________________
४२२ केशवकृतः कल्पद्रुकोशः सुकुमारं कण्ठभवं त्रिस्थानोत्थमलंकृतम् । समवर्णलयस्थानं सममित्यभिधीयते ॥४४॥ सुरक्तं वल्लकीवंशकण्ठध्वन्यं सुतालुकम् । नीचोच्चस्थानमध्यादौ शुक्लले श्लक्ष्णमुच्यते ॥४५॥ उच्चैरुच्चारणादुक्तं विक्रुष्टं भरतादिभिः । मधुरं धुर्यलावण्यपूर्ण जनमनोहरम् ॥४६॥ दुष्टं लोकेन शास्त्रेण श्रुतिकालविरोधि च । पुनरुक्तं कलाबाह्य गतक्रममपार्थकम् ॥४७॥ ग्रामसंदिग्धमित्येवं दशधा गीतदुष्टता । नर्तनं नटनं नाट्य नृत्यं नृत्तं च ताण्डवम् ॥४८॥ पुंसि क्लीबे पुंसि नाटो लासो लास्यं नपुंसकम् । अथ हल्लीसकं स्त्रीणां यत्तमण्डलनर्त्तनम् ॥४६॥ पानगोष्ठ्यामुच्चतालं रणे वीरजयन्तिका । स्थाने नाट्यस्य रङ्गः स्यात्पूर्वरङ्ग उपक्रमः ॥५०॥ पुंसि प्राङ्नाट्यकं क्लीबे क्रियासूचकमस्त्रियाम् । अङ्गहारोङ्गहारिश्च व्यञ्जकाभिनयौ समौ ॥५१॥ स चतुर्विध आहार्यो रचितो भूषणादिभिः । वचसाङ्गन सत्त्वेन वाचिकाङ्गिकसात्त्विकाः ॥५२॥