________________ अहालंद ८७०-अभिषानराजेन्द्रः-विभाग 1 अहालहुस्सय चूर्णिकृत्- "सवियारो ति विस्तृतः, ततस्तस्मिन् ग्रामे षट् वीथीः परिकल्प्य यथालन्दिका एकैकस्यां वीथ्यां पञ्च पञ्च दिवसान भिक्षामटन्ति, तस्यामेव च वीथ्यां वसतिमपि गृह्णन्ति / एवं प्रतिवीथ्यां 'पणगेणं' रात्रिंदिवपञ्चकेन मासो विभज्यमानः सन् षड्भिरहोरात्रपञ्चकैर्निष्ठितः सम्पूर्णो भवति / अथ नाऽस्ति विस्तीर्णो ग्रामस्ततो। (हवंतऽहालंदियाण छग्गामा इति) मूलक्षेत्रपार्श्वतो ये लघुतरा षट् ग्रामा भवन्ति, तेषु प्रत्येकं पञ्च पञ्च दिवसान् पर्यटतां यथालन्दिकानां तथैव षभिरहोरात्र-पञ्चकर्मासः परिपूर्णो भवतीति। बृ०१ उ०। अहालहुस्सय-न०(यथालघुस्वक) यथेति यथोचितानि लघु-स्वकानि अमहास्वरूपाणि, महतां हि तेषां नेतुं गोपयितुं वा शक्यत्वादिति यथालघुस्वकानि / अथवा लघूनि महान्ति वरिष्ठानीति च वृद्धाः / अमहास्वरूपेषु, भ०। देवाणं अहालहु- सगाई रयणाई हता! अत्थि। भ०३श०२ उ०। अनेकान्तलघुके वीणाग्रहणग्राह्ये, व्य०७ उ०। स्तोके, व्य स च श्रुतभक्तिहेतोराचार्याणां कृति-कर्म वन्दनकं दत्त्वा चोलपट्टकद्वितीय औपग्रहिक्यां निषद्याया- मुपविष्टश्चाऽर्थ शृणोति। अथ 'दोन्नि विदाउंगमणं" इत्येव दर्शयन्नाहअत्थं दो च अदाउं, वचइ वायावए व अनेणं / एवं ता उउबद्धे वासासु य काउमुवओगं / यद्याचार्यो द्वे अपिपौरुष्यौ दत्त्वा गन्तुं न शक्नोति, ततोऽर्थ- मदत्त्वा, तथाऽप्यशक्तो द्वावपि सूत्राऽर्थावदत्त्वा व्रजति, अन्येन वा शिष्येण स्वशिष्यान् वाचयति, वाचनां दापयति / अथाऽऽचार्यस्तत्र गन्तुमशक्तस्ततो यथालन्दिकः सूरिसमीपमायाति, एवं तावत् ऋतुबद्धे द्रष्टव्यम्। वर्षासुचशब्दः पुनरर्थे / वर्षासु पुनरयं विशेषः- उपयोगं कृत्वा किं वर्ष पतिष्यति ? नवेति विमृश्य यदि जानातिपतिष्यति, ततो न आचार्याणां समीपमायाति। अथ गुरवस्तत्र गताः कथं समुद्दिशन्तीत्याहसंघाडो मग्गेणं, भत्तं पाणं च नेइ उगुरूणं / अचुण्डं थेरा वा, तो अंतरपल्लिए एइ॥ गुरूणां यथालन्दिकसमीपमुपगतानां योग्यं भक्तं पानं च गृहीत्वा संघाटको मार्गेण पृष्ठतो गत्वा गत्वा तत्र नयति ! अथ यावता कालेन यथालन्दिकानामुपाश्रयं गुरुवो व्रजन्ति, तावता अत्युष्णमता वा तपश्चरन्ति, स्थविरा वा वार्द्धिकवयः प्राप्तास्ते आचार्यास्ततोऽन्तरपल्लिकायामेको यथालन्दिको धारणासंपन्नः समायाति, तत्र गुरवोऽपिगत्वा तस्यवाचनांदत्वा संघाटकेनाऽऽनीतं भक्तपानं समुद्दिश्य संध्यासमये मूलक्षेत्रमायान्ति। अथाऽन्तरपल्लिमपि गन्तुमसमर्था गुरवः, ततः किमित्याहअंतरपडिवसमे वा, बिइयंतर बाहि वसमगामस्स। अन्नाए वसहीए, अपरीभोगम्मि वाएइ / / अन्तरपल्लिकाप्रतिवृषभग्रामयोरन्तराले गत्वा यथालन्दिकं वाचयति, तत्र गन्तुमशक्तो प्रतिवृषभग्रामे, अथ तत्रापि गन्तुं न