________________
केशवकृतः कल्पद्रुकोशः स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् । अवरोधोऽपि शुद्धान्त ना स्थानं च भद्रकम् ॥६७॥ जिनस्थाने चैत्यमस्त्री विहारोऽसावपाश्रयः । मत्तालम्बश्चपग्रीवो न स्त्रियां मत्तवारणम् ॥६॥ समुद्रपर्यायगृहं जलयन्त्रनिकेतनम् । शिवस्य वृषमण्डप्यां बुधैर्गोपुटिकं स्मृतम् ॥६६॥ स्थूणास्तम्भः पुमान्नासादारु द्वारोपरि स्थितम् । क्षौमं वा पुंसि चाट्टालो गृहस्योपरिभूमिकम् ॥७॥ यद्वेश्माथावग्रहणी देहल्युम्बर इत्यपि । उदुम्बरश्चाथ शिली शिला चापि शिलिः पुनः ॥७१॥ अधस्तादारुणि शिला सैव स्याद्वारपिण्डिका । प्रच्छन्नमन्तारं स्यात्पक्षद्वारं तु पक्षकः ॥७२॥ वलीकमस्त्रियां क्लीबे नीव्र नीधं च नीद्रकम । पट लान्तेथ तत्प्रान्त इन्द्रकोश स्तमङ्गकः ॥७३॥ पुंसिच्छदिः स्त्री पटलं त्रिषु स्याद्वलभी स्त्रियाम् । गोपानसी स्यादाधार च्छादने वक्रदारुणि ॥७॥ प्रासादमण्डपे चूडा दन्तास्ते नागदन्तकाः। मत्तवारणमिच्छन्ति प्रग्रीवं पुनपुंसकम् ॥७॥
मन्द २ निद्रं नीनं च नीध्रकम् ३ स्तु मन्ध्यक:B ४ : काल