________________ अहिंसा 875 - अभिधानराजेन्द्रः - विभाग अहिंसा किंविधः? इत्याह- अशबलेन मालिन्यमात्ररहितेन, असंक्लिष्टेन विशुद्ध्यमानपरिणामवतो, निव्रणेनाऽक्षतेनाऽखण्डेनेति यावत्। चारित्रेण सामायिकादिना भावना वासना यस्य सोऽशबलाइसंक्लिष्टनिव्रणचारित्रभावनाकः। अथवा- अशबलाऽक्लिष्ट-निव्रणचारित्रभावनया हेतुभूतया अहिंसकोऽवधकः, संयतो मृषावादाद्युपरमाद् मोक्षसाधक इति / प्रश्न०१ संव० द्वार। अभिहणेज्ज वा वत्तेज वा परियावेज वालेसेज वा उद्दवेज वा। ईरियासमिए से णिग्गंथे, णो ईरियाअसमिए त्ति पढमा भावणा॥ इर्रण गमनमीर्या, तस्यां समितो दतावधानः, पुरतो युगमात्र- | भूभागन्यस्तदृष्टिगामीत्यर्थः / न त्वसमितो भवेत् / किमिति ? यतः केवली ब्रूयात् कर्मोपादानमेतद् गमनक्रियायामसमितो हि प्राणिनोऽभिहन्यात् पादेन ताडयेत्, तथा- वर्तयेद् अन्यत्र पातयेत्, तथा परितापयेत्पीडामुत्पादयेत्, अपद्रावयेद्वा जीविताद् व्यपरोपयेदित्यत ईसिमितेन भवितव्यमिति प्रथमा भावना। आचा०२ श्रु० 3 चू० बितिगं च मणेण पावएण पावकं अहम्मिकदारुणं निसंसं वहबंधपरिकिलेसबहुलं जरामरणपरिकिलेससंकिलिटुं न कया विमणेणं पावएणं पावर्ग किंचि विझायव्वं, एवं मणसमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू // 2 // द्वितीयं पुनर्भावनावस्तु मनःसमितिस्तत्र मनसा पापं न ध्यातव्यम्। एतदेवाह-मनसा पापकेन पापकमिति काक्या ध्येयम्। ततश्च पापकेन दुष्टेन सता मनसायत्पापकमशुभं, तत्न कदाचित् मनसा पापकं किञ्चिद् ध्यातव्यमिति वक्ष्यमाण-वाक्येन सम्बन्धः। पुनः किभूतं पापकमित्याहअधर्मिकाणा-मिदमाधार्मिकं, तच तद् दारुणं चेति आधर्मिकदारुणं, नृशंसं शूकावर्जितं, वधेन हननेन, बन्धेन संयमेन, परिक्लेशेन च परितापनेन हिंसागतेन बहुलं प्रचुरं यत्तत्तथा / जरामरणपरिक्लेशैः फलभूतैः। वाचनान्तरे - 'भयमरणपरिक्लेशैः', संक्लिष्टमशुभं यत्तत्तथा।न कदाचित् न कञ्चनाऽपि काले (मणेण पावएणं ति) पापकेनैव मनसा (पावगं ति) प्राणातिपातादिकं पापं किञ्चिदल्पमपि ध्यातव्यमेकाग्रतया चिन्तनीयम्। एवमनेन प्रकारेण मनः समिति-योगेन चित्तसत्प्रवृत्तिलक्षणव्यापारेण भावितो वासितो भवत्यन्त-रात्मा जीवः / किंविधः ? इत्याह- अशबलाऽसंक्लिष्टनिव्रणचारित्रभावनाकः, अशबलाऽसंक्लिष्टनिव्रणचारित्रभावनाया वा अहिंसकः, संयतः, सुसाधुरितिप्राग्वत् / प्रश्न०१ संव० द्वार। अहावरा दोचा भावणा-मणं परिजाणए, से णिग्गंथे / जे य मणे पावए सावजे सकिरिए अण्हयकरे छेयकरे भेयकरे अधिकरणिए पाउसिए परिताविते पाणाइ वाइए भूतोवघातिए तहप्पगारं मणं