अपरमर्मवेधित्यम् परमाऽनुद्धट्टनस्वरूपत्वम् 20, अर्थधर्माऽभ्यासाऽनपेतत्वम् अर्थधर्मप्रतिबद्धत्वम् 21, उदारत्वम्, अभिधेयाऽर्थस्यातुच्छत्वगुम्फ गुणविशेष वा 22, परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव 23, उपगत-श्लाघत्वम् उक्तगुणयोगात् प्राप्तश्लाघता 24, अनपनीतत्यम् कारक कालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता 25, उत्पादिताच्छिन्नकौतूहलत्वम्, स्वविषये श्रोतृणां जनितमवि-च्छिन्नं कौतुकं येन तत्तथा तद्भावस्तत्त्वम् 26, अद्रुत-त्वमनतिविलम्बितत्वं च प्रतीतम् 27-28, विभ्रमविक्षेप-किलिकिञ्चितादिविमुक्तत्वम्, विभ्रमो वकृमनसो भ्रान्तता विक्षेपस्तस्यैवाऽभिधेयाऽर्थ प्रत्यनासक्तता कि लिकिञ्चितं रोषभयाऽभिलाषादिभावानां युगपद् वाऽसकृत करणमादि-शब्दात् मनोदोषाऽन्तरपरिग्रहस्तैर्विमुक्तं यत्तत्तथा तद्भावः, तत्त्वम् 26, अनेकजातिसंश्रया विचित्रत्वम्, इह जातयो वर्णनीयवस्तुरूपवर्णनानि 30, आहितविशेषत्वम्, वचनाऽन्तरापेक्षया ढौकितविशेषता 31, साकारत्वम्, विच्छिन्नवर्णपदवाक्यत्वेनाऽऽकारप्राप्तत्वम् 32, सत्त्वपरिगृहीतत्वं साहसोपेतता 33, अपरिखे दितत्वम्, अनायाससंभवः३४, अव्युच्छे दित्वं विवक्षिताऽर्थसम्यसिद्धिं यावदनवच्छिन्नवचनप्रमेयतेति 35 / स० 35 सम०। सूत्राऽर्थाद्यतिशयाः - सुत्तत्थे अइसेसा, सामायारीय विजजोगाइ। विजाजोगाइ सुए, विसंति दुविहा अओ होति। इहाऽतिशयास्त्रिविधाः, तद्यथा- सूत्राऽर्थाऽतिशयाः, सामाचार्यतिशयाः, विद्या योगाः। आदिशब्दात् मन्त्राश्चेति त्रयोऽतिशयाः / तत्र विद्या स्त्रीदेवताऽधिष्ठिता पूर्वसेवादिप्रक्रिया