शक्नोति, ततो(बिइयंतरं ति) द्वितीयं प्रतिवृषभमूलक्षेत्रयोरपा-ऽन्तराललक्षणं यदन्तरं, तत्र मत्वा वाचनां प्रयच्छति, तत्राऽपि गमनाऽशक्तौ वृषभग्रामस्य मूलक्षेत्रस्य बहिर्विजने प्रदेशे गत्वा वाचयति, यदि तत्रापि गन्तुं न प्रभविष्णुः, ततो मूलक्षेत्र एवाऽन्यस्यां वसतो, तत्राऽपि गन्तुमशक्ती तस्यामेव मूलवसतौ अपरिभोग्ये अवकाशे वाचयति तत्र चेयं सामाचारीतस्स जई किइकम्म, करिति सो पुण न तेसि पकरेइ / जा पढइ ताव गुरुणो, करेइ न करेइ उ परेणं / / तस्य यथालन्दिकस्ययतयो गच्छवासिनः साधवः कृतिकर्म कुर्वन्ति, स पुनर्यथालन्दिकस्तेषां गच्छवासिनां कृतिकर्मन करोति यावच्च पठति। अर्थशेषमधीते / गुरोरपि तावदेव करोति, परतस्तु न करोति, तथाकल्पत्वात्। अमीषामेव मासकल्पविधिमाहएक्को मासवियारो, हवंतहालंदियाण छग्गामा। मासो विभज्जमाणो, पणगेण उ निहिओ होई॥ यदि मूलक्षेत्रस्य बहिरेको ग्रामः सविचारः सविस्तरो वर्तते, आह च | यथालधुस्वकादिव्यवहारप्ररूपणामाहगुरुओ गुरुस्सतरगो, अहागुरुस्सो य होइ ववहारो। लहुसो लहुस्सतरगो, अहालहुस्सो य होइ ववहारो॥ एएसिं पच्छित्तं, वुच्छामि अहाणुपुव्वीए। व्यवहारस्त्रिविधः / तद्यथा- गुरुको गुरुस्वतरको यथागुरु- स्वकश्च / तत्र यो गुरुकः, स त्रिविधः / तद्यथा- लघुशो लघु-स्वतरको यथालधुस्वकश्च / एतेषां व्यवहाराणां, यथानुपूर्व्या यथोक्तपरिपाट्या, प्रायश्चित्तं वक्ष्यामि / किमुक्तं भवति ?एतेषु व्यवहारेषु समुपस्थितेषु यथापरिपाट्या प्रायश्चित्तपरिमाणं अभिधास्ये / यथाप्रतिज्ञातमेव करोति - गुरुगो य होइ मासो, गुरुगतरागो चउम्मासो। अहगुरुओ छम्मासो, गुरुगयपक्खम्मि पडिवत्ती॥ गुरुको नाम व्यवहारो मासो मासपरिमाणः, गुरुके व्यवहारे समापतिते मास एकः प्रायश्चित्तं दातव्य इति भावः / एवं गुरुतरको भवति चतुर्मासपरिमाणः / यथागुरुकः षण्मासः, षण्मासपरिमाणः / एषा गुरुकपक्षे गुरुकव्यवहारे त्रिविधे यथाक्रमं प्रायश्चित्तप्रतिपत्तिः / सम्प्रति लघुस्वकव्यवहारविषयं प्रायश्चित्तप्रमाणमाह तीसाय पण्णवीसा, पन्नरसे पण्णवीसा य। दस पंच य दिवसाई,लहुसगपक्खम्मि पडिवत्ती।। लघुको व्यवहारस्त्रिंशत्, त्रिंशदिवसपरिमाणः / एवं लघुतरकः पञ्चविंशतिदिनमानः / एषा लघुकव्यवहारे त्रिविधे यथाक्रमं प्रायश्चितप्रतिपत्तिः / यथालघुको व्यवहारः पञ्चदशपञ्च-विंशतिदिवसप्रायश्चित्तपरिमाणः / एवं लघुस्वतरको दशदिवसमानः। यथालघुस्वकः पञ्च दिवसानि पञ्चदिवसप्रायश्चित्तानि परिमाणः / एषा लघुस्वकव्यवहारपक्षे प्रायश्चित्तपरिमाणप्रतिपत्तिः / व्य० 2 उ०) सम्प्रति भाष्यकृत् यथालघुस्वकग्रहणं, तृतीयसूत्रगतमन्यतरग्रहणं च व्या-ख्यानयतिदुविहो य अहालहुसे, जहण्णओ मज्झिमो य उवहीओ। अन्नयरग्गहणेण उ,घेप्पइ तिविहो उ उवहीओ / / यथालघुस्वके उपधिर्द्विविधो भवति - जघन्यो मध्यमश्व /