________________ असज्झाइय 831 - अभियानराजेन्द्रः - भाग 1 असझाइय भवति यदीदं छड्यते / एवमभ्यर्थितो यदि शय्यातरादिर्विगिञ्चयेत् परिष्ठापयेत्, ततः शुद्धं भवतीति स्वाध्यायः कार्यः। अथ चशय्यातरादिर्न कोऽपि परिष्ठापयितुमिच्छति, तदा तस्मिन्ननाथे मृतके अविविक्ते, अपरिष्ठापिते अन्यां वसतिं मार्गयन्ति। अण्णवसहीए असती, ताहे रत्ति वसभा विवेचंति। विक्किने व समंता, जं दिट्ठ अराढए सुद्धा॥ अन्यस्या वसतेरभावो यदि, ततो रात्रौ सागरिकासंलोके वृषभास्तदनाथमृतकं विविचन्ति, अन्यत्र प्रक्षिपन्ति। अथ तत्कलेवरंच शृगालादिभिः समन्ततो विकीर्णं , ततो विकीर्णे तस्मिन्समन्ततो निभालयन्ति, तत्र यद् दृष्ट तत्सर्वमपि विविचन्ति। इतरस्मिस्तु प्रयत्ने कृतेऽप्यदृष्ट 'अराठा' इति कृत्वा शुद्धाः स्वाध्यायं कुर्वन्तोऽपि न प्रायश्चित्तभागिन इति भावः / गतं व्युद्ग्रहजम्। इदानीं शारीरिकमाहसारीरं पिय दुविहं, माणुसतेरिच्छियं समासेण। तेरिच्छं तत्थ तिहा, जलथलखहजं पुणो चउहा॥ शरीरे भवं शारीरं, तदपि समासेन संक्षेपतो द्विविधं द्विप्रकारम्। तद्यथामानुषं तैरश्चं च / तत्र तैरश्चं त्रिधा-जलजं जलमत्स्या -दितिर्यग्भवम्, एवं गवादीनां स्थलजं, खजं मयूरादीनाम् पुनरेकैकं चतुर्कीचतुःप्रकाराः। तानेव प्रकारानाहचम्म रुहिरं च मंसं, अटिं पिय होइ चउविगप्पं तु। अहवा दव्वाईयं, चउव्विहं होइ नायव्वं / चर्म शोणितं रुधिरं, मांसमस्थि इत्येतानि प्रतीतानि / एवमेकैकं जलजादि चतुर्विकल्पं भवति / अथवा- जलजादिकं प्रत्येक चर्मादिभेदतश्चतुर्विकल्पं सत्पुनद्रव्यादिकं द्रव्यादिभेदतश्चतुर्विधं भवति ज्ञातव्यम्। तानेव प्रत्येकं द्रव्यादीन् चतुरो भेदानाहपंचिंदियाण दव्वे, खित्ते सठिहत्थ पोग्गलाकिण्णे। तिकुरत्थंतरिए वा, नगरे बाहिं तु गामस्स॥ द्रव्ये-द्रव्यतः पञ्चेन्द्रियाणां जलजादीनां चतुष्टयमस्वाध्यायिकं, न | विकलेन्द्रियाणाम्। क्षेत्रे-क्षेत्रतःषष्टिहस्ताभ्यन्तरे परिहरणीयं, न परतः। अथ तत्स्थानं तैरश्चन पौद्गलेन मांसेन समन्ततः काककुर्कुराऽऽदिभिर्व्याक्षिप्तेनाऽऽकीर्ण व्याप्तं, तदा यदि संग्रामस्तर्हि तस्मिन् तिसृभिः कुरथ्याभिरन्तरिते विकीर्णे पुद्गले स्वाध्यायः क्रियते / अथवा-नगरे, तदा तत्रयस्यां राजा सबलवाहनो गच्छति, देवयानं, रथोवा, विविधानि वा संवाहनानि गच्छन्ति, तया महत्याऽप्येकया रथ्यया अन्तरिते स्वाध्यायः कार्यः। अथ सग्रामः समस्तोऽपि विकीर्णन पौद्गलेनाकीर्णो विद्यते, न तिसृभिः कुरथ्याभिरन्तरितं तत्पौद्गलमवाप्यते,तदाग्रामस्य बहिः स्वाध्यायो विधेयः / गता क्षेत्रतो मार्गणा। __ संप्रति कालतो भावतश्च तामाहकाले तिपोरिसि अट्ठ व, भावे सुत्तं तु नंदिमादीयं। बहिधोयरद्धपक्के, बूढे वा होति सुद्धं तु॥ तत एकैकं जलजादि गतं चर्मादि कालतस्तिस्रः पौरुषीर्हन्ति। (अट्ठ वेति) यत्र महाकायपञ्चेन्द्रियस्य मूषिकादेराहननं तत्राष्टौ पौरुषीर्यावत्स्वाध्यायविधातः / गता कालतोऽपि मार्गणा / भावत आह-भावतो नन्द्यादिकं सूत्रंन पठति(बहिधोएत्यादि) यदि षष्टिहस्तेभ्यः परतो बहिः प्रक्षाल्य मांसमानीतं, यदि वा राद्धा स्थाली पाकेन, तदा तस्मिन् बहिौते बही राद्धे बहिः पक्वे वा तत्रानीते शुद्धम्, अस्वाध्यायिकं न भवतीति भावः / अथवा यत्र षष्टिहस्ताभ्यन्तरे पतितमस्वाध्यायिक रुधिरं, तेनावकाशेन पानीयप्रवाह आगतः, तेन व्यूढं, तदा पौरुषीत्रयमध्येऽपिशुद्ध-मस्वाध्यायिकमिति स्वाध्यायः कार्यः। अंतो पुण सट्ठीणं, धोयम्मी अवयवा तहिं होति। तो तिण्णि पोरिसीओ, परिहरियव्वा तहिं हुंति॥ यदि पुनः षष्टिहस्तानामभ्यन्तरे मांसं प्रक्षालयति, तदा तस्मिन् धौते यतस्तत्र नियमादवयवाः पतिता भवन्ति, ततस्तिस्रः पौरुष्यः स्वाध्यायमधिकृत्य तत्र परिहर्तव्या भवन्ति। 'अट्ठवा' इति यदुक्तं तदिदानीं भावयतिमहकाये ऽहोरत्तं, मंजारादीण मूसगादिहते। अविभिण्णे गिण्णे वा, पठंति एगे जइ पलाति॥ महाकाये मूषिकादौ मार्जारादिना हते मारिते अहोरात्रमष्टौ पौरुषीर्यावदस्वाध्यायः / अत्रैव मतान्तरमाह-(अविभिन्ने इत्यादि) एके प्राहुः- यदि मार्जारादिना मूषिकादिरविभिन्न एव सन्मारितो मारयित्वा च गृहीत्वा, अथवा गिलित्वा ततःस्थानात्पलायते, तदा पठन्ति साधवः सूत्रं, न कश्चिद्घोषः / अन्ये नेच्छन्ति- यतः कस्तं जानाति अविभिन्नो भिन्नो वा मारित इति। अपरेएवमाहुः- यत्र मार्जारादिः स्वयं मृतोऽन्येन वा केनाप्यविभिन्न एव सन् मारितस्तत्र यावत्कलेवरं न भिद्यते तावन्नाऽस्वा-ध्यायिकम्, विभिन्ने अस्वाध्यायिकमिति / तदेतदसमीचीनम्। यतश्च कर्मादि-भेदतश्चतुर्विधमस्वाध्यायिकं, तस्मादविभिन्नोऽ-- प्यस्वाध्यायिकम्, तस्मादविभिन्नेऽप्यस्वाध्याय एव। अंतो बहिं च मिन्ने, अंमयबिंदूतहा वियाताए। रायपहवूढसुद्धे, परवयणे साणमादीणि॥ अन्तरुपाश्रयमध्ये, यदि वोपाश्रयाद् बहिः षष्टिहस्ताभ्यन्तरे अण्डके पतिते यदि तदण्डकमभिन्नमद्याप्यस्ति, तदा तस्मिन्नुज्झिते स्वाध्यायः कल्पते / अथवा- पतितं सत् तदण्डकं भिन्नं, तस्य वाऽण्डकस्य कललबिन्दुभूमौ पतितः, तदा भिन्ने अण्डके, बिन्दौ च भूमौ पतिते न कल्पते स्वाध्यायः। अथ कललं पतितं सदण्डकं भिन्नं कललबिन्दु तत्र लग्नः, तदा तस्मिन् षष्टिहस्तेभ्यः परतो बहिर्नीत्वा धौते कल्पते। तथा-विजातायां प्रसूतायां तैरश्चामस्वाध्यायः पौरुषीत्रितयं यावत् / तथा- ये राजपथे अस्वाध्यायिकबिन्दवो गलितास्ते न गण्यन्ते / तथाऽन्यत्र प्रतिपतितएवास्वाध्यायिकम्, ततोवर्षोदकप्रवाहेण तस्मिन् व्यूढे कल्पते / अत्र श्वादिकमाश्रित्य परस्य वचनं, तदने भावयिष्यते। इति गाथासंक्षेपार्थः। साम्प्रतमेनामेव विवरीषुरिदमाहअंडयमुज्झियकप्पे, न य भूमि खणंति इहरहा तिण्णि / असज्झाइयपरिमाणं, मच्छियपाया जहिं खुप्पे।। यद्यण्डकमभिन्नमेव पतितं, तदा तस्मिन्नुज्झिते स्वाध्यायः कल्पते, अथ भिन्नं तदा न कल्पते / न च भूमि खनन्ति, इतरथा