________________ अहिंसा 873 - अभिवानराजेन्द्रः-विभाग१ अहिंसा शान्तिः द्रोहविरतिः, कीर्तिः, ख्यातिहेतुत्वात् / क्रान्तिः, क्रमनीयताकारणत्वात् / रतिश्च रतिहेतुत्वात् / विरतिश्च निवृत्तिः पापात् / श्रुतं श्रुतज्ञानमङ्गं कारण यस्याः सा श्रुताऽङ्गा। आह च-पढमं नाणं तओ दया, इत्यादि / तृप्तिहेतुत्वात् तृप्तिः / ततः कर्म-धारयः / तथा- दया देहिरक्षा / तथा- विमुच्यते प्राणी सकल-बन्धनेभ्यो यया सा विमुक्तिः / तथा- क्षान्तिः क्रोधनिग्रहः, तज्जन्यत्यादहिंसाऽपि क्षान्तिरुक्ता / सम्यक्त्वं सम्यग्बोधरूप-माराध्यते यया सा सम्यक्त्वाराधना / (महंति त्ति) महती सर्वधर्मानुष्ठानानां बृहती। आह च- एकं चिय एक्कवयं, निद्दिढ़ जिणवरेहिं सव्वेहिं / पाणाइवायविरमणसव्वसत्तस्स रक्खहा।।१।। बोधिः सर्वज्ञ-धर्मप्राप्तिः, अहिंसारूपत्याच, तस्या अहिंसा-बोधिरुता ।अथवाऽहिंसा सानुकम्पा, सा च बोधि-कारणमिति बोधिरेवोच्यते / बोधिकारणत्वं चाऽनुकम्पायाः - अणुकंपा कामनिज्जरबाल-तवे दाणविणयविन्भंगे। संजोग-विप्पओगे, सव्वण्णू सव्व-इड्डिसक्कारे॥१॥ इति वचनादिति। तथा- बुद्धिः, साफल्य-कारणत्वाद् बुद्धिः / यदाहबाहत्तरिकलाकुसला, पंडियपुरिसा अपंडिया चेव / सव्वकलाणं पवरं, जे धम्मकला न जाणंति // 1 // धर्मश्चाऽहिंसैव / धृतिश्चित्तदाय, तत्परिपालनीयत्वादस्या धृतिरेवोच्यते / समृद्धिहेतुत्वेन समृद्धिरेवोच्यते। एवं ऋद्धिवृद्धी / तथा- साद्यपर्यवसितमुक्तिस्थितिहेतुत्वात् स्थितिः। तथा-पुष्टिः, पुण्योपचयकारणत्वात्। आह च-पुष्टिः पुण्योपचयनम् / नन्दयति समृद्धिं नयतीति नन्दा / भन्दते कल्याणीकरोति देहिनामिति भद्रा / विशुद्धिः पापक्षयोपायत्वेन जीवनिर्मलतास्वरूपत्वात्। आह च- शुद्धिः पापक्षयेण जीवनिर्मलता। तथा- केवलज्ञानादि-लब्धिनिमित्तत्वात् लब्धिः / विशिष्टदृष्टिः प्रधानदर्शनमतमित्यर्थः, तदन्यदर्शनस्याऽप्राधान्यात् / आह च- किं तीए पढियाए, पयकोडीए पलालभूयाए। जत्थेत्तियं न नायं, परस्सपीडा न कायव्या // 1 // कल्याणं, कल्याणप्रापकत्वात् / मङ्गलं दुरितोपशान्तिहेतुत्वात् / प्रमोदः, प्रमोदोत्पादकत्वात् / विभूतिः, सर्वविभूतिनिबन्धनत्वात्। रक्षा, जीवरक्षणस्वभावत्वात्। सिद्धावासः, मोक्षावासनिबन्धन-त्वात् / अनाश्रवः, कर्मबन्ध-निरोधोपायत्वात् / केवलिनां स्थानं, केवलिनामहिंसायां व्यवस्थितत्वात् / (सिवसमितिसीलसंजमो ति य ) शिवहेतुत्वेन न शिवसमितिः सम्यक्प्रवृत्तिः, तद्रूपत्वादहिंसा शिवसमितिः / शीलं समाधानं, तद्पत्वाच्छीलम्। संयमो हिंसात उपरमः। इति रूपप्रदर्शने, चः समुच्चये (सीलघरो त्ति) शीलगृहं चारित्र-स्थानम्। संवरश्च प्रतीतः / गुप्तिरशुभानां मनःप्रभृतीनां निरोधः / विशिष्टोऽवसायो निश्चयो व्यवसायः / उच्छ्रयः स्वभावोन्नतत्वम् / यज्ञो भावतो देवपूजा / आयतनं गुणानामाश्रयः / यजनमभयस्य दानं, यतनं वा प्राणिरक्षणं प्रति यत्नः / अप्रमादः प्रमादवर्जनम् / आश्वास आश्वासनं प्राणिनामेव / विश्वासो