________________
२६६ केशवकृतः कल्पद्रुकोशः मदोद्रेकः केशमुष्टिः काकाण्डोऽपि यमद्रुमः । अपि स्याद्रम्यकत्तीरो महातिक्तोऽथ रामणः ॥१५६॥ रमणो' वकपर्यायनिम्बः कैडर्य इत्यपि । गिििनम्बः शुक्रसारो भूनिम्बस्तु किरातकः ॥१५७॥ कैरातोऽनार्यतिक्तः स्या तिक्तको रामसेनकः । प्रकाण्डतिक्तो हैमः स्यादथ नेपालनिम्बकः ॥१५॥ तृणनिम्बो ज्वरान्तः स्यान्नाडीतिक्तोर्धतिक्तकः । निद्रारिः संनिपातारिः कृष्णगर्भस्तु कटफलः ॥१५६॥ सोमवल्को रञ्जनकः स्त्री कुम्भी लघुकाश्मरी । भद्रावती महाकुम्भी श्रीपर्णी कुमुदा च सा ॥१६॥ भद्रोग्रगन्धा सैवान्याऽप्यग्निमन्थः पुमानयम् । अरण्यकेतुस्तर्कारी कर्णिका विजया जया ॥१६१॥ नादेय्यनन्तापि च सा वैजयन्त्यथ तत्र तु । क्षुद्राग्निमन्थस्तपनस्त्यरणिर्गणिकारिका ॥१६२॥ तेजोवृत्तस्तनुत्वक् स्यात् स्योनाकस्तु कटंभरः । मयूरजङ्गः कट्वङ्गः शुकनासः कुटंनटः ॥१६३॥ प्रियजीवोऽपि रलुकः कुनटस्तु विरोचनः । भ्रमरेष्टो बर्हिजको वातारिः स्यान्मुनिद्रुमः ॥१६॥ १ समना २ कैंडर्य ३ तिक्ताको ४ रञ्जनकोऽस्त्री ५ पि वन्याB ६ सोनाकस्तुB ७ जंघकटुरा ८ रलक:B ६ गन्धो ।