________________ असज्झाइय ८३०-अभिवानराजेन्द्रः - भाग 1 असज्झाइय इति।तथा-निर्धातगुज्जितयोः प्रत्येकम्,यस्यां वेलायां निर्घातो गुञ्जितं वाऽधिकृते दिने भवेत्, द्वितीयेऽपि दिने यावत्सैव वेला प्राप्ता भवति, तावदस्वाध्याय एव / तयोरप्यस्वाध्यायस्याहोरात्र-प्रमाणत्वात्। उक्तं च-निर्घातो गुञ्जितं च लोकप्रतीतौ, "एए अहोरतं उवहणंति त्ति"। तथाचउसंझासुन कीरइ, पाडिवएसुं तहेव चउसुं पि। जो जत्थ पूजती तं, सव्वेहि सुगिम्हतो नियमा।। चतस्रः सन्ध्याः , तिस्रो रात्रौ / तद्यथाप्रस्थिते सूर्ये, अर्धरात्रे, प्रभाते च, चतुर्थी दिवसस्य मध्यभागे। एतासुचतसृष्वपि स्वाध्यायो न क्रियते / शेषक्रियाणां तु प्रतिलेखनाऽऽदीनां न प्रतिषेधः / स्वाध्यायकरणे चाज्ञाभङ्गादयो दोषाः। तथा- चतस्रः प्रतिपदः। तद्यथाआषाढपौर्णमासीप्रतिपत्, अश्वयुक्पौर्णमासी प्रतिपत्, कार्तिकपौर्णमासीप्रतिपत्, सुग्रीष्मप्रतिपत्, चैत्रमासपौर्णमासी-प्रतिपदित्यर्थः / एतास्वपि चतसृष्वपि प्रतिपत्सु तथैव स्वाध्याय एव न क्रियते, न शेषक्रियाणां प्रतिषेधः / इह प्रतिपद्ग्रहणेन प्रतिपत्पर्यन्ताश्चत्वारो महाः सूचिता इति, एषां चतुर्णा महानांमध्ये यो महोयस्मिन् देशेयतो दिवसादारभ्य यावन्तं कालं पूर्यते तस्मिन् देशे ततो दिवसादारभ्य तावन्तं कालं स्वाध्यायं न कुर्वन्ति। यत्पुनः सर्वेषांपर्यन्तः "सव्वेसिंजाव पाडिवतो" इति वचनात् सुग्रीष्मकश्चैत्रमासभावी पुनर्महामहः सर्वेषु देशेषु शुक्लपक्षप्रतिपद आरभ्य चैत्रपूर्णमासीप्रतिपत्पर्यन्तो नियमात् प्रसिद्धः, ततो यद्यध्वानं प्रतिपन्नस्तथापि चैत्रमासस्य शुक्लपक्षप्रतिपद आरभ्य सर्व पक्षं पौर्णमासी प्रतिपत्पर्यन्तं यावदवश्यमनागाढो योगो निक्षिप्यते, शेषेषु आगाढादिकेषु योगो न निक्षिप्यते, केवलं स्वाध्यायं न कुर्वन्ति / गतं सदेवमस्वा-ध्यायिकम्। व्य०७उ०। ग०| "णो कप्पइ णिग्गंथाण वा णिगंथीण वाचउहि महापाडिवएहिं सज्झायं करेत्तए / तं जहा-आसाढपाडिवए, इंदपाडिवए, कत्तिअपाडिवए, सुगिम्हपाडिवए। णो कप्पइ णिग्गंथाण वा णिग्गंथीण वा चउहि संझाहिं सज्झायं करेत्तए। तं जहा-पढमाए पच्छिमाए मज्झण्हे अद्धरत्ते। कप्पइ णिगंथाण वा णिम्गंथीण वा चउक्कालं सज्झायं करेत्तए। पुव्वण्हे अवरण्हे पओसे पचूसे।" स्था०४ठा०२उ०। इदानी व्युद्ग्रहजमाहदुग्गह दंडियमादी, संखोभे दंडिएय कालगते। . अणरायए य सभए, जच्चिरमनिदोच्चऽहोरत्तं / / व्युद्ग्रहे परस्परविग्रहे दण्डिकादीनाम्, आदिशब्दात्सेना-पत्यादीनां च परस्परं विग्रहे अस्वाध्यायः / इयमत्र भावना-द्वौ दण्डिको सस्कन्धावारौ परस्परं संग्रामं कर्तुकामौ यावन्नोप शाम्यतस्तावत्स्वाध्यायः कर्तुंन कल्पते। किं कारणमिति चेत् ? उच्यते-तत्र वाणमन्तराः कौतुकेन स्वस्वपक्षण समागच्छन्ति, ते छलयेयुः, भूयसां च लोकानामप्रीतिः- वयमेवं भीता वर्तामहे, कामप्यापदं प्राप्स्यामः, एते च श्रमणका निर्दुःखं पठन्ति। अत्राऽऽदिशब्दव्याख्यानार्थमिमां