णोपधारेजा,मणं परिजाणति,से णिग्गंथे। जे य माणे अपावत्ते त्ति दोचा भावणा। द्वितीयभावनायां तु मनसा दुष्प्रणिहितेन नो भाव्यम् / तद् दर्शयति- | यन्मनः पापकं सावधं सक्रिय (अण्हयकर ति) कर्माऽऽश्रवकारि, तथाछेदनभेदनकरम्, अधिकरणकरं, कलहकर, प्रकृष्टदोषं प्रदोषिक। तथाप्राणिनां परितापकारीत्यादि न विधेयमिति। आचा०१ श्रु०३ चू० तइयं च वइए पावए पावगं अहम्मिकदारुणं निसंसं वहबंधपरिकिलेसबहुलं जरामरणपरिकिलेससंकिलिटुं न कयावि वइए पावियाए ओ पावगं किंचि वि भासियव्वं, एवं वइसमितिजोगेण भाविओ भवइ अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसओ संजओ सुसाहू॥३॥ (तइयं च त्ति) तृतीयं पुनर्भावनावस्तु वचनसमितिर्यत्र वाचा पापं न भणितव्यम्। इत्येतदेवाऽऽह-(वइए पावियाए इति) काक्वाध्यातव्यम्। एतद् व्याख्यानं च प्राग्यत्। प्रश्न 1 संव० द्वार। अहावरा तचा भावणा- वई परिजाणति, से णिग्गंथे / जाव वाइपाविया सावज्जा सकिरिया० जाव भूतोवघाइया तहप्पगारं वई णो उच्चारेजावई परिजाणइ, से णिग्गंथे। जाव वई अपाविय त्ति तथा भावणा। अथाऽपरा तृतीया भावना, तत्र निर्ग्रन्थेन साधुना समितेन भवितव्यमिति। आचा०२ श्रु०३ चू० चउत्थं आहारएसणाए सुद्धं उंछं गवेसियव्वं, अण्णाए अकहिए असिढे अदीणे अकलुणे अविसाती अपरितंतजोगी जयणघडणकरणचरित्तविनयगुणजोगसंपउत्ते भिक्खू मिक्खेसणाए जुत्ते समुदाणिऊण मिक्खचरियं उंछं घेत्तूणं आगए गुरुजणस्स पासं गमणागमणातिचारपडिक्कमणपडिकते आलोयणदायणं च दाऊण गुरुजणस्स जहोवएसं निरइयारं अप्पमत्तो पुणरवि अणेसणाए पयत्तो पडिक्कमित्ता पसंतआसीण सुहनिसण्णो मुहुत्तमेत्तं च, झाणसुहजोगनाणसज्झाय गोवियमणे, धम्ममणे अविमणे सुहमणे अविग्गहमणे, समाहियमणे सद्धासंवेगनिञ्जरमणे पवयणवच्छल्लभावियमणे, उढेऊण य पहट्ठो जहराइणियं निमंतइत्ता य साहवे भावओ य विइण्णे य गुरुजणेणं उपविट्ठे संपमजिऊण ससीसं कायं तहा करयलं अमुच्छिए अगिद्धे अगढिए अगरहिए अणज्झोववण्णे अणाइले अलुद्धे अणत्तहिए असुरसुरं अवचवं अणन्भुयमविलंबियम-परिसाडि आलोयणभायणे जयमप्पमत्तेणं ववगयसंजोग-मणिंगालं च विगयधूमं अक्खोवंजणवणाणुलेवणभूयसंजम-जायामायानिमित्तं संजमभारवाहणट्टयाए मुंजेज्जा पाणधारण-ट्ठयाए संजएणं समियं एवमाहारसमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू॥४॥ (चउत्थं ति)चतुर्थभावनावस्तु आहारसमितिरिति / तामेवा- ऽऽह(आहारएसणाए सुद्धं उछ गवेसियव्वं ति) व्यक्तम् / इदमेव भावयितुमाह- अज्ञातः श्रीमत्प्रव्रजितादित्वेन दायकजनाऽनवगतः, अकथितः स्वयमेव यथाऽहं श्रीमत्प्रव्रजितादिरिति,