विश्रम्भः। (अभओ त्ति) अभयं सर्वस्यापीति प्राणिगणस्य। अमाघात अमारिः / चोक्षपवित्रा, एकार्थशब्दद्वयोपादानात् अतिशयपवित्रा / शुचिर्भावशौचरूपा / आह च- सत्यं शौचं तपः शौचं, शौच- / मिन्द्रियनिग्रहः / सर्वभूतदया शौचं, जलशौचं च पञ्चमम् // 1 / / इति।। (पूय त्ति) पवित्रा, पूजा वा भावतो देवताया अर्चनम्। विमलप्रभासा, तन्निबन्धनत्वात् / (निम्मलतर त्ति) निर्मलं जीवं करोति या सा तथा, अतिशयेन वा निर्मला निर्मलतरा / इति नाम्नां समाप्तौ / एवमादीन्येवंप्रकाराणि निजकगुण-निर्मितानि, यथा-ऽर्थानीत्यर्थः / अत एवाऽऽह- पर्यायनामानि तत्तद्धर्माऽऽश्रिताऽभिधानानि भवन्त्यहिंसायाः, भगवत्या इति पूजावचनम्। एसा भगवती अहिंसा, जा सा भीयाणं पिव सरणं, पक्खीणं पिव गयणं, तिसियाणं पिव सलिलं, खुहियाणं पिव असणं, समुहमज्ञ व पोतवहणं, चउप्पयाणंच आसमपयं, दुहट्ठियाणं च ओसहिबलं, अडवीमज्झेच सत्थगमणं, एत्तो विसिकृतरिका अहिंसा जा सा पुढवीजल-अगणि-मारुय-वणप्फती-बीजहरिय-जलचर-थलचर-खहचर-तस-थावर-सव्वभूयखेमकरी। एषासाभगवत्यहिंसा,या सा भीतानामिव शरणमित्यत्रा-ऽऽश्वासिका, देहिनामितिगम्यम्। (पक्खीणं पिव गयणं त्ति) पक्षिणामिव गगनं, हिता, देहिनामिति गम्यम् / एवमन्यान्यपि षट् पदानि व्याख्येयानि / किं भूतादीनां शरणादिसमैव सा ? नेत्याह- (एतो त्ति) एतेभ्योऽनन्तरोदितेभ्यः शरणादिभ्यो विशिष्टतरिका प्रधानतरिका अहिंसा, हिततयेति गम्यते / शरणादितो हित-मनैकान्तिकमनात्यन्तिकं भवति / अहिंसातस्तु तद्वीपरीतं मोक्षा-ऽवाप्तिरिति / तथा- 'या सा' इत्यादि याऽसौ, पृथिव्यादीनि च पञ्च प्रतीतानि, बीजहरितानि च वनस्पतिविशेषा आहारार्थत्वेन प्रधानतया शेषवनस्पतिभेदेनोक्ताः, जलचरादीनि च प्रतीतानि, बसस्थावराणि सर्वभूतानि, तेषां क्षेमकरी या सा तथा, एषा एषैव, भगवती अहिंसा, नाऽन्या / यथा लौकिकैः कल्पिता- कुलानि तारयेत् सप्त, यत्र गौर्वितृषी भवेत्।सर्वथा सर्वयत्नेन, भूमिष्ठमुदकं कुरु // 1 // इह गोविषये या दया, सा किल तन्मतेनाऽहिंसाऽस्यां च पृथिव्युदकपूतरकादीनां हिंसाऽस्तीत्येवंरूपा न सम्यगहिंसेति। (4) अथ यैरियमुपलब्धा सेविताच, तानाहएसा भगवती अहिंसा जा सा अपरिमियनाणदसणधरेहिं सीलगुणविणयतवसंजमनायकेहिं तित्थकरेहिं सव्वजगवच्छले हिं तिलोगमहितेहिं जिणचंदेहिं सुख दिट्ठा ओहिनाणेहिं विण्णाया उजुमतीहिं वि दिट्ठा विपुलमतीहिं विदिता पुथ्वधरेहि अघिया विउव्वीहिं पत्तिण्णा आभिणिबोहियनाणीहिं सुयनाणीहिं मणपज्जवणाणीहिं केवलणाणीहिं, आमोसहिपत्तेहिं, खेलोसहिपत्तेहिं जल्लो-सहिपत्तेहिं विप्पोसहिपत्तेहिं सव्वो-सहिपत्तेहिं, बीजबुद्धीएहिं कोहबुद्धीहि पयाणुसारीहिं संभिण्णसोतेहिं सुयधरेहिं, मणबलएहिं वयबलएहिं कायबलएहिं, नाणबलएहिं दंसणबलएहिं चरित्तबलएहिं, खीरासवेहिं महुआसवेहिं सप्पियासवेहिं अखीणमहा-णसिएहिं, चारणेहिं विजाहरेहि, चउत्थभत्तिएहिं छट्ठभत्तिएहिं अट्ठमभत्तिएहिं दसमभत्तिएहिं एवं दुवाल सचउदससोलसअद्धमासमासदोमास-तिमासचउमासपंचमा