________________
केशवकृतः कल्पद्रुकोशः पुरसद्माङ्गयोः शीर्षछत्रयोः पुंडरीकके । मधुद्रवे ध्रुवं शश्वत्तर्कयोः खपुरं 'घटे ॥७८॥ अपूर्वदेवकार्यादौ युगं दृष्टं तथा कटु । असेदवृद्धः स्थले धन्वारिष्टमद्रुमपक्षिणाः ॥७॥ धर्म दानादिके तुल्यभागेद्धं ब्राह्मणं श्रुतौ । न्याय्ये सारंपद्ममिभबिन्दौ काम मनुमतौ ॥८॥ खलं भुवि तथा लक्ष वेध्येऽहः सुदिनैकतः । भूमौ संख्यात एकार्थे पथः संख्याव्ययोत्तरः ॥८१॥ द्वन्द्वकत्वाव्ययीभावी क्रियाव्ययविशेषणे। कृत्याः क्तान्ताः खलनिजभावनात्वदिः समूहजः॥८२॥ गायत्र्याधरारस्वार्थे व्यक्तमथानञ् कर्मधारयः । तत्पुरुषो बहूनां चेच्छाया शाला विना सभा ॥८३॥ राज वर्जितराजार्थराक्षसादेः परापि च । १°श्रादा उपक्रमो यज्ञे कन्थोशीनरनामनि ॥४॥ सेनाशाला सुराछायानिशंचोर्णा शशात्परा । "भाभूणो गृहतः स्थूणा संख्याऽदन्ता शतादिका ॥८५॥ शालूकपुष्प कानूकमौक्तिकानां त्रिकस्य च । छात्राकशल्कचिबुककुतुकानां ततोऽपि च ॥८६॥
१ वटेKC २ अप्पCK ३ असेद्वन्द्वंB ४ मनेार्मतौB ५ एकार्थB ६ तरम् B ७ कृत्यक्तानां खलूनिङ भावात्मादिसमूहजःB ८ तत्पुरुषेB६ वर्जितंCK १० श्रादावुपB ११ भारणोB १२ कारूकCK १३ वाCK