गाथामाहसेणाहिवभोइयमह-यरपुंसित्थीण मल्लजुद्धे वा। लोट्ठादिमंडणे वा, गुज्झगउड्डाह अचियत्तं / / द्वयोः सेनाधिपत्योदयो; तथाविधप्रसिद्धिपात्रयोः, तयोः परस्परं ध्युद्ग्रहे वर्तमाने, अथवा मल्लयुद्धे, तथा- द्वयोः ग्रामयोः परस्पर सकलुषभावे बहवस्तरुणाः परस्परं लोष्टयुध्यन्तः, ततो यष्टिभिर्वा लोष्टादिभिर्वा परस्परं भण्डने कलहे यावन्नोपशमो भवति सेनाधिपादिव्युद्ग्रहस्य तावदस्वाध्यायः।अत्र कारणमाह- (गुज्झगउड्डाह अचियत्तं) गुह्यकाः कौतुकेन प्रेक्षमाणाश्छलयेयुः, तथा बहुजनो 'निर्दुःखा एते इति मन्यमानोऽप्रीत्योड्डाहं कुर्यात्- 'लोकोपचारबाह्या एते' इति / तथादण्डिके कालगते (अण्णराए ति) यावदन्यो राजा नाभिषिक्तो भवति तावत्प्रजानां महान् संक्षोभो भवति, तस्मिन्संक्षोभे सति स्वाध्यायो न कल्पते। किमुक्तं भवति? यावत्संक्षोभस्तावदस्वाध्यायः। अत्रापि पूर्वोक्ता दोषाः / सभयं म्लेच्छादिभयाकुलं, तस्मिन्नपि स्वाध्यायो न कर्तव्यः / एतेषु व्युद्ग्रहादिष्वस्वाध्यायविधिमाह- (जचिरमनिदोचहोरत्तं) व्युद्ग्रहादिषु यचिरं यावन्तं कालम्, (अनिदोघं ति) अनिर्भयमस्वस्थमित्यर्थः / तावन्तं कालमस्वाध्यायः / स्वस्थभवनानन्तरमप्येकमहोरात्रं परिहृत्य स्वाध्यायः कर्तव्यः। उक्तंच"निघोसीभूते वि अ- होरत्तमो परिहरित्ता उ। सज्झाओ कीरइ इह, संखोभे दंडिए य कालगए" || अनेनैतदपि सूचितमस्ति ततस्तदभिधित्सुः "संखोभे दंडिए'' इत्येतदपि व्याख्यानयतिदंडिए कालगयम्मी, जा संखोभो न कीरते ताव। तदिवस भोइमहतर-वाडगपतिसेज्जयरमादी॥ दण्डके कालगते सति यावत्संक्षोभस्तावत्स्वाध्यायो न क्रियते, अन्यस्मिस्तु सुराज्ञि स्थापितेऽहोरात्रातिक्रमेण क्रियते, स्वास्थ्यभवनात् / तथा- भोजिके ग्रामस्वामिनि, महत्तरिके ग्रामप्रधाने, वाटकपतौ वसत्यनुरतेवाटकैकस्वामिनि, तथा- शय्यातरे, आदिशब्दादन्यस्मिन्वा शय्यातरसंबन्धिनि मानुषे कालगते, तदिवसमस्वाध्यायः, एकमहोरात्रं यावत्स्वाध्यायपरिहार इत्यर्थः। तथापगए बहुपक्खिए वा, सत्तघरंतर मते च तदिवसं। निहुक्ख त्तिय गरिहं, न पढंति सणीयगं वा वि / / अन्योऽपि यो नाम ग्रामे प्रकृतोऽधिकृतो महामनुष्यः, तस्मिन्, यदि वा-बहुपाक्षिके बहुस्वजने कालगते, अन्यस्मिन्वा प्राकृते स्ववसत्यपेक्षया सप्तगृहाभ्यन्तरे कालगते तदिवसमेकम-होरात्रमस्वाध्यायः। किं कारणमत आह-'निर्दुःखा अमी' इत्यप्रीत्या गर्हणसंभवात, ततो न पठन्ति / अथवा-तथा पठन्ति यथा न कोऽपि शृणोतीति / महिलारुदितशब्दोऽपि यावत् श्रूयते तावन्न पठन्ति। हत्थसमयणाहम्मी, जह सारियमादितो विगिंचिज्जा। तो सुद्धं अविवित्ते, अन्नं वसहिं विमग्गंति / / कोऽप्यनाथो हस्तशताभ्यन्तरे मृतः, तस्मिन्ननाथे हस्तशताभ्यन्तरे कालगते स्वाध्यायो न क्रियते। तत्रेत्थं यतना- शय्यातरस्य वा, तथाविधस्य श्रावकस्य वा भद्रकस्य वार्ता कथ्यते- यथा स्वाध्यायान्तरायमस्माकमनाथमृतकेन कृतमस्ति, ततः सुन